सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 46, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 46

। ३ । २९ । ५२ भोग्यांशाः २६ । ३ । ८ स्वोदयमीन-
पलैः २२३ गुणिताः ५९०९ । ५९ त्रिंशद्भक्ते लब्धम्
१९७ तनुभोग्योऽर्कभुक्तः १८० अनयोर्योगः ३७७ लग्ना-
त्सूर्यपर्यन्तमन्तरे राशिर्मेषस्तस्य पलैः २२३ युतः ६००
षष्टिभक्ते लब्धा घट्यः १० एवं शेषरात्रिगतघट्यः १०
इष्टागताः, अथेष्टकालः षष्टितः शोध्यः प्राग्दिनस्योदयाद्गत-
घट्यः ५० जाताः, अथ यदा रात्रेरिष्टकालाल्लग्नं साध्यते
तदा रविः सषड्भः कार्यस्तस्माल्लग्नं प्राग्वद्रात्रीष्टकाले साध्यं
रात्रीष्टकालेऽपि सषड्भार्काच्च साधनीयम् ॥ ६ ॥
अथ दिनरात्रिप्रमाणन्ततो नतोन्नतानि मालिन्याह-
चरपलयुतहीना नाडिकाः पञ्चचन्द्रा द्युदलमथ
निशार्धे याम्यगोले विलोमम् । द्युदलगतघटीनाम-
न्तरं तन्नतं स्यान्नतरहितदिनार्द्धञ्चोन्नतञ्जायतेऽत्र ॥७॥
पञ्चचन्द्रनाडिकाः १५ द्विधा चरपलैर्हीनयुताः कार्या
एकत्र हीनाः परत्र युताः सत्यो द्युदलनिशार्द्धञ्च क्रमेण भवति,
यत्र युतास्तत्र द्युदलं यत्र हीनास्तत्र रात्रिदलं तदुत्तरगोले
मेषादिषड्राशिस्थितेऽर्क इत्यर्थः । याम्यगोले तुलादिषड्राशि-
स्थितेऽर्के विलोमं यत्र हीनास्तत्र दिनार्द्धं यत्र युक्तास्तत्र
रात्र्यर्द्धं यथा-चरपल ८६ घटीभिः १।२६ उत्तरगोलत्वात्प-
ञ्चचन्द्राः १५।० घट्यो युता जातं दिनार्द्धम् १६। २६
हीना जातं रात्र्यर्द्धम् १३। ३४ एतद्रविसावनद्युदलञ्जातम्,