करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 45, कुल 155 में से
संदर्भ में पढ़ेंगणककुमुदकौमुदीटीकासमेतम् १३ ( ४५ )
चासकृत्कालश्चेत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिक
लग्नम्, आक्ष्या यदिष्टघटिकाविलग्नमर्काच्च तत्रौदयिकात्स-
कृच्च । अथानुक्तमपि ऋणलग्नसाधनमुच्यते—तात्कालिक-
सायनार्कभुक्तभागैः स्वोदयो हतस्त्रिंशद्भक्तो लब्धं भुक्तकाल-
स्तमिष्टकालपलेभ्यः शोधयेच्छेषात्तत्पश्चादुदयाः शोध्याः शेषं
त्रिंशद्गुणमशुद्धभक्तं लब्धमंशादिकमशुद्धराशेः शोध्यमयनांश-
हीनं राश्यादिलग्नं स्यात्, यथा रात्रिशेषघटी १० समयको
रविः ३ । २ । ५६ । ३८ सायनः ३ । २१ । १२ ।
४८ अस्य भुक्तभागैः २१ । १२ । ४८ स्वोदयपलानि
२५५ गुणितानि ५४०९ त्रिंशद्भक्ते लब्धं रविभुक्तकालः
१८० इष्टघटी १० पलेभ्यः ६०० विशोध्य शेषम् ४२०
शेषात्पश्चादुदयराशिर्मेषस्तत्पलानि २२३ शुद्धानि शेषम्
१९७ त्रिंशद्गुणम् ५९१० अशुद्धैर्मीनपलैः २२३ लब्धमं-
शादि २६ । ३० । ८ एतदशुद्धराशेर्मीनतः शुद्धम् ११ ।
३ । २९ । ५२ अयनांशहीनम् १० । १५ । १३ । ४२
जातमृणं लग्नम्, अथ भुक्तकालादिष्टेऽल्पे प्रकारः, भुक्ताल्प-
काले स्वगुणाहतेऽर्कः स्वीयोदयाप्तांशहीनं लग्नं स्यात्, अय-
नांशहीनश्चेति—अस्मादिष्टकालानयनम्, तत्रार्कस्य भुक्तम्
१८० उदयस्पष्टवृषपलैः २५५ गुणितम् १७९९ । ५६
त्रिंशद्भक्तं लब्धमिष्टकालपलानि ५९ । अत्र लग्नमधिकन्ते-
नायमेवेष्टकालः यदा प्रष्टुर्भुक्तं तनुभोग्यार्थे सायनलग्नस्य ११