करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
DevanagariHindipublished155 पृष्ठ
पृष्ठ 42, कुल 155 में से
संदर्भ में पढ़ेंपृष्ठ 42
इत्यनेनोदयाद्गता गम्या वा घट्यः सावना ग्राह्याः, यदा ग्रा-
ह्यास्तदोदयासुभिः सूर्यभुक्तिर्गुण्या राशिकलाभि १८००
र्भाजिता यदा स्वरूपे लब्धं तत्सहिता षष्टिर्हर इत्यर्था-
दवगन्तव्यम्, अथ लग्नार्थं तात्कालिकसूर्यकरणे विशेषः
यदीष्टाः सावना घटिकास्तदा तात्कालिकत्वं कार्यं यदार्क्ष्य
तदा नेत्यर्थः। उक्तं च गोलाध्याये-“लग्नार्थमिष्टघटिका यदि
सावनास्तास्तात्कालिकार्ककरणेन भवेयुराक्ष्याः। आक्ष्यो-
दया हि सदृशीभ्य इहापनेयास्तात्कालिकत्वमथ न क्रियते
यदार्क्ष्यः॥ १॥”
अथ प्रकृतं भोग्याल्पकाल इति यद्यल्पेष्टकालस्तदैत-
दुक्तम्भवति-यदीष्टकालपलेभ्योऽर्कस्य भोग्यं न शुद्ध्यति
तस्मिन्निष्टकाले खगुणाहते त्रिंशाद्भिर्गुणिते सति तत्स्योदये-
नाप्तमंशाद्य