करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 55, कुल 155 में से
संदर्भ में पढ़ेंगणककुमुदकौमुदीटीकासमेतम् ।४ (५५)
फलक्षयः स्फुटतरौ ग्रहणेऽथ ततस्तिथिः ॥ २ ॥
इति नतं क्रममौर्विकयोदितं क्रमजमेव हि जिष्णु-
जसम्मतम् । यदपरैः कृतमुत्क्रमजीवया वलनह-
र्तृकर्म न तन्मतम् ॥ ३ ॥
द्युदलगलघटीनामित्यादिनोक्तेनेति—नतेन हीनैः पुनर्नतेनैव
गुणितैः खगुणैस्त्रिशद्भिः खशरभानुभुवः सार्द्धशतद्वयैकादशस-
हस्राणि भक्ते लब्धमंशादि दशभी रहितं रविहरः स्यात्, स
एव रविहरः स्वदशांशेन रहितश्चन्द्रहरः स्यात्, अथार्कमन्दफलं
रविहरेण चेद्भक्तं तदा रविफलं कलादिकं रविनतफलम्ऽस्यात्
चन्द्रमन्दफलं चन्द्रहरेण भक्तं कलादिकं चन्द्रनतफलं स्यात्,
रविनतफलं पश्चिमकपालस्थे रवौ धनं पूर्वकपालस्थेऽर्के ऋणम्
अर्द्धरात्रान्मध्याह्नपर्यन्तं पश्चिमकपालमित्यर्थः, अथ चन्द्रग्र-
हणे तु रात्रिरेव दिनत्वेन व्यवह्रियत इति चन्द्रस्य वैपरीत्येन
कपालव्यवस्था, मध्याह्नादर्द्धरात्रपर्यन्तं पूर्वकपालः, अर्द्धरात्रा-
न्मध्याह्नपर्यन्तं पश्चिमकपाल इत्यर्थः, अथ चन्द्रे पूर्वकपा-
लस्थे चन्द्रस्य मन्दफले ऋणे सति नतफलं चन्द्रे धनमर्थात्प-
श्चिमनते चन्द्रे फले ऋणे सत्यृणम्- इतरथा फले धने सत्यु-
भयतः प्राक्कपालस्थे परकपालस्थे वा चन्द्रे नतफलमृणम्, एव-
मेतौ ग्रहणे स्फुटतरौ विधाय ताभ्यामेवात्र तिथिः साध्या ।
कैश्चिदित्यत्रासकृदिदं कर्म कृतं परमनुक्तत्वान्नासकृत्क्रियते,
तथा कैश्चिदपि सूर्याचन्द्रमसोर्भुक्तिरपि नतेन संस्कृता तद्दैवं