करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 128, कुल 155 में से
संदर्भ में पढ़ेंगणककुमुदकौमुदीटीकासमेतम् । १८ ( १३१ )
कलास्ता रविचन्द्रयोर्भुक्तियोगेन भाज्या लब्धं दिनादिकं
ग्राह्यम् ऊनासु कलासु भोग्यं दिनादिकं ज्ञेयमधिकासु गतं
दिनादिकं ज्ञेयम् ॥ १ ॥
अथ सपातस्य गतैष्यज्ञानं सार्द्धेन्द्रवज्रयाह-
तात्कालिकौ तौ च तमश्च कृत्वा प्राग्वत्प्रसाध्यो
विशिखः कलादिः ॥ २ ॥
ओजे पदे युग्मपदे विधुश्चेदेकान्यगोलश्च सपातच-
न्द्रात् । ज्ञेयस्तदानीं खलु यातपातो गम्योऽन्य-
थात्वेन ततोऽपि कालात् ॥ ३ ॥
तात्कालिकाविति । तैः पूर्वागतैरेष्यगतदिनादिभिस्तौ च-
न्द्रार्कौ तमश्च पातं च यातैष्यनाडीगुणितेत्यादिना तात्का-
लिकान् कृत्वा प्राग्वत् खण्डकेभ्यः कलादिविशिखः शरः
साध्यः । अथ गतगम्यलक्षणं चेद्यद्योजपदे सायनो विधुः
स्थित्वा सपातचन्द्रादेकगोले भवति तथा युग्मपदे स्थित्वा
सपातचन्द्रादन्यगोले भवति तदा भागागतात्कालाद्यस्मिन्
काले द्वादश षड्राशयो जातास्तस्मादित्यर्थः वक्ष्यमाण-
कालेन गतपातो ज्ञेयः; अन्यथा तु चन्द्रो विषमपदे स्थित्वा
सपातचन्द्रादन्यगोले तथा युग्मपदे स्थित्वैकगोले तदा पूर्वा-
गतकालादेवैष्यः पातो ज्ञेयः । सायनांशो रविः ७ । १ । ० ।
६ सपातचन्द्रः ५ । ० । १७ । २१ अनयोर्योगः १२ ।
१ । १७ । २७ अथ द्वादशराशितोऽधिकस्तेनाधिकमंशादि