करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 32, कुल 155 में से
संदर्भ में पढ़ें( ३२ ) करणकुतूहलम् । २
ननु, एषामयनांशानां प्रतिवर्षमेकैककलाऽधिका उत्पद्यन्ते
तत्पक्षे परमायनांशास्त्रिंशदंशाः ३० भवन्ति यत्पक्षे प्रतिवर्षं
चतुःपञ्चाशद्विकलाः ५४ उत्पद्यन्ते तत्पक्षे सप्तविंशत्यंशाः
परमायनांशा उत्पद्यन्ते, उक्तञ्च सूर्यसिद्धान्तटीकायां-प्रतिव-
र्षमेकलिप्ता षष्टिवर्षैरंशमेकमष्टादशवर्षशतैरेको राशिः षट्-
शताधिकैरेकविंशतिसहस्रवर्षैर्भगणमेकं २१६०० चतुर्युगा-
ब्देरेभिर्वर्षैः ४३२०००० भगणशतद्वयम् २०० एवोत्पद्यते,
अतः सूर्यसिद्धान्ते-त्रिंशदंशावधिचलनांशा जायन्ते प्राक्
चलनेऽयनांशाः गणकैर्योज्यन्ते न तु कदापि पात्यन्ते साम्प्रतं
विषमराशित्वात्प्राक् चलनं प्राक् चलितं ये भुक्तभागास्ते
वृद्धिमन्तोऽयनांशा ज्ञेयाः एवं प्रत्यक् चलनमग्रतः समराशौ
भविष्यति तत्र ये भुक्तभागास्ते त्रिंशद्भिः ३० शोधिता अत
एवापवृत्त्या शेषं ज्ञेयास्तदायनांशा भविष्यन्ति तयक्तादर्कतः
क्रान्त्यादिकं साध्यम्, 'अयनांशाः प्रदातव्या लग्ने क्रान्तौ
चरागमे । सत्रिभे वित्रिभे लग्ने दृक्कर्मणि सदा बुधैः ॥ कृते
कर्मणि ते त्याज्या न त्याज्याः सूर्यपर्वणि' पुनः 'युक्तायनां-
शादपमः प्रसाध्यः कार्या च खेटात्खलु भुक्तभागी' इति,
अतो यावन्तो गताब्दास्तावत्यः कला अयनांशा इत्युपपन्नं
सविस्तरं ग्रन्थान्तरात्, यथात्र करणे गताब्दाः ४३६ कलाः
षष्टिभक्ताः ७।१६ अंशादि अनेनांशादिना भवा एकादशांशाः
११ अन्विताः १८। १६ । ० चैत्रात्प्रतिमासं पञ्च विकला