करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 56, कुल 155 में से
संदर्भ में पढ़ेंरविगतिफलं रविहरेण भाज्यं लब्धेन रविचन्द्रविगतिरपि
संस्कार्या, चन्द्रगतिफलं चन्द्रहरेण भाज्यं लब्धं प्राकपालस्थे
चन्द्रे गतिफले ऋणे भुक्तौ धनम्, अन्यथा ऋणमित्यर्थः ।
एतन्नतकर्म सूक्ष्ममिच्छतान्यत्रापि तिथ्यानयने सूर्याचन्द्रमसोः
पृथक्कृतं विधाय कर्तव्यम्, उक्तं च; इदं ग्रहाणां नतकर्म
युक्तं स्वल्पान्तरत्वान्न कृतं तदाद्यैरिति ग्रहणदृग्गणितयोरेक-
त्वप्रयोजनायावश्यं कर्तव्यमिति भावः । इति नतं क्रमज्यानत-
कर्म सिद्धान्ते प्रोक्तम्, तदेवानेन प्रकारेण मयोक्तम्, खशरभानु-
भुव इत्यङ्कानयने क्रमज्योत्पन्नमित्यर्थः । ब्रह्मगुप्ताचार्यस्य
मते तदेव सम्मतम्, यत्कैश्चिद्दलननतकर्म उत्क्रमज्यया
कथितं तदस्माकं न मतम्, चन्द्रमसो दिनं रात्रिरिति वचनात्
सूर्यस्य रात्रिदलं चन्द्रदिनार्द्धमिति, रात्रिदलम् १६।४९ इष्ट-
घटी पूर्णिमाघटी ११।५१ उभयोरन्तरम् ४।५७ प्राङ्नतमु-
न्नतम् २५।३ सूर्यस्य नतार्थं रात्रिशेषे गते वा भवति समये
चेज्जन्म तत्तद्घटीभिः संयुक्ते वासराधै खलु नतघटिकाः प्राक्-
प्रतीच्यो भवेयुरिति सूर्यस्य २५।३ पश्चिमेऽर्धाच्चन्द्रो-
न्नतमेव सूर्यस्य नतम्, नतेन ४।५७ हीनाः खगुणाः
२५।३ नतेनैव ४।५७ गुणिताः १२४।० सूर्यन-
तेन २५ । ३ त्रिंशद्धीनाः ४ । ५७ सूर्यनतेनैव गुणिता १२
४ । ० एवमेभिः खशरभानुभुवः ११२५० भक्ता लब्धमं-
शादि १० । ४३ । ३२ दशवर्जितम् ८० । ४३ । ३२