करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
DevanagariHindipublished155 पृष्ठ
पृष्ठ 44, कुल 155 में से
संदर्भ में पढ़ेंपृष्ठ 44
ग्न्युद्धृतो लग्नभुक्तकालः अनयोर्योगः अर्कयुतराशेर्लग्नपर्यन्तं
ये मध्यस्था उदयास्तैर्युतः एवं कृते लग्नादिष्टकालः स्यात् यथा
लग्नं ३ । ६ । ४२ । ५७ सायन ३ । २४ । ५९ । ७
मस्य भुक्तभागैः २४ । ५९ । ७ स्वोदयकर्कपलानि ३४१
गुणितानि ८५१९ । ५८ । ४७ त्रिंशद्भक्ते लब्धं तनुभुक्त-
कालः २८३ अर्कभोग्य ७१ तनुभुक्तयोर्योगः ३५४ रवि-
लग्नमध्ये मिथुनं तस्य पलैर्युतः ६५९ षष्ट्या भक्ते लब्ध-
घटिकाः १० । ५९ शेषत्यागात्पलोन एवमिष्टकालो
जातः , यदैकभ इति यदा लग्नरवी एकराशिस्थितौ तदा
तयोरंशविवरेणोदयो गुणितः खाग्निभक्तः आप्तोऽभीष्टकालः,
यदैकराशौ सूर्याल्लग्नमूनं भवति तदा द्युरात्रादिति
षष्टिघटिकाभ्यः शोध्यः सूर्योदयात्कालः