सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 41, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 41

गणककुमुदकौमुदीटीकासमेतम् । ३ ( ४१ )
अशुद्धपूर्वभवनैरजाद्यैर्युक्तं तनुः स्यादयनांशहीनम्।
भोग्याल्पकाले खगुणाहतोऽर्कः स्वीयोदयाप्तां-
शयुतो विलग्नम् ॥ ४ ॥
नागकुरंगदस्त्रा अष्टसप्ताधिकद्विशतानि २७८ पलानि
मीनमेषयोर्लंकोदयप्रमाणम्, गोंकाश्विनः २९९ वृषकुम्भयोः,
रामरदाः ३२३ मकरमिथुनयोर्विनाड्यः पलानि, एवं क्रमेण
कर्कादीनाम्, एते षडुत्क्रमेण तुलाद्याः । अथ स्वदेशीयार्थ-
मेते लंकोदयाः क्रमोत्क्रमस्थाः स्वैः प्रागुक्तप्रकारेण स्वदेश-
साधितैश्चरखण्डैः क्रमोत्क्रमस्थैर्विहीनयुक्ता इत्यर्थः। एवं कृते
मेषादिषष्णां राशीनामुदया भवन्ति, स्वदेशीया विलोमसंस्था
अमी मेषोदयास्तुलादिषष्णां भवन्ति॥ अथ श्लोकत्रयव्याख्या।
यातैष्यनाडीगुणितेत्यग्रे वक्ष्यमाणप्रकारेण तात्कालिकं सूर्य
सायनांशं कृत्वा तस्य भागाद्यं यद्गतांशाद्यं त्रिंशद्भिः शोधितं
भोग्यांशादिकं कृत्वा तेन स्वोदयो यस्य राशौ सूर्यस्तस्य राशेः
स्वोदयो गुणनीयस्ततः खाग्न्युद्धृतो यल्लभ्यते तदेवेह भोग्यकाल-
मुच्यते, तदिष्टघटीनां पलेभ्यो विशोधयेत्, तच्छेषादग्रस्थरा-
श्युदया यावंतः शुध्यन्ति तावतो विशोधयेत्, तच्छेषं खाग्नि-
गुणं कृत्वा शुद्धोदयेन भजेत् फलमंशादियाँतं ततोऽशुद्धराशेः
पूर्वं यावन्तो मेषाद्या राशयस्तत्संख्यायां मूर्ध्नि युक्तं सद्राश्याद्यं
लग्नं स्यात्, ततोऽयनांशहीनं कार्यम्, तत्स्पष्टलग्नं स्यात्,
ग्रहाणां तात्कालिकीकरणे विशेष उच्यते- षष्ट्या हता