सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३६१
मूको भवतीति (७६ श्लोको द्रष्टव्यः) । अथ यदि द्वितीयेशः शुभग्रहयुतः त्रिकोणे वा केन्द्रे
विद्यमानः स्यादथवा कस्मिंश्चिच्छुभदे ( शुभग्रहे ) इत्थम्भूते सति जातो वाग्मी = वाक्प-
टुः भवति । 'वाचो युक्तपटुर्वाग्मी' इत्यमरः ॥ ७९ ॥
द्वितीयेश और बृहस्पति अष्टम स्थानमें हों तो जातक गूंगा हो । द्वितीयेश शुभग्रहसे
युक्त त्रिकोणमें हो, वा केन्द्रमें हो, वा शुभस्थानमें हो तो वाचाल होवे ॥ ७९ ॥
वागीशस्थांशपे सौम्ये स्वोच्चे वा शुभवीक्षिते ।
पारावतांशके वाऽपि वाग्मी पटुतरो भवेत् ॥ ८० ॥
वागीशेति । वागीशः ( द्वितीयेशः ) तिष्ठति यत्र नवांशे तस्य नवांशस्य स्वामिग्रहे
( द्वितीयेशाधिष्ठितनवांशपतिग्रहे ) सौम्ये=शुभग्रहे, स्वोच्चे, वा शुभवीक्षिते, वा पाराव-
तांशके गतवति । एतदुक्तमवधेयम् । द्वितीयभावपतिः शुभग्रहो भूत्वा स्वकीयोच्चराशौ
स्थितः, वा यत्र कुत्र शुभग्रहेण दृष्टः, वा स्वपारावतांशगतो भवेत् । तदा जातो वाग्मी =
वचनपटुः, पटुतरः = अतीव विद्वांश्च भवति ॥ ८० ॥
द्वितीय स्थानका स्वामी जिसके नवांश में हो, उसका स्वामी शुभ हो, अपने उच्च
स्थानमें हो, वा शुभग्रहसे दृष्ट हो, वा पारावतांशमें हो तो जातक वाचाल और चतुर होवे ।
केन्द्रत्रिकोणगे जीवे शुक्रे स्वोच्चं गते यदि ।
वाग्भावपेन्दुपुत्रे वा गणितज्ञो भवेन्नरः ॥ ८१ ॥
अधुना विद्याविचारमाह—केन्द्रेति । जीवे केन्द्रत्रिकोणगे ( १।४।७।१०।५।९ एत-
दन्यतमगते ) शुक्रे, स्वोच्चं = मीनराशिमुपगते, यदि वा वाग्भावपेन्दुपुत्रे = द्वितीयेशे बुधे
स्वोच्चं ( कन्याराशिं ) गते नरः, गणितज्ञः = गणितशास्त्रवेत्ता भवेत् ।
Notes—अत्र वृषसिंहयोरन्यतरे लग्ने 'वाग्भावपेन्दुपुत्रे' इति सङ्घटते । अन्यथा
तु 'गुरौ केन्द्रकोणगते शुक्रे स्वोच्चं गते' इत्येव चिन्त्यम् ॥ ८१ ॥
यदि बृहस्पति केन्द्र वा त्रिकोणमें हो और शुक्र उच्च स्थानमें हो, वा द्वितीयेश बुध
हो तो वह मनुष्य गणितज्ञ हो ॥ ८१ ॥
गणितज्ञो भवेज्जातो वाग्भावे भूमिनन्दने ।
ससौम्ये बुधसन्दृष्टे केन्द्रे वा सोमनन्दने ॥ ८२ ॥
गणितज्ञयोगान्तरमाह—गणितज्ञ इति । ससौम्ये = केनचिच्छुभग्रहेण ( गुरुशुक्र-
शुक्लचन्द्राणामन्यतमेनेत्यर्थः ) सहिते, भूमिनन्दने = मङ्गले, वाग्भावे = द्वितीयभावे गत-
वति, तस्मिन्, बुधेन सन्दृष्टे, वा सोमनन्दने = बुधे, केन्द्रे गतवति जातः, गणितज्ञः
( ज्योतिर्विद् ) भवेत् । अत्र 'ससोमे' इत्यपि पाठान्तरं दृश्यते । तथा सति, ससोमे =
चन्द्रयुक्ते भूमिनन्दने इति व्याख्येयम् ॥ ८२ ॥
मंगल द्वितीय स्थानमें शुभग्रहके साथ हो उसे बुध देखता हो वा बुध केन्द्रमें हो तो
मनुष्य गणितज्ञ होता है ॥ ८२ ॥
वाग्भावपे रवौ भौमे गुरुशुक्रनिरीक्षिते ।
पारावतांशके वापि तर्कयुक्तिपरायणः ॥ ८३ ॥
इदानीं तार्किकयोगमाह—वाग्भावप इति । सूर्यो वा भौमो द्वितीयेशो भवेत् ।
तस्मिन् गुरुशुक्राभ्यामवलोकिते, अपि वा सूर्यभौमयोरन्यतरे यत्र तत्र स्वपारावतांशगते
सति जातः तर्कयुक्तिपरायणः = तर्कशास्त्र- (न्यायशास्त्र ) व्रती भवति । अत्र 'पाराव-
तांशके सौम्ये' इत्यपि पाठो दृश्यते । तथा सति 'बुधे पारावतांशके विद्यमाने सति'
इति व्याख्येयम् ।

३६२ सटीकजातकपारिजाते-
Notes—सूर्यो वा भौमो वाग्भावपस्तदैव भवति, यदि कर्कौ वा मीन-तुलयोरन्य-
तरं लग्नं स्यादिति चिन्त्यम् । अन्यथा सूर्यो वा भौमः यत्र तत्र पारावतांशे ( स्वकीय-
षडधिकारे ) भवेत्तदोक्तं फलं स्यादिति ॥ ८३ ॥
सूर्य या मंगल द्वितीयेश होकर गुरु और शुक्रसे दृष्ट हो, वा अपने पारावतांशमें हो तो
वह मनुष्य तर्कशास्त्र ( न्याय ) में तत्पर हो ॥ ८३ ॥
सम्पूर्णबलसंयुक्ते गुरौ तद्भवनेश्वरे ।
दिनेशभृगुसन्दृष्टे शाब्दिकोडयं भवेन्नरः ॥ ८४ ॥
इदानीं वैयाकरणयोगमाह—सम्पूर्णेति । तद्भवनेश्वरे=द्वितीयभावपतौ, गुरौ=बृहस्पतौ
(गुरुर्द्वितीयेशस्तदैव यदि वृश्चिक-कुम्भान्यतरं लग्नं स्यादिति ) सम्पूर्णबलयुक्ते = पूर्वं
यानि बलान्युक्तानि तैः सर्वैः संयुक्ते, तथाभूते, दिनेशभृगुसन्दृष्टे = सूर्यशुक्राभ्यामवलोकिते
सति, अयमस्मिन् योगे समुद्भवो नरः शाब्दिकः = शब्दशास्त्राभ्यासी=वैयाकरणः भवेदिति ।
जातकत्नेऽपि—
गुरौ धनस्थे बलपूर्णयुक्ते शुक्रेण सूर्येण च दृष्टियुक्ते ।
शुक्रे धने स्वोच्चगतेऽथवाऽपि जातो नरः शब्दविशेषशास्त्रात् ॥ इति ॥ ८४ ॥
सम्पूर्ण बलसे परिपूर्ण गुरु यदि द्वितीय भावका स्वामी ( द्वितीयेश ) हो उसको सूर्य
और शुक्र देखते हों तो वह मनुष्य व्याकरणका पण्डित होवे ॥ ८४ ॥
वेदान्तपरिशीली स्यात्केन्द्रकोणे गुरौ यदि ।
बुधेन भृगुणा दृष्टे शनौ पारावतांशके ॥ ८५ ॥
इदानीं वेदान्तज्ञयोगमाह—वेदान्तेति । गुरौ केन्द्रकोणे ( १।४।७।१०।५।९ ) गत-
वति, तस्मिन् यदि बुधेन, भृगुणा ( शुक्रेण ) च दृष्टे, शनौ च पारावतांशके ( स्वकीया-
धिकारषटके ) विलसति, जातः वेदान्तपरिशीली = वेदान्तशास्त्रविवेचको भवतीति ॥८५॥
यदि बृहस्पति केन्द्र या कोणमें हो उसे बुध और शुक्र देखते हों और शनि अपने
पारावतांशमें हो तो मनुष्य वेदान्ती होवे ॥ ८५ ॥
षट्शास्त्रवल्लभः केन्द्रे जीवे दानवपूजिते ।
सिंहासने गोपुरांशे वाग्भावस्यांशपे बुधे ॥ ८६ ॥
इदानीं षट्शास्त्रज्ञयोगमाह—षडिति । जीवे = बृहस्पतौ, केन्द्रे ( १।४।७।१० ),
दानवपूजिते = शुक्रे, सिंहासने = स्वकीयाधिकारपञ्चके, वाग्भावस्यांशपे = द्वितीयभावगत-
नवांशराशिपतौ, बुधे, ( बुधो द्वितीयभावगतनवांशपतिर्भूत्वा ) गोपुरांशे = स्वकीयाधि-
कारचतुष्के सति ( अ. १ श्लो. ४५ द्र. ) जातः, षट्शास्त्रवल्लभः = शिक्षा-कल्प-व्याक-
रण-ज्योतिः-निरुक्त-छन्दःशास्त्राणां श्रुतेः षडङ्गभूतानां विवेचको भवति ॥ ८६ ॥
बृहस्पति केन्द्रमें हो शुक्र अपने सिंहासनांशमें हो और बुध द्वितीय भावका नवांश-
पति होकर अपने गोपुरांशमें हो तो जातक षट्शास्त्री हो ॥ ८६ ॥
अथ कुटुम्बविचारः ।
उपजीव्य नरं सर्वे तदीशे गोपुरांशके ।
वर्द्धन्ते मुदितास्तस्य भृगौ पारावतांशके ॥ ८७ ॥
उपजीव्येति । तदीशे = द्वितीयभावपतौ, गोपुरांशे = स्वकीयाधिकारचतुष्टये, भृगौ =
शुक्रे, पारावतांशके = स्वाधिकारषट्के विद्यमाने सति तस्य जातस्य, सर्वे = आत्मीयाः
( कुटुम्बाः ) तं जायमानं नरमुपजीव्य = तदाश्रिता जीवनं यापयन्तो मुदिताः=प्रसन्नचित्ताः
सन्तो वर्द्धन्ते = समृद्धिमुपगच्छन्तीति ॥ ८७ ॥

प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३६३
यदि द्वितीयेश गोपुरांशमें हो और शुक्र पारावतांशमें हो तो उसके सभी आश्रित
उससे पलित होकर बड़ी प्रसन्नतासे बढ़ते हैं याने वह मनुष्य अपने आश्रितों का पालक
होता है ॥ ८७ ॥
जायाकुटुम्बगृहपौ सितपापयुक्तौ दुःस्थौ च तत्समकलत्रहरौ भवेताम् ।
वित्तेश्वरे बलवति स्मरराशिपे वा तुङ्गादिगे यदि समेति कलत्रमेकम् ॥८८॥
जायेति। जाया-कुटुम्बगृहपौ = सप्तमेश-द्वितीयेशौ, सितपापयुक्तौ = शुक्रेण पापग्रहेण
च सहितौ, दुःस्थौ = षडष्टव्ययगतौ च स्यातां, तदा तत्समकलत्रहरौ = तत्संख्यामितस्त्री-
नाशको, भवेताम् । एतदुक्तं भवति । सप्तमेशो द्वितीयेशो वा यदि शुक्रेण वा केनचिदेकेन
पापेन युक्तो दुःस्थश्च स्यात् तदैकस्त्रीनाशको भवति । यदि ग्रहद्वयेन युक्तः स्यात् तदा
स्त्रीयुगलं नाशयेत् । एवं ग्रहसंख्यापरत्वेन स्थितिपरत्वेन च स्त्रीनाशयोगो वाच्यः ।
वित्ताधिपे = द्वितीयेशे, वा स्मरराशिपे = सप्तमभावपतौ बलवति सति यदि तुङ्गादिगे = स्व-
कीयोच्चादिगते ( आदिशब्देन स्वमूलत्रिकोण-स्वराशि स्ववर्गादिकं ज्ञेयम् ) तदा जातः
एकं, कलत्रं=भार्या, समेति=प्राप्नोति । अत्र योगे जातो नर एकभार्यो भवतीत्यर्थः ॥८८॥
सप्तमेश और द्वितीयेश शुक्र और पापग्रहसे ( जितनेके साथ ) युक्त हों और दुष्टस्थान
में हों तो उतनी स्त्रीके नाशक होवं । द्वितीयेश वा सप्तमेश बलवान् होकर उच्चादिमें हो तो
एक ही स्त्री होवे ॥ ८८ ॥
अथ पात्राशनयोर्विचारः ।
भुक्तिस्थानपतौ सितेन्दुसहिते लग्नादिकेन्द्रस्थिते
रौप्यं पात्रमुपैति काञ्चनमयं जीवेन्दुशुकान्विते ।
भुक्तिस्थानपदेहपौ शनियुतौ लोहादिपात्रं वदेद्
भौमे पापनिरिक्षते धनगते जातः कदन्नादिभुक् ॥ ८६ ॥
भुक्तिस्थानपताविति । भुक्तिस्थानं = द्वितीयभावः, तत्पतौ = द्वितीयभावेशे, सितेन्दुसहिते
= शुक्रचन्द्राभ्यां युक्ते, तथा सति, लग्नादिकं यत्केन्द्रं ( १।४।७।१० ) तदन्यतमगते
जातः, रौप्यं = रजतमयं, पात्रं = भाजनं, उपैति = प्राप्नोति । तथाभूते भुक्तिस्थानपतौ
( लग्नादिकेन्द्रस्थिते ), जीवेन्दुशुकान्विते = गुरुचन्द्रशुक्रैः सहिते सति काञ्चनमयं = सौवर्णं
पात्रं प्राप्नोति । अथ भुक्तिस्थानपदेहपौ = द्वितीयेशलग्नेशौ यदि शनियुतौ भवेतां तदा
लोहादिपात्रं जातकः प्राप्नोतीति वदेत् । अशनमाह—भौमे = मङ्गले, पापनिरिक्षते=शनि-
सूर्यक्षीणचन्द्रान्यतमेनावलोकिते, धनगते = द्वितीयभावमुपगते सति जातः कदन्नादिभुक् =
कुत्सितान्नफलादिभोक्ता भवति ॥ ८९ ॥
भुक्ति ( २ ) स्थानका पति शुक्र और चन्द्रमाके साथ लग्नादि केन्द्रमें स्थित हो तो
जातकको रूपाका ( चांदी ) पात्र मिले । द्वितीयेश यदि बृहस्पति और शुक्रसे युक्त हो तो
सोनेका पात्र प्राप्त होवे । द्वितीयेश और लग्नेश शनिसे युक्त हो तो लोहेंका पात्र कहे ।
पापग्रहसे दृष्ट मंगल धनमें हो तो जातक कदन्न भोज करे ॥ ८९ ॥
बह्वाशनो भुक्तिपतौ सपापे दावाग्निदण्डायुधकालभागे !
नीचांशके पापनिरिक्षते च शुभैर्न दोषः सहितेक्षिते वा ॥ ६० ॥
बह्वाशन इति । भुक्तिपतौ = द्वितीयेशे, सपापे=पापग्रहेण सहिते, दावाग्नि-दण्डायुध-
कालानां भागे ( षष्ट्यंशे ) विद्यमाने सति जातः, बह्वाशनः = अधिकभुक् भवति । भुक्ति-
पतौ नीचांशके = स्वकीयनीचराशिनवांशे तस्मिन्पापेन निरीक्षिते च तथैव फलं (बह्वाशनः)
स्यात् । अथोक्तयोगेऽपि, शुभैः = शुभग्रहैः, सहितेक्षिते=संयुक्तते, दृष्टे वा दोषः न स्याद-
र्थाद्बह्वाशनो न भवेदिति ॥ ६० ॥

३६४ सटीकजातकपारिजाते-
भुक्ति (२ भाव) का स्वामी पापग्रहसे युक्त होकर दावाग्नि, दण्डायुध, कालके षष्ट्यंश
में हो या नीचांशमें हो पापग्रहसे देखा जाता हो तो बहुत खानेवाला होवे। यदि यहां
द्वितीयेश शुभयुक्त-दृष्ट हो तो यह दोष न होवे ॥ ९० ॥
भुक्तिस्थाने शुभयुते तदीशे शुभसंयुक्ते । शुभग्रहेण सन्दृष्टे सुखभुक् स नरो भवेत् ॥
परान्नभुक् तदीशेऽपि नीचशत्रुसमन्विते । नीचखेचरसन्दृष्टे तद्द्षणपरायणः ॥९२॥
भुक्तिस्थाने इति । भुक्तिस्थाने = द्वितीयभावे, शुभयुते ( कश्चिच्छुभग्रहो द्वितीयभावगः
स्यादिति ), तदीशे = द्वितीयेशे, शुभसंयुते = केनचिच्छुभग्रहेण सहिते तथाभूते केनचिच्छु-
भग्रहेण सन्दृष्टे स जातो नरः सुखभुक् = सुखेन भोजनकृद्भवति ॥ ९१ ॥
तदीशे = द्वितीयभावपतौ, नीचशत्रुसमन्विते = स्वनिचे, शत्रुग्रहेण वा समन्विते सति,
अपि = निश्चयेन परान्नभुक् = अन्यान्नभक्षणशीलो भवति । अथ द्वितीयेशे तथाभूते, नीच-
खेचरसन्दृष्टे = नीचवर्त्तिना ग्रहेणावलोकिते जातः तद्द्षणपरायणः = भुक्तान्नदूषणशीलः
भवति । तेन यद्भक्ष्यते तदेव दूष्यते चेति ॥ ९२ ॥
भुक्ति (२) स्थानमें शुभग्रह हो और भुक्ति (२) स्थानेश भी शुभग्रहसे युक्त हो
और शुभग्रह उसे देखते हों तो वह मनुष्य सुखसे भोजन करनेवाला हो। यदि २ भावका
स्वामी नीच स्थानमें या शत्रुस्थानमें हो तो पराया अन्न खानेवाला हो। नीचग्रहसे दृष्ट हो
तो उसके दूषणमें तत्पर हो ॥ ९१-९२ ॥
कालोचिताशनो भुक्तिनाथे लग्नेशवीक्षिते ।
पापग्रहेण सन्दृष्टे नीचांशादियुते न तु ॥ ९३ ॥
कालोचितेति । भुक्तिनाथे = द्वितीयेशे, लग्नेशेन वीक्षिते = दृष्टे, स्वोच्चादिगते च जातः
कालोचिताशनः = यस्मिन् काले यदशनमुचितं तद्धान् ( समयानुकूलभोज्यभुक् ) भवति ।
अथ तस्मिन्भुक्तिनाथे, पापग्रहेण सन्दृष्टे नीचांशादियुते च तथा तु न ( कालोचिताशनो
न ) भवति । अपि तु कालानूचिताशनो भवतीत्यर्थः ॥ ९३ ॥
द्वितीयेश यदि लग्नेशसे देखा जाता हो पापग्रहसे देखा न जाता हो नीचांशादि युक्त
न हो तो समयानुकूल भोजन करने वाला हो ॥ ९३ ॥
स्वल्पाशी रुचिकामः स्याद् भुक्तिनाथे शुभे गृहे ।
स्वोच्चे शुभेन सन्दृष्टे मृद्वंशादिसमन्विते ॥ ९४ ॥
स्वल्पाशीति । सरलार्थ एवेत्यलम् ॥ ९४ ॥
द्वितीयेश शुभराशिमें हो तो जातक थोड़ा खानेवाला हो। द्वितीयेश अपने उच्चमें
शुभग्रहसे दृष्ट और षष्ठ्यंशमें हो तो सदा खानेमें रुचि रखनेवाला हो ॥ ९४ ॥
भुक्तिस्थानाधिपे मन्दे तदीशे वाऽऽर्किसंयुते ।
नीचेऽर्कसूनुना दृष्टे श्राद्धभुक् सततं नरः ॥ ९५ ॥
भुक्तिस्थानाधिप इति भुक्तिस्थानाधिपे=
द्वितीयभावेशे, मन्दे = शनैश्चरे सति, वा
तदीशे=द्वितीयेशे, आर्क्सिंयुते = शनिना
सहिते, वा तदीशे नीचे = स्वनिचराशौ,
अर्कसूनुना = शनैश्चरेण दृष्टे सति जातो
नरः सततं=नित्यं, श्राद्धभुक् =श्राद्धान्नभो-
क्ता ( महाब्राह्मण इव ) भवति ॥ ९५ ॥
दूसरे भावका स्वामी शनि हो वा


[चक्र/कुण्डली विवरण]

  • १ भाव (लग्न): १ ल.
  • २ भाव: २
  • ६ भाव: ६ शु.
  • ७ भाव: श्राद्धान्नभुक्
  • १२ भाव: १२ श.

तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३६५
द्वितीयेश शनिसे युक्त हो वा द्वितीयेश नीच राशिमें हो उस पर शनिकी दृष्टि हो तो निरन्तर
श्राद्धका अन्न खानेवाला (महापात्र) होवे ॥ ९५ ॥
सिंहासनांशे यदि देवपूज्ये शुक्रे यदा गोपुरभागयुक्ते ।
पारावतांशे धनपे बलाढ्ये जातस्त्वसङ्ख्याश्रितरक्षकः स्यात् ॥९६॥
सिंहासनांश इति । यदि देवपूज्ये = बृहस्पतौ, सिंहासनांशे = स्वकीयाधिकारपञ्चके,
शुक्रे यदा गोपुरभागयुक्ते = स्वाधिकारचतुष्टये, धनपे = द्वितीयेशे, बलाढ्ये सति, पारावतांशे
= स्वकीयाधिकारषट्के ( १ अ०, ४५-४६ श्लो० ) च विद्यमाने सति जातः असङ्ख्या-
नामनेकानामाश्रितानां = शरणागतानां रक्षकः = प्रतिपालको भवति ॥ ९६ ॥
पारिजाते सुधा टीका कपिलेश्वररचिता ।
अध्याये रुद्र (११) संख्येऽस्मिन् पूर्ति भावफले गता ॥ ११ ॥
यदि बृहस्पति सिंहासनांशमें हो, शुक्र गोपुर भागमें हो, बलवान् धनेश पारावतांशमें
हो तो जातक असंख्य आश्रितों का रक्षक होवे ॥ ९६ ॥
इति जातकपारिजाते एकादशे तनु-धनभावफलाध्याये विमला हिन्दी टीका समाप्ता ॥११॥
अथ तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥
तत्र तृतीयभावफलम् ।
ज्येष्ठानुजस्थितिपराक्रमसाहसानि कण्ठस्वरश्रुतिवराभरणांशुकानि ।
धैर्यं च वीर्यबलमूलफलाशनानि वक्ष्ये तृतीयभवनात् क्रमशोऽखिलानि ॥१॥
अथाधुना तृतीयभावफलानि विवक्षुः प्रथमं तृतीयभावे किं किं विचार्यमित्याह ।
श्लोकस्तु स्पष्टार्थ एवेत्यलम् ॥ १ ॥
अब तृतीय भावका विचार करते हैं । तृतीय भावसे ज्येष्ठ और छोटा भाईका विचार,
पराक्रम, साहस, कण्ठस्वर, श्रवण, आभरण, वस्त्र, धैर्य, वीर्य, बल, मूल, फल भोजन ये
सब क्रमसे कहेंगे ॥ १ ॥
अथ भ्रातृविचारः ।
भ्रातृस्थानं तृतीयं च नवैकादशसप्तमम् ।
तत्तदीशदशायां च भ्रातृलाभो भवेन्नृणाम् ॥ २॥
इदानीं भ्रातृस्थाननिरूपणपूर्वकं भ्रातृविचारमाह—भ्रातृस्थानमिति । जन्मलग्नात्-
तृतीयम्, नवमम्, एकादशम्, सप्तमञ्च स्थानं भ्रातृस्थानं कथितम् । अत एव तत्तदीश-
दशायां = तृतीय-सप्तम-नवमै-कादशभावपतीनां दशाकाले, नृणां = जनिमतां, भ्रातृलाभः
= सोदरोत्पत्तिः भवेत् । उक्तेषु भावेषु यद्भावपतिर्जन्मकाले बलीयान् भवेत्तद्दशायां विशे-
षतो भ्रातृलाभेन भवितव्यमिति चिन्त्यम् ॥ २ ॥
तीसरा, नववां, ग्यारहवां और सातवां ये भ्रातृस्थान हैं। उन स्थानोंके स्वामीकी दशा
में मनुष्योंको भ्रातृलाभ होता है ॥ २ ॥
भ्रातृस्थानेशतद्राशितद्भावस्थद्युचारिणाम् ।
मध्ये बलसमेतस्य दशा सोदरवृद्धिदा ॥ ३ ॥
तृतीयेश-तृतीयेशराशि-तृतीयभावगतग्रहाणां मध्ये बलीयसो ग्रहस्य दशा सोदरवृ-
द्धिदा भवति ॥ ३ ॥
भ्रातृ (३) स्थानके स्वामी, उसकी राशि तथा ३ में स्थित ग्रहोंके बीचमें बलवान् ग्रह-
की दशा भाईकी वृद्धि करनेवाली होती है ॥ ३ ॥

३६६ सटीकजातकपारिजाते-
भौमो बलविहीनश्चेद्दीर्घायुर्भातृगो भवेत् ।
विलग्नगो बली यस्य कारकः स प्रभुः स्मृतः ॥ ४ ॥
बलहीनो भौमो भ्रातृगः = तृतीयभावगश्चेद्भवेत्तदा जातो दीर्घायुर्भातृमान् भवेत् ।
यस्य जन्मकाले कारकः = भ्रातृकारको ( मङ्गलः ) ग्रहः, विलग्नः = जन्मलग्नगतः स्यात् ,
स जातः, प्रभुः = जनाधिपः स्मृतः = कथितः ॥ ४ ॥
बलसे हीन मंगल ३ रे भावमें हो तो दीर्घायु भाईवाला हो । जिसका भ्रातृभाव कारक
लग्नमें बलवान् होकर हो तो वह समर्थ होता है ॥ ४ ॥
जन्मकाले गुणी प्राणी कारको यः समृद्धिकृत् ।
क्षयकारी विपर्यासे भावपो विबलोऽधिकः ॥ ५ ॥
स्पष्टार्थः । एतदर्थं ११ अ. ४, ५, ८ श्लोका द्रष्टव्याः ॥ ५ ॥
जन्म समय यदि किसी भावका कारक गुणवान् और बली हो तो वह उस भावकी
समृद्धि करने वाला होता है । इससे विपरीत हो तो उस भावकी हानि करता है । भावपति
निर्बल हो तो भ्रातृपक्षका अधिक क्षयकारी होता है ॥ ५ ॥
सोदरेशकुजौ नाशं गतौ चेत्सोदरक्षयः ।
पापर्क्षगौ सपापौ वा भ्रातॄनुत्पाद्य नाशयौ ॥ ६ ॥
सोदरेशकुजौ = तृतीयेशो भौमश्च, नाशं गतौ = अष्टमभावमुपगतौ चेद्भवतां तद
जातस्य सोदरक्षयः = भ्रातृहानिर्भवति । तौ सोदरेशकुजौ चेत्पापराशिगतौ, वा पापग्रहा-
युक्तौ भवेतां तदा भ्रातॄनुत्पाद्य नाशयौ भवतः । योगेऽस्मिञ्जातस्य भ्रातर उद्भूय म्रिय-
न्त इति । जातकत्नेऽपि—
नाशस्थितौ सोदरनाथभौमौ पापेक्षितौ सोदरनाशमाहुः ।
पापर्क्षगौ पापसमागतौ वा भ्रातॄन्समुत्पाद्य विनाशहेतुः ॥ इति ॥ ६ ॥
तृतीयेश और मंगल अष्टम भावमें हों तो भाईका नाश होता है । दोनों पापग्रहकी
राशिमें हों वा पापग्रहके साथ हों तो दोनों ग्रह भाईको उत्पन्न करके नाश करते हैं ॥ ६ ॥
नीचास्तगौ सोदरनायकाख्यौ नीचांशगौ पापसमागतौ वा ।
क्रूरादिषष्ट्यंशगतौ तदानीं भ्रातॄन्समुत्पाद्य विनाशहेतुः ॥ ७ ॥
सोदरनायकाख्यौ = सहजेशः, सहजकारकश्चेत्यन्यत्स्पष्टार्थमेवेति ॥ ७ ॥
भ्रातृस्थानेश और भ्रातृकारक नीच राशिमें हों अस्त हों या नीचांशमें हों वा दोनों
क्रूर षष्ट्यंशमें हों तो भाईका जन्म नाश करने ही के निमित्त करते हैं ॥ ७ ॥
अतिक्रूरसमायुक्ते भावे वा कारकेऽपि वा ।
तद्भावनाथके वाऽपि बाल्ये सोदरनाशनम् ॥ ८ ॥
अतिशयेन क्रूरः अतिक्रूरः ( पापीयान् ), पापग्रहश्चेन्नीचगतोऽस्तं गतः शत्रुवर्गादिग-
तो वा भवेत्तदाऽसावतिक्रूरोऽतीव पापी भवति । तेन पापीयसा ग्रहेण तृतीयभावे वा भ्रातृ-
कारके वा तृतीयेशे समायुक्ते सति, बाल्ये = बालावस्थायामेव सोदरनाशनं भवति । तस्य
बाल्यकाल एव सोदरो म्रियत इत्यर्थः ॥ ८ ॥
अत्यंत क्रूरग्रहसे युक्त ३ रा भाव हो या भ्रातृकारक हो या ३ रे भावका स्वामी हो तो
बाल्यावस्था में भाई का नाश होवे ॥ ८ ॥
धनेश्वरे नाशगते बलाढ्ये पापान्विते सोदरकारकाख्ये ।
तन्मातृकारग्रहसंयुते च सापत्‍नमातुः सहजा वदन्ति ॥ ६ ॥
धनेश्वरे = द्वितीयभावेशे, बलाढ्ये = सबले सति, नाशगते = अष्टमभावगते, सोदर-

तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३६७
कारकाख्ये = भ्रातृकारके ग्रहे ( भौमे ) पापान्विते = पापग्रहेण सहिते, तन्मातृकारकग्रहसं-
युते = तस्य (तृतीयभावस्य ) यो मातृकारको ग्रहः ( चतुर्थेशः ) लग्नाच्चतुर्थभावपतिरि-
त्यर्थः तेन संयुक्ते सति, सापत्नमातुः = विमातुः सकाशात् सहजाः = भ्रातरो भवन्ति
( वैमात्रेयभ्रातरो भवन्ति ) इति विज्ञा वदन्ति ॥ ९ ॥
बलवान् तृतीयेश अष्टममें हो, पापयुक्त भ्रातृकारक ग्रह ३ यसे ४ र्थ भावके कारकसे
भी युक्त हो तो उसको सौतेली मातासे उत्पन्न भाई हो ॥ ९ ॥
भ्रातृस्थाने यदि शुभयुते सोदराणां चिरायुः
पापाक्रान्ते सहजभवने पापहष्टे विनाशम् ।
ज्येष्ठं हन्ति द्युमणिरनुजस्थानगः पापहष्टः
सौरस्तस्यानुजमवनिजो हन्ति सर्वान् कनिष्ठान् ॥ १० ॥
तृतीयभावे शुभग्रहाणां दृष्ट्या योगेन च सोदराणां दीर्घायुर्दृद्धं, पापानां दृष्ट्या योगेन
च सोदराणां विनाशं ब्रूयात् । सूर्यश्चेत्तृतीयस्थानगः स्यात्तदा ज्येष्ठभ्रातरं, शनिस्तस्यानु-
जुजं, भौमो हि सर्वान् पश्चाज्जातान् कनिष्ठान् हन्ति । तत्र पापहष्टे विशेषेणार्थदेव शुभ-
दृष्टे तत्परिहारोऽपि भवतीति ॥ १० ॥
यदि तृतीय भावमें शुभग्रह हो तो भाई दीर्घायु होवे । पापग्रह तृतीयमें हो उसपर
पापग्रहकी दृष्टि हो तो भाईका विनाश हो । सूर्य पापग्रहसे दृष्ट तृतीयमें हो तो जातकके
ज्येष्ठ भ्राताका विनाश करे, और शनि हो तो उसके केवल १ छोटे भाईका नाश करे और
मंगल हो तो सब छोटे भाइयोंका संहार करे ॥ १० ॥
त्रिकोणकेन्द्रे यदि पापखेडे तृतीयभावादनुजस्य नाशम् ।
शुभोपयाते सहजाभिवृद्धिः शुभाशुभं मिश्रफलं वदन्ति ॥ ११ ॥
तृतीयभावात् त्रिकोणे केन्द्रे वा पापखेटे विद्यमाने सति अनुजस्य = कनिष्ठभ्रातुः नाशः
स्यात् । शुभोपगते = तृतीयभावात् त्रिकोणकेन्द्रे शुभग्रहे गतवति सहजाभिवृद्धिः = सोदर-
वृद्धिर्भवति । अथ च तत्र शुभेऽशुभेऽपि गतवति, मिश्रफलं = सोदरहानिः, सोदरवृद्धिश्चेति
मनीषिणो वदन्ति ॥ ११ ॥
तृतीय भावसे यदि त्रिकोण या केन्द्रमें पापग्रह हो तो भाईका नाश करे । शुभग्रह हो
तो भाईकी वृद्धि करे । यदि शुभ अशुभ दोनों हों तो मिश्र फल ( शुभाशुभ दोनों ) फल
देते हैं ॥ ११ ॥
दुःस्थे चन्द्रे सोदरस्वामियुक्ते जातस्यान्यस्तन्यपानं वदन्ति ।
मातृभ्रातृस्थानपौ बन्धुयातौ नास्ति भ्रातृस्थानवृद्धिर्नराणाम् ॥ १२ ॥
भौमान्वितौ सोदरदौ भवेतामन्यैः समेतौ यदि नानुजः स्यात् ।
सौरस्तृतीयेऽनुजनाशकर्ता विधुन्तुदः सोदरवृद्धिकृत्स्यात् ॥ १३ ॥
चन्द्रे, सोदरस्वामियुक्ते = तृतीयभावपतिना सहिते दुःस्थे = षडष्टव्ययान्यतमगते सति
जातस्य नरस्य, अन्यस्तन्यपानं = जननीतरदुग्धपानं विज्ञा वदन्ति । मातृभ्रातृस्थानपौ =
चतुर्थेशतृतीयेशौ बन्धुयातौ = चतुर्थस्थानगतौ स्यातां तदा नराणां भ्रातृस्थानवृद्धिः = सह-
जोद्भवः, नास्ति = न भवतीति । तौ मातृभ्रातृस्थानपौ यदि भौमान्वितौ = मङ्गलेन युक्तौ
भवेतां तदा सोदरदौ = भ्रातृदातारौ भवतः । यदि तौ, अन्यैः ग्रहैः ( भौमेतरैः ) समेतौ
स्यातां तदा अनुजो न स्यात् । शनिस्तृतीयभावगतः स्यात्तदाऽनुजनाशकर्ता भवति ।
विधुन्तुदः = राहुस्तृतीयगतः सोदरवृद्धिकृत् स्यात् = भ्रातृजन्मदो भवति । तृतीये राहुः
25 भ्रातृनाशको न, किन्तु भ्रातृकारक एव भवतीति भावः ॥ १२-१३ ॥

३६८ सटीकजातकपारिजाते-
चन्द्रमा ६।८।१२ भावमें तृतीयेश से युक्त हो तो जातकको दूसरेका स्तनपान करना
कहते हैं। चतुर्थेश और तृतीयेश दोनों चतुर्थ स्थानमें हों तो मनुष्योंके भ्रातृ स्थानकी
वृद्धि न हो ॥ १२ ॥
यदि तृतीयेश और चतुर्थेश मंगलसे युक्त हों तो भाई को देखें। अन्यग्रहोंसे युक्त हों
तो भाई न हो। तीसरे शनि हो तो भाई का नाश करे और राहु हो तो भाईकी वृद्धि
करनेवाला हो ॥ १३ ॥
अदृश्यराशौ यदि वा सपापे वधूगृहस्थे सहजाधिनाथे ॥
जातानुजस्योपरि नानुजः स्यात् पुंवर्गगे दृश्यगते तथैव ॥ १४ ॥
सहजाधिनाथे = तृतीयभावेशे, अदृश्यराशौ = स्पष्टलग्नाद्राशिषट्कमदृश्यं भवति, तद-
न्यतमराशौ यदि वा = अथवा, सपापे = पापग्रहयुक्ते, वधूगृहस्थे = सप्तमभावगते सति,
जातानुजस्योपरि = जायमानकनिष्ठानन्तरं, अनुजः = लघुसोदरभ्राता न स्यात्। स जातो
यदि कस्यचिदनुजो भवेत्तदा तस्यानुजो न स्यादथवा तस्य जातस्यैकानुजानन्तरमन्यो-
ऽनुजो न जायेत, इत्यर्थः। अथ सहजाधिनाथे, दृश्यराशिगते ( स्पष्टसप्तमभावाद्वाशिषट्का-
भ्यन्तरे ) पुंवर्गगे = पुरुष-( विषम ) राशिसम्बन्धिवर्गे गतवति तथैव फलमर्थाज्जातानुज-
स्योपरि नानुजः स्यादिति ॥ १४ ॥
यदि तृतीयका स्वामी अदृश्य राशिमें हो वा पापग्रहसे युक्त सप्तममें हो तो भाई
उत्पन्न होनेके बाद फिर भाई न हो। पुरुष राशिके वर्गमें दृश्य राशिमें हो तो भी वही फल
होवे ॥ १४ ॥
भ्रातृस्थानपतौ तु पुंभवनगे तस्यानुजो जायते
युग्मर्क्षे यदि भार्गवेण शशिना युक्तेऽथवा वीक्षिते ।
सौम्यर्क्षे शुभखेचरैक्षितयुते केन्द्रत्रिकोणस्थिते
पश्चाज्जातसहोदरश्चिरसुखी दीर्घायुरारोग्यभाक् ॥ १५ ॥
भ्रातृस्थानपतौ = तृतीयेशे, पुंभवनगे = नरराशि-( मेष-मिथुनादिविषमराशि ) गते
सति तस्य = जातस्य अनुजः=कनिष्ठभ्राता जायते। अथवा यदि भ्रातृस्थानपतौ, युग्मर्क्षे=
सम-( वृष-कर्क्यादि ) राशौ गते, तस्मिन् भार्गवेण = शुक्रेण, शशिना = चन्द्रेण च, युक्ते=
सहिते, वा वीक्षिते = अवलोकिते जातस्यानुजो जायते। अथ भ्रातृस्थानेशे सौम्यर्क्षे = शुभ-
राशौ, शुभखेचरैक्षितयुते = शुभग्रहेण दृष्टे, वा सहिते, केन्द्रत्रिकोण-(१।४।७।१०।५।९)
स्थिते सति तस्य जातस्य पश्चाज्जातसहोदरः = लघुभ्राता, चिरसुखी = यावज्जीवनं सुख-
भाक्, दीर्घायुः, आरोग्यभाक् च भवति ॥ १५ ॥
तृतीय भावका स्वामी पुरुष राशिमें हो तो उसको भाई होवे। तृतीयेश सम राशिमें
यदि हो शुक्र और चन्द्रमासे युक्त हो, वा दृष्ट हो तो अनुजका जन्म होवे। शुभग्रहकी
राशिमें तृतीयेश शुभग्रहसे दृष्ट युत हो, केन्द्र-त्रिकोणमें स्थित हो तो उसके पश्चात्
दीर्घायु तथा आरोग्यवान् भाई होवे ॥ १५ ॥
सहोदरस्थानपतौ तनुस्थे सलग्नपे सोदरनायके वा।
गर्भोऽभयोऽनन्तरमस्य मातुस्तृतीयाराशौ सपतौ तथैव ॥ १६ ॥
सहोदरस्थानपतौ = तृतीयभावेशे, तनुस्थे = जन्मलग्नमुपगते, वा सोदरनायके=तृतीय-
येशे सलग्नपे = लग्नपतिना संयुक्ते, अस्य जातस्य, मातुः, अनन्तरं = एतज्जातानन्तरं,
गर्भः, अभयः = निर्विघ्नो भवति। तृतीयराशौ = तृतीय ( भ्रातृ ) भावे, सपतौ = पतिना
सहिते ( तृतीयेशे तृतीयगत इत्यर्थः ) तथैव फलमर्थात् गर्भोऽभयोऽनन्तरमस्य मातुरिति
वाच्यम् । अस्मिन्योगे जातस्य माता पुनरपि निर्विघ्नं सन्तति प्रसूते इत्यर्थः ॥ १६ ॥
।

तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३६९
तृतीयेश लग्नमें हो, वा लग्नेशके सहित तृतीयेश हो तो उस जातकके बादका गर्भ
अभय होता है। तृतीय भावमें तृतीयेश हो तो भी वही फल होवे ॥ १६ ॥
अथ सोदरसङ्ख्याज्ञानम् ।
लाभावसानभवनोपगतग्रहेन्द्रसङ्ख्यास्तदग्रजजनाः सहजा भवन्ति ।
लग्नात्तृतीयधनयातवियच्चरेन्द्रैः संख्याजनाः स्युरनुजाः कथयन्ति तज्ज्ञाः ॥१७॥
इदानीं सोदरसङ्ख्यामाह — लाभावसानेत्यादिभिः । जन्मलग्नात्, लाभावसान-
भवने = एकादशद्वादशभावौ, तावुपगतग्रहेन्द्रसङ्ख्यास्तस्य जातस्याग्रजजनाः = पूर्वजाताः,
सहजाः = भ्रातरः ( ज्येष्ठभ्रातरः ) भवन्ति । एकादशे द्वादशे च भावे यावन्तो ग्रहास्ति-
ष्ठन्ति तावन्मितास्तस्य ज्येष्ठाः सोदरा भवन्तीत्यर्थः । एवं लग्नात् तृतीये, द्वितीये च
भावे वर्त्तमानग्रहत

३७० सटीकजातकपारिजाते-
चतुष्के) यदा द्वौ ग्रहौ वीर्यवन्तौ = बलशालिनौ, स्याताम्, तदा नाशानाशफलप्रदौ सम-
तया भवतः । अर्थात् यावदशुभदौ तावदेव शुभदावपीति । अत्र चतुर्षु ग्रहेषु द्वौ बलिनौ
द्वौ बलरहितौ च तुल्यमेव शुभमशुभञ्च कुरुत इति तात्पर्यम् । चेद्यदि चतुर्षु ग्रहेषु त्रयो
ग्रहा वीर्याधिकाः स्युस्तदा स्वल्पसहोदरक्षयकरा भवन्ति । तत्र शुभफलमधिकमशुभफलं
किञ्चिदेवेति । अथ तत्र यदि स्त्रीग्रहा ( योगकारकाः) दुःस्थानगता भवेयुस्तदाऽल्पा-
नुजवृद्धिदा भवन्ति । तदानीमल्पा एव अनुजा जायन्त इत्यर्थः । तदनुजस्वाम्यंशसङ्ख्या-
नुजा इति । तस्य जातस्यानुजस्वामी (तृतीयेशः) यत्र तत्र भावे यावन्मिते नवांशे
विद्यमानः स्यात्तावन्तस्तस्यानुजा भवन्तीति ॥ १९ ॥
भ्रातृस्थानेश, भ्रातृदर्शी, भ्रातृस्थानगत और भ्रातृकारक इन चारोंमें यदि दो भी पूर्ण
बली हों तो भाइयोंकी हानि और लाभ बराबर ही करते हैं। उन चारोंमें यदि तीन बल-
वान् ग्रह हों तो थोड़े भाइयोंका संहार करते हैं और स्त्रीग्रह दुःस्थानमें हों तो थोड़े
भाइयोंकी वृद्धि करें । उसके छोटे भाईकी संख्या तृतीयेशके नवांशके तुल्य होवे ॥ १९ ॥
भूमिजे सहजस्थाने यावतां विद्यते बलम् ।
शत्रुनीचग्रहं त्यक्त्वा तावन्तः सहजाः स्मृताः ॥ २० ॥
भूमिजे = मङ्गले, सहजस्थाने = तृतीयभावे, शत्रुनीचग्रहं त्यक्त्वा = स्वशत्रुग्रहं नीचगत-
ग्रहं च विहाय यावतां = यत्सङ्ख्यकानां ग्रहाणां, फलं = अष्टकवर्गसम्बन्धि शुभफलं विद्यते ।
अत्र किलैतदुक्तं भवति । सहजभावगतो भौमो यावन्मितेभ्यो ग्रहेभ्यः शुभफलो भवति
परं शत्रुग्रहं नीचगतग्रहं त्यक्त्वेति । तावन्तः = तत्सङ्ख्यकाः, सहजाः = सोदराः, स्मृताः =
कथितास्तस्य जातस्येति ॥ २० ॥
मंगल तृतीयमें जितने ग्रहोंसे शुभफल वाला (अष्टकवर्गमें) हों, उनमें शत्रु और नीच
गत ग्रहोंको छोड़कर शेषग्रहोंके तुल्य भाई कहे ॥ २० ॥
भ्रात्रीदौ स्त्रीग्रहर्क्षस्थौ भ्रातृदौ पुंग्रहर्त्तगौ ।
सोदरेशकुजौ स्यातां भ्रातृभ्रात्रीसुखप्रदौ ॥ २१ ॥
सोदरेशकुजौ = तृतीयभावेशो मङ्गलश्च यदि स्त्रीग्रहर्क्षस्थौ = स्त्रीग्रहौ शुक्रशशिनौ,
तयोः ऋक्षाणि वृषतुलाकर्कटास्तेषु स्थितौ भवेतां तदा, भ्रात्रीदौ = भगिनीप्रदौ स्याताम्
तौ यदि पुंग्रहर्क्षगौ = पुंग्रहा भानुक्षितिजगुरुवस्तेषां राशयः = सिंह-मेष-वृश्चिक-धनुः-
मीना-स्तेषु स्थितौ तदा, भ्रातृजन्मकरौ भवेताम् । अर्थादेव तौ यदि पुरुषस्त्रीराशिगतौ
( एकः पुरुषराशिस्योऽन्यः स्त्रीराशिस्थश्च) भवेतां तदा भ्रातृभ्रात्रीसुखप्रदौ = भ्रातृभगिन्योः
सुखदायिनौ भवेतामिति ॥ २१ ॥
तृतीयेश और मंगल स्त्रीग्रहकी राशिमें हों तो बहिनको देते हैं। यदि दोनों पुरुष
ग्रहकी राशिमें हों तो भाईको देवें । ये ही दोनों ग्रह भाई और बहिनका सुख देते हैं ॥२१॥
स्त्रीहोरया वा युवतिग्रहेण युक्ते यदि भ्रातृगृहे विलग्नात् ।
सहोदरीलाभमुपैति जातः सहोदरं तत्परतोऽन्यथा चेत् ॥ २२ ॥
विलग्नात् = जन्मलग्नात्, भ्रातृगृहे = तृतीयभावे, यदि स्त्रीहोरया = चन्द्रहोरया युक्ते
(विषमराशेरपरार्द्धे, समराशेः पूर्वार्द्धे च तृतीयभाव इत्यर्थः) वा युवतिग्रहेण = स्त्रीग्रहेण
(चन्द्रेण शुक्रेण वा) युक्ते सति जातो नरः सहोदरीलाभमुपैति । सहोदरं तत्परतोऽन्यथा
चेत् । भ्रातृगृहे पुरुषहोरया युक्ते वा पुरुषग्रहेण युक्ते सति जातः सहोदरमुपैति । तत्परत
इति स्वकीयजन्मानन्तरं सहोदरीलाभः सहोदरलाभो वा वाच्य इत्यर्थः ॥ २२ ॥
यदि ३ रे भावमें चन्द्रमाकी होरा वा स्त्री ग्रह (चं. शु.) विद्यमान हो तो जातकको

orभ्रात्र्(sandhi of भ्रातुः + अनिष्ट = भ्रातुरनिष्ट! But here it'sभ्रात्रनिष्टorभ्रातुरनिष्ट? Wait, let's look at line 30: लग्नेशकुजसोत्थेशा भ्राthen is thatतwithुandर? Let's zoom into line 30: लग्नेशकुजसोत्थेशा भ्राThen the next letter:तwith aु? And on top of निis there aर्? YES! Look at नि: there is a repha on नि!! भ्रा तु र्नि ष्ट शु भ प्र दाः! WOW, look at that! भ्रातुर्निष्टशुभप्रदाः! Wait, let's re-examine line 30: भ्रा तु र्नि ष्ट शु भ प्र दाः! Yes, भ्रातुर्निष्टशुभप्रदाः` (भ्रातुः + अनिष्ट = भ्रातुरनिष्ट, or भ्रातुः + निष्ट/अनिष्ट? Wait, in line 33: "भ्रातुरनिष्टशुभप्रदाः").
Wait, in line 30,

३७२ सटीकजातकपारिजाते-
= मित्रग्रहौ, सन्तौ लग्ने, अथवा सहजभे स्थितौ भवेतां तदा सहोदराणां, विभागं = पार्थ-
क्यं ( Portition ) न आहुरायाः । ईदृग्योगे जातस्य सहोदरैः सह प्रेमविच्छेदो न
भवत्युत विपुलः प्रेमा भवतीति भावः ॥ २६ ॥
लग्नेश और तृतीयेश यदि एकत्र हों तो भाइयोंमें विशेष प्रेम हो । यदि दोनों
परस्पर दृष्टग्रह और बलवान् होकर लग्नस्थ वा तृतीयस्थ हों तो भाइयोंमें विभाग ( भेद )
नहीं होता है ॥ २६ ॥
अथ भ्रात्ररिष्टम् ।
लग्नेशाऽनुजनायकौ विबलिनावव्योऽन्यशत्रुग्रहौ
दुश्चिक्यस्थितकारको च यदि वा दुःस्थानगौ दुर्बलौ ॥
तत्पाके सहजप्रमादकलहं तन्नाशमर्थक्षयं
तत् खेटोपगकोपहेतुकलहस्नेहादि सर्वं वदेत् ॥ २७ ॥
लग्नेश-तृतीयेशौ, विबलिनौ, परस्परं शत्रुग्रहौ भवेताम् , यदि वा दुश्चिक्यस्थित-
कारकौ = तृतीयगतो ग्रहः, भ्रातृकारकश्च, दुःस्थानगौ = षडष्टव्ययगतौ, दुर्बलौ च भवेतां
'तदा, तत्पाके = योगकर्तृग्रहयोर्दशाकाले सहजप्रमादकलहं भ्रातृणां वैमनस्यात्मककटकं,
तन्नाशं = भ्रातृनाशं, अर्थक्षयं = धनहानिं वदेत् । तत्खेटोपगकोपहेतुकलहस्नेहादि सर्वं =
तत्तत्खेटनिमित्तकं कलहं प्रेमादि च सकलं ब्रूयादिति ॥ २७ ॥
यदि लग्नेश और तृतीयेश निर्बल तथा परस्पर शत्रु ग्रह हों अथवा तृतीय भावमें स्थित
और ३रे भावका कारक यदि दुष्टस्थानमें निर्बल हों तो उनकी दशामें भाइयोंमें प्रमाद तथा
कलह हो उनका नाश और धनका क्षय हो । उस ग्रहके कोपसे कलह और प्रेम कहे ॥२७॥
गुरुदृष्टेऽनुजे शुक्रे भ्रातृरक्षणतत्परः ॥
रविदृष्टे बुधे सौम्ये सुहृन्नाशकरो भवेत् ॥ २८ ॥
शुक्रे अनुजे = तृतीयभावगते तस्मिन् गुरुणा दृष्टे च जातो भ्रातृरक्षणौ तत्परो भवेत् ।
बुधे सौम्ये = तृतीयभावगते तस्मिन् रविणा दृष्टे च सुहृन्नाशकारको भवतीति ॥ २८ ॥
३येमें शुक्र हो उसे गुरु देखता हो तो भाईकी रक्षामें तत्पर रहे । तृतीयस्थ बुधको
सूर्य देखे तो मित्रका नाश करनेवाला हो ॥ २८ ॥
भ्रातृस्थतन्नायककारकाणां नीचारिदुःस्थानसमन्वितानाम् ॥
भुक्तौ दशायां धनसत्त्वनाशं पराजयं भ्रातृविनाशमाहुः ॥ २६ ॥
भ्रातृस्थः = तृतीयभावगतः, तन्नायकस्तृतीयेशः, कारको भ्रातृकारक इत्येषां त्रयाणां,
नीचे, अरौ ( शत्रुस्थाने ) दुःस्थाने ( षडष्टव्यये ) समन्वितानां सतां भुक्तौ = अन्तरे,
दशायां च धनसत्त्वनाशं = ऐश्वर्य-पराक्रमाणां नाशं, पराजयं, भ्रातृविनाशं च मनीषिण
आहुः ॥ २९ ॥
भ्रातृभावस्थ, भ्रातृभावेश और भ्रातृकारक ये यदि नीच, शत्रुराशि तथा दुःस्थानमें हों
तो उनकी दशान्तर्दशामें धन-बलका नाश, पराजय, और भाईयोंका नाश होता है ॥२९॥
लग्नेशस्फुटतो विशोध्य सहजस्थानाधिपस्य स्फुटं
तन्नक्षत्रगते शनौ तु मरणं तत्सोदराणां वदेत् ॥
तस्माद्धि स्फुटतस्तु मानगृहपे भौमे च संशोधिते
राशौ भानुसुते तथैव च चतुर्योगस्फुटांशेऽथवा ॥ ३० ॥
इदानीं शनिस्थित्या भ्रात्ररिष्टमाह-लग्नेशेति । सहजस्थानाधिपस्य = तृतीयभावेश-
स्य, स्फुटं राश्यादि, लग्नेशस्फुटतो विशोध्य शेषं कलीकृत्याष्टाविशतभक्तं तदा यन्नक्षत्रं लब्धं
स्यात्तन्नक्षत्रे गते शनौ सति, तत्सोदराणां = तत्र योगे जातस्य भ्रातॄणां मरणं वदेत् । सह०

जेशोनलग्नेशमानजन्यनक्षत्रे गतवति मन्दे जातस्य भ्रातरो न जीवन्तीति भावः । तस्मा-
दिति । तस्माद्धि स्फुटतः = लग्नेशस्पष्टराश्यादितस्तु मानगृहपं = दशमभावेशं, भौमं च
विशोध्य तस्मिन्संशोधिते राशौ, भानुसुते = शनैश्चरे याते सति तथैव फलमर्थात्सोदराणां
मरणं स्यादिति । अथवा चतुर्योगस्फुटांशे = चतुर्णां ( कारकः सहजाधीशस्तद्दर्शी तत्र
संस्थित इति चतुर्णाम् ) योगस्फुटांशे गतवति शनौ तथैव फलं वाच्यमिति ॥ ३० ॥
Notes—विद्यमाने भ्रात्ररिष्टे उक्तलक्षणलक्ष्णिते शनौ भ्रातृमरणं वाच्यमिति ॥ ३० ॥
स्पष्ट लग्नेशमेंसे स्पष्ट सहजेशको घटाकर शेष राशि आदिसे जो नक्षत्र हो उस नक्षत्रमें
शनिके होनेपर उसके सहोदर भाइयोंका मरण कहे। उसी स्पष्ट लग्नेशमें दशमेश और
मंगलको घटाकर शेष राशिमें शनि होवे या सहजेश, सहजदर्शी, सहजस्थ और सहजकारक
इन चारोंके योग करने

३७४ सटीकजातकपारिजाते-
कारके बलहीने वा क्रूरषष्ठ्यंशसंयुते ॥
शुभदृग्योगसम्बन्धे विजयी विक्रमेश्वरे ॥ ३४ ॥
विक्रमाधिपतौ = तृतीयभावेशे, स्वकीयोच्चराशौ, नाशस्थे = अष्टमभावगते, तस्मिन्पा-
पग्रहसंयुक्ते तथा चरराशौ चरराशिनवांशे च गतवति जातो युद्धात् पूर्वं सङ्ग्रामाारम्भा-
त्प्रथम एव दृढो भवेत् ।
कारके = तृतीयभावकारकग्रहे, बलहीने, अथवा क्रूरषष्ठ्यंशसंयुते, विक्रमेम्वरे=तृत्ती-
यभावपतौ, शुभदृग्योगसम्बन्धे=शुभग्रहाणां दृष्टियोगसम्बन्धेनान्विते सति जातः संग्रामे
विजयी भवेत् ॥ ३३-३४ ॥
तृतीयभावका स्वामी उच्च स्थानमें होकर अष्टममें हो, पापग्रहसे युक्त हो, चर राशिमें
चर नवांशमें हो तो युद्धके पहिले दृढ हो जाय ॥ ३३ ॥
भ्रातृ-कारक बलहीन हो, क्रूरषष्ठ्यंशकमें हो और तृतीयेश शुभग्रहसे दृष्ट युत हो तो
युद्धमें विजयी होवे ॥ ३४ ॥
शौर्याधिपे भानुयुतेऽत्र वीरश्चन्द्रान्विते मानसधैर्यजातः ॥
दुष्टो जडो भौमयुते प्रकोपी सौम्यान्विते सात्त्विकबुद्धियुक्तः ॥ ३५ ॥
जीवान्विते धीरगुणाभिरामः समस्तशास्त्रार्थविशारदः स्यात् ॥
कामातुरः शुक्रसमन्विते तु तन्मूलकोपात् कलहप्रवीणः ॥ ३६ ॥
जडो भवेद्वासरनाथसूनुयुक्तेऽतिभीतो फणिसंयुते स्यात् ॥
बहिर्गदो हृद्रदजाड्ययुक्तः केत्वन्विते मान्दियुते तथैव ॥ ३७ ॥
इदानीं सूर्यादिग्रहयुतस्य तृतीयभावेशस्य फलमाह—शौर्याधिप इत्यादिभिस्त्रिभिः श्लो-
कैः । श्लोकाः सरलार्था इत्यलम् ॥ ३५-३७ ॥
तृतीयेश सूर्यसे युक्त हो तो वीर होवे । चन्द्रमासे युक्त हो तो मानसधैर्ययुक्त हो ।
मंगलसे युक्त हो तो दुष्ट, जड़ और क्रोधी हो । बुध से युक्त हो तो सात्विक बुद्धिवाला हो ।
बृहस्पतिसे युक्त हो तो धीरगुणयुक्त और सम्पूर्णशास्त्रमें विशारद् हो । शुक्रसे युक्त हो तो
कामी और कामके ही कारण कलहमें दक्ष हो । शनिसे युक्त हो तो जड़, राहुसे युक्त हो तो
डरपोक हो । केतुसे युक्त हो तो बाहरी और हृदय रोगसे युक्त हो और गुलिकसे युक्त हो तो
भी यही फल हो ॥ ३५-३७ ॥
लग्ने गुरौ विक्रमनाथयुक्ते चतुष्पदानां प्रवदन्ति भीतिम् ॥
गवां भयं वा जलराशिलग्ने जलप्रमादं समुपैति जातः ॥ ३८ ॥
बृहस्पतिस्तृतीयेशेन सहितो यदि लग्ने भवेत्तदा चतुष्पदानां = गजाश्वादीनां भीतिं =
भयं प्रवदन्ति । वा गवां = गोवृषमहिषादीनां भयं वाच्यम् । जलराशिलग्ने ( जलराशयः
पूर्वमुक्तास्तेषामन्यतमे लग्ने ) जातो नरः जलप्रमादं = जले प्रप्लवनादिभयं समुपैति ॥ ३८ ॥
लग्नमें बृहस्पति तृतीयेशसे युक्त हो तो चतुष्पदोंका या गौवोंका भय हो । जलचर लग्न
हो तो जातक जलका प्रमादी हो याने उसे जलमें डूबनेका सन्देह रहे ॥ ३८ ॥
कुजेन युक्ते खचरे बलिष्ठे सत्त्वं बलं गानसुखं समेति ॥
कुजानुजस्यानुजराशिनाथास्त्रयो बलिष्ठा रणरङ्गशूराः ॥ ३६ ॥
तेषां त्रयाणामपहारकाले पाकेऽथवा मूलफलादिसौख्यम् ॥
श्रोत्रद्वयं भूषणसत्कथादिसम्पत्करं भ्रातृसुतादिलाभम् ॥ ४० ॥
यस्मिंस्तस्मिन् बलिष्ठे=वीर्यशालिनि खचरे कुजेन युक्ते सति जातः सत्त्वं, बलं, गानसुखं
च समेति = प्राप्नोति । अथ- कुजो भौमः, अनुजस्यतृतीयभावगतः, अनुजराशिनाथ-

तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३७५
स्तुतीयेश इति त्रयो ग्रहा यदि जन्मकाले बलिष्ठाः स्युस्तदा जातः रणरङ्गशूरः = रणरङ्गे
( सङ्ग्रामस्थले ) शूरो महाबलो भवतीति ॥ ३९ ॥
तेषां त्रयाणां ( कुजानुजराशिनाथानाम् ) ग्रहाणामपहारकाले = अन्तर्दशायामथवा
पाके = महादशाकाले मूलफलादिसौख्यमुपैति जातक इति । अन्यत्स्पष्टमित्यलम् ॥ ४० ॥
मंगलसे युक्त ग्रह बली हो तो पराक्रम, बल और गान-सुख प्राप्त हो । मंगल, तृतीयेश
और सहज राशिस्थ तीनों ग्रह बलवान् हों तो रणभूमिमें वीर हो । उन तीनोंकी अन्तर्दशा
वा दशामें मूल आदिका सुख हो, दोनों कर्णमें सत्कथाका श्रवण तथा धारणार्थ भूषण प्राप्त
हों, तथा भ्रातृ पुत्रका लाभ हो ॥ ३९-४० ॥
सात्त्विको भवति सोदराधिपे सौम्यवर्गसहिते बलान्विते ॥
नीचमूढरिपुपापराशिगे पापखेचरयुते तु साहसी ॥ ४१ ॥
सोदराधिपे = तृतीयेशे, सौम्यवर्गसहिते = शुभग्रहस्य वर्गे गतवति, बलान्विते च जातः
सात्त्विकः = सत्त्वगुणयुक्तो ( क्षमाशीलः ) भवति । तस्मिन् सोदराधिपे नीचे, अस्तमये,
पापराशिगे तथा पापग्रहेण सहिते च जातः साहसी = रजोगुणी (उद्यमकृद्) भवति ॥४१॥
बलवान् भ्रातृस्थानश शुभ वर्गमें हो तो सात्विकी हो। यदि तृतीयेश नीच, मूढ, शत्रु-
राशिमें हो पापग्रहसे युक्त हो तो साहसी होवे ॥ ४१ ॥
अथ कण्ठविचारः ।
शौर्याधिपे राहुसमेतराशिनाथान्विते राहुयुते विलग्ने ।
सर्पाद्भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगभाक् स्यात् ॥ ४२ ॥
इदानीं सर्पभय-गलरोगवाह-शौर्याधिप इति । तृतीयेशे राह्वधिष्ठितराशीशेन सहिते,
विलग्ने राहुयुते । अत्र तृतीयेशो लग्नेशेनान्वितो भवेत् राहुर्लग्नगतो भवेदिति तात्पर्यम् ।
अथवा तृतीयेशो राहाक्रान्तराशिपतिना सहितः स्याद्वा राहुर्लग्नगतः स्यादिति । तदा
जातः सर्पाद्भयं प्राप्नोति । तृतीयेशे बुधेन युक्ते सति बातो गलरोगभाक् स्यादस्मिन्योगे
जातस्य गलदेशे रोगो भवतीत्यर्थः ॥ ४२ ॥
तृतीयेश राहुस्थित राशिपतिसे युत हो, लग्न राहुयुक्त हो तो सर्पका भय होवे । तृती-
येश बुधसे युक्त हो तो जातकको गलरोग होवे ॥ ४२ ॥
पापे तृतीये गलरोगमत्र वदन्ति मान्द्यादियुते विशेषात् ॥
भौमान्विते भानुसुते बलाढ्ये तृतीयराशौ यदि कण्डुरोगम् ॥ ४३ ॥
विक्रमेशगुरू लग्नं गतौ गोभीतिसूचकौ ।
राहुणा वा फणिक्रान्तराशिपेन युतौ यदि ॥ ४४ ॥
सबुधो विक्रमपतिर्गलरोगकरो भवेत् ।
सोत्थेऽरिनीचगे पापे सोत्थाभावो विषादिभुक् ॥ ४५ ॥
बुधेन जीवेन युतेक्षिते वा तृतीयराशौ बलसंयुते च ।
तत्केन्द्रगे मन्त्रिणि बोधने वा कण्ठस्वरं चारुतरं समेति ॥ ४६ ॥
सरलार्थाश्चैते श्लोका इत्यलम् ॥ ४३-४६ ॥
पापग्रह तीसरे हो तो गलरोग होवे । गुलिक आदि उपग्रहसे युक्त हो तो विशेष गल-
रोग हो । तृतीय भावमें मङ्गल, शनि बली हों तो खुजली रोग होवे ॥
यदि राहुसे वा राहु जिस राशिमें हों उसके स्वामीसे युक्त तृतीयेश और वृहस्पति दोनों
लग्नमें हों तो बैल, गायका भय हो ॥ ४४ ॥
बुधके साथ तृतीय भावका स्वामी हो तो गलरोग उत्पन्न करे । तृतीय भावमें शत्रु
गृहका वा नीचका पापग्रह हो तो विष आदिके द्वारा भाईका अभाव होवे ॥ ४५ ॥

३७६ सटीकजातकपारिजाते-
तृतीयभवन बली हो, वा बुधसे और गुरुसे युत वा दृष्ट हो वा उसके (३रे भावके)
केन्द्रमें बृहस्पति या बुध हो तो रमणीय कण्ठस्वर होवे ॥ ४६ ॥
अथ श्रुतिभूषणविचारः ।
तृतीये सौम्यसंयुक्ते सौम्यखेचरवीक्षिते ।
तदीशे शुभसंयुक्ते कर्णयोर्भूषणं वदेत् ॥ ४७ ॥
शुक्रे तृतीये यदि मौक्तिकं तु जीवे तुलस्याभरणं वदन्ति ।
सरक्तमानीलमयं दिनेशे चन्द्रे बहु त्वाभरणं बलाढ्ये ॥ ४८ ॥
सौम्ये श्यामं कुजक्षेत्रे विचित्राभरणं वदेत् ।
तत्पतौ स्वोच्चवर्गस्थे दिव्यमाभरणं लभेत् ॥ ४९ ॥
इदानीं कर्णभूषणविचारमाह—तृतीय इत्यादिश्लोकत्रयेण । श्लोकाः किल स्पष्टार्था
इत्यपेक्षिताः ॥ ४७-४९ ॥
तृतीय भवनमें शुभग्रह हो उसे शुभग्रह देखते भी हों और तृतीयेश शुभग्रहसे युक्त
हो तो कानोंमें भूषण होवे ॥ ४७ ॥
तीसरे भावमें शुक्र हो तो मोतीका भूषण, गुरु हो तो तुलसीका आभरण, सूर्य हो तो
लाल नील भूषण, बली चन्द्रमा हो तो बहुत आभरणका होना कहते हैं । बुध हो तो
श्याम वर्णका, तृतीय भाव मङ्गलका क्षेत्र हो तो विचित्र आभरण कहे । तृतीय भावका पति
उच्च स्थानमें हो तो दिव्य भूषण प्राप्त होवे ॥ ४८-४९ ॥
अथ वस्त्रविचारः ।
मानस्थे तुरगेऽथवाऽनुजपतौ सौम्यर्क्षगे तद्युते
दिव्यं वस्त्रमपूर्वमेति सहजे सौम्ये सुवस्त्रं लभेत् ।
वीर्याढ्यौ बहुवस्त्रभूषणकरौ शुक्रानुजस्थानपौ
स्यातां धर्मकथारसश्रवणदौ जीवज्ञयुक्तेक्षितौ ॥ ५० ॥
इदानीं वस्त्रविचारमाह—मानस्थ इति । अनुजपतौ = तृतीयभावेशे, मानस्थे = दशम-
भावगते, अथवा तुरगे = तुरगोऽश्वः, अश्वशब्दः सप्तसङ्ख्याबोधक इति तुरगे = सप्तमभावे,
सौम्यर्क्षगे तद्युते = शुभग्रहान्विते शुभराशौ गतवति च जातः अपूर्वम् = अद्भुतं, दिव्यं =
मनोरमं वस्त्रमेति = प्राप्नोति । सहजे = तृतीये भावे सौम्ये = शुभग्रहे सति सुवस्त्रं लभेत् ।
शुक्रोऽनुजस्थानपतिस्तृतीयेशश्चैतौ, वीर्याढ्यौ = सबलौ स्यातां तदा बहुवस्त्रभूषणकरौ भवतः।
तौ सबलौ शुक्रानुजस्थानपौ, जीवज्ञयुक्तेक्षितौ = गुरुबुधाभ्यां सहितौ दृष्टौ वा भवेतां तदा
धर्मकथारसश्रवणदौ भवतः । अत्र योगे जातो धर्म-(पुराणेतिहासपुण्यमार्गीय) कथारसा-
स्वादनलोलुपो भवति ॥ ५० ॥
तृतीयेश दशवें या ७ वे भावमें हो सौम्य ग्रहके क्षेत्रमें हो वा शुभग्रहसे युक्त हो तो
दिव्य अपूर्व वस्त्र प्राप्त हो । तृतीय बुध हो तो सुन्दर वस्त्र मिले । शुक्र और तृतीयेश बल-
वान् हों तो बहुत वस्त्र और भूषण देवें । यदि वे दोनों बृहस्पति तथा बुधसे युक्त वा दृष्ट
हों तो धर्म कथाओंके श्रवण करानेवाले होते हैं ॥ ५० ॥
अथ धैर्यविचारः ।
धैर्यान्वितो विक्रमेशे सौम्यग्रहनवांशके ।
शुभेक्षिते शुभयुते वैशेषिकसमन्विते ॥ ५१ ॥
धैर्याधिपे पातयुतेक्षिते वा दुःस्थानगे धैर्यविनाशमेति ।
केन्द्रत्रिकोणे शुभखेटयुक्ते शुभेक्षिते वा यदि धैर्यशाली ॥ ५२ ॥

तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३७७
इदानीं जातस्य धैर्य्यविचारमाह - धैर्यान्वितौ इति श्लोकयुगलेन । तत्र श्लोकौ स्पष्टा-
र्थावित्यलम् ॥ ५१-५२ ॥
तृतीयेश शुभग्रहके नवांशमें हो तो शुभदृष्टयुत वैशेषिकांशमें हो तो धैर्यवान् होवे ॥५१॥
तृतीय भावका स्वामी पापग्रहसे युत वा दृष्ट हो वा दुष्ट स्थानमें हो तो धैर्यका नाश
हो । यदि केन्द्रमें वा त्रिकोणमें शुभयुत वा शुभदृष्ट तृतीयेश हो तो धैर्यवान् हो ॥ ५२ ॥
अथ बलविचारः ।
वीर्याधिपे भूमिसुतेन युक्ते पापर्क्षगे वीर्यविनाशहेतुः ।
केन्द्रत्रिकोणे ससिते बलाढ्ये वीर्याधिको भोगगुणप्रकाशः ॥ ५३ ॥
श्लोकेनानेन जातस्य बलविचारः क्रियते । वीर्याधिपे = तृतीयेरो, मङ्गलेन युक्ते पाप-
र्क्षके = पापराशिगते सति वीर्यविनाशहेतुः = बलहानिकारणं भवति । अत्र जातो निर्बलो
भवतीत्यर्थः ।
अथ तृतीयेगे ससिते = शुक्रेण सहिते बलाढ्ये च जातो वीर्याधिकः = महाबलो भोग-
गुणप्रकाशश्च भवति ॥ ५३ ॥
तृतीय का स्वामी मङ्गलसे युक्त होकर पापग्रहकी राशिमें हो तो बलका विनाशक होता
है, और बलवान् तीसरेका स्वामी शुक्रके साथ केन्द्र या कोणमें हो तो अधिक वीर्यवान्
तथा भोग आदि गुणसे प्रकाशित होवे ॥ ५३ ॥
अथ अशनविचारः ।
शुक्लं निशाकरं त्यक्त्वा लग्नात्सोदरभे शुभे ।
शुभराश्यंशगे जातः समेति सुखभोजनम् ॥ ५४ ॥
इदानीमशनविचारमाह - शुक्रमिति । शुक्लं, निशाकरं = चन्द्रं च त्यक्त्वा लग्नात्सोद-
रभे = तृतीयभावे शुभे = शुभग्रहे, शुभराशिनवांशे च गतवति जातः सुखभोजनं समेति =
प्राप्नोति । चन्द्रे शुक्रे च तृतीये सति न सुखभोजनमिति शुक्लं निशाकरं त्यक्त्वेत्युक्तमिति ॥
लग्नसे तृतीय स्थानमें चन्द्रमा और शुक्रके अतिरिक्त शुभ (बु० वृ०) ग्रह शुभराशि
के नवांशमें हों तो जातक शुभ भोजनसे युक्त होवे ॥ ५४ ॥
जीवस्य राशिनवभागदृक्काणसंस्थे वीर्याधिपे यदि सुरार्चितवीक्षिते वा ।
तत्केन्द्रकोणगृहगेऽवनिजे बलाढ्ये जातस्तु कन्दफलमूलरसप्रियः स्यात् ॥५५॥
वीर्याधिपे = तृतीयभावेशे, जीवस्य = गुरोः, राशौ ( धनुर्मीनान्यतरे ) नवभागे =
नवांशे, दृक्काणे वा स्थिते यदि सुरार्चितेन = गुरुणा वीक्षिते = अवलोकिते, अथवा तत्केन्द्र-
कोणगृहगे = तत्तृतीयभावेशात् केन्द्रकोणे ( १।४।७।१०, ९।५ ) गृहे गतवति बलाढ्ये =
सबले, अवनिजे = भौमे सति जातः कन्दफलमूलरसप्रियः स्यात् ॥ ५५ ॥
यदि तृतीय भावका स्वामी बृहस्पतिसे दृष्ट बृहस्पतिके राशि, नवांश या द्रेष्काणमें
हो, वा बलवान् मंगल उसके ( ३ भावके ) केन्द्र-कोणमें हो तो जातक कन्द, मूल, फलके
रसका प्रिय हो ॥ ५५ ॥
सोदरारातिगः शुक्रः शोकरोगभयप्रदः ।
तत्रैव शुभकारी स्यात्पुरतो यदि भास्करात् ॥ ५६ ॥
शुक्रः, सोदरारातिगः = तृतीये षष्ठे वा भावे स्थितः जातस्य शोकरोगभयप्रदो
भवति । तत्रैव = तृतीये षष्ठे वा, भास्करात् पुरतः = सूर्यादग्रे विद्यमानः सन्शुभकारी
भवति । अर्थात्छुकस्तृतीये षष्ठे वा भवेत्तथा सूर्यो द्वितीये पञ्चमे वा भवेदिति ॥ ५६ ॥
तृतीय तथा छठें स्थानमें शुक्र हो तो शोक-रोग-भय देनेवाला होता है। यदि वही
शुक्र सूर्यके आगे हो तो शुभ होता है ॥ ५६ ॥

३७८ सटीकजातकपारिजाते-
*गुरुशुक्रयुते भुक्तौ नाथे सौम्ययुतेक्षिते ।
बलवच्छुभदृष्टे वा त्वन्नदाता भवेन्नरः ॥ ५७ ॥
सौम्ये स्वोच्चं गते भुक्तौ सौम्यग्रहनिरीक्षिते ।
नाथे वैशेषिकांशे वा सुखभुक्तिप्रदो भवेत् ॥ ५८ ॥
भुक्तौ = द्वितीयभावे, गुरुशुक्रयुते, नाथे = भुक्तिनाथे = द्वितीयेरो, सौम्ययुतेक्षिते=शुभ-
ग्रहेण युतदृष्टे वा केनचिद्बलवता शुभेन दृष्टे जातो नरः परेषामन्नदाता भवति ॥
सौम्ये = बुधगुरुशुक्रान्यतमे स्वोच्चं गते सति भुक्तौ = द्वितीयभावे स्थिते, तस्मिन्
केनचित् सौम्यग्रहेण निरीक्षिते, वा नाथे = द्वितीयभावेशे, स्ववैशेषिकांशे गतवति जातः
सुखभुक्तिप्रदो भवति ॥ ५७-५८ ॥
गुरु और शुक्रसे युक्त भुक्ति (२ रा भाव) हो या द्वितीयेश शुभग्रहसे युक्त वा दृष्ट हो
वा बलवान् शुभ

तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३०६
भावेषु ) स्थिताः, अथवा, नीचारिगाः = नीचे, शत्रुगृहे वा स्थिता यदि भवेयुस्तदा जातस्य
विद्याबुद्धिविवेकेषु हीनफलदा भवन्ति । अस्मिन् योगे जातो विद्याबुद्धिविवेकैर्हीनो भवती-
त्यर्थः । ते विद्यास्थानपजीवचन्द्रतनयाः यदि स्वोच्चे, स्वक्षेत्रे, लग्नात् त्रिकोण-( ५।९ )
गृहे स्थिता वा लग्नात् केन्द्रेषु ( १।४।७।१० ) स्थिता भवेयुस्तदा जातो नरः श्रीविद्या-
विनयादियुक्तिषु निपुणः, राजाधिराजप्रियश्च भवति ॥ ६०-६१ ॥
चतुर्थ स्थानमें चतुर्थेश शुभग्रहसे युत वा दृष्ट हो और बुध बलवान् हो तो जातक
विद्या-विनय-से युक्त चतुर होवे । यदि चतुर्थेश दुष्टस्थानमें पापग्रहसे युक्त हो और पापदृष्ट
हो वा पापराशिमें हो तो मनुष्य विद्यासे हीन हो ॥ ६० ॥
चतुर्थेश, बृहस्पति और बुध षष्ठ, तृतीय, द्वादश या अष्टम स्थानमें स्थित हों तो
विद्या-बुद्धि-विवेककी हानि करते हैं और उक्त ग्रह नीच या शत्रुस्थानमें हों तो भी उक्त
फल देते हैं। यदि वे उक्त ग्रह स्वगृही, स्वोच्च स्थान या त्रिकोणमें हों वा केन्द्रमें हों तो
जातक श्री-विद्या-विनय आदिसे युक्त निपुण, तथा राजाधिराजका प्रिय होवे ॥ ६१ ॥
अथ मातृविचारः
शुक्रे बलिष्ठे यदि वा शशाङ्के सौम्येक्षिते शोभनभागयुक्ते ॥
चतुष्टये, मातृगृहे बलाढ्ये मातृश्चिरायुष्ट्वमुदाहरन्ति ॥ ६२ ॥
मातृस्थानाधिपे षष्ठे व्यये वा बलवर्जिते ॥
लग्ने पापे पापद्गष्टे मातृनाशं वदेद् बुधः ॥ ६३ ॥
क्षीणे चन्द्रेऽष्टमे षष्ठे व्यये वा पापसंयुते ॥
पाताले पापसंयुक्ते मातृहानिर्न संशयः ॥ ६४ ॥
मातृस्थानगते मन्दे पापग्रहनिरीक्षिते ।
रन्ध्रनाथेऽरिनीचस्थे मातृनाशं विनिर्दिशेत् ॥ ६५ ॥
भ्रातृपुत्रगते पापे पातालेशेऽरिनीचगे ।
चन्द्रे पापसमायुक्ते मातृरोगं विनिर्दिशेत् ॥ ६६ ॥
इदानीं मातृविचारः क्रियते-शुक्रे इत्यादिश्लोकपञ्चकेन । यदि शुक्रे, वा शशाङ्के =
चन्द्रे, बलिष्ठे = पूर्णबले, सौम्येक्षिते = शुभग्रहावलोकिते, शुभग्रहभागयुक्ते, चतुष्टये=लग्ना-
त्केन्द्रे गतवति, मातृगृहे = चतुर्थभावे, बलाढ्ये सति जातस्य मातुः चिरायुष्ट्वं (दीर्घायुष्ट्वं)
विद्वांसः समुदाहरन्ति । अन्ये श्लोकाः स्पष्टार्था एवेति ॥ ६२-६६ ॥
यदि शुक्र वा चन्द्रमा बलवान् होकर शुभग्रहसे देखा जाता हो और शुभवर्गमें हो तथा
केन्द्रमें हो, मातृगृह (चतुर्थ) सबल हो तो जातककी माता दीर्घायु होवे ॥ ६२ ॥
बलहीन सुतेश षष्ठ स्थानमें हो वा द्वादश स्थानमें हो लग्नमें पापदृष्ट पापग्रह हो तो
पण्डित लोग माताका नाश ( मृत्यु ) कहते हैं ॥ ६३ ॥
क्षीण चन्द्रमा अष्टम, षष्ठ वा व्ययमें पापग्रहसे युक्त हो और चतुर्थ भाव पापग्रहसे युक्त
हो तो माताकी हानि ( मृत्यु ) निःसंदेह होवे ॥ ६४ ॥
४ थे स्थानमें शनि हो, पापग्रह उसे देखता हो, अष्टमेश शत्रुगृहमें वा नीच स्थानमें
हो तो माताका नाश होता है ॥ ६५ ॥
तृतीय और पञ्चम भावमें पाप ग्रह हो चतुर्थेश शत्रु राशिमें वा नीच राशिमें हो तथा
चन्द्रमा पापग्रहके साथ हो तो माताको रोग हो ॥ ६६ ॥
षष्ठेश्वरेण सहितः सुखराशिनाथो धर्मस्थितो जनकमत्र विटं करोति ।
भाग्याधिपेन सहितो यदि मातृनाथः सौख्यस्थितो जनकमत्र विटं करोति ॥६७॥
षष्ठमातृपौ पितृस्थाने पितुश्च व्यभिचारदौ ।
मातृतातारिदेहेशैरेकस्थैः परजातकः ॥ ६८ ॥

१८० सटीकजातपारिजाते-
इदानीं पितुर्विटत्वमाह—षष्ठेश्वरेणेति। सुखराशिनाथः = चतुर्थेश्वरः षष्ठेश्वरेण सहितो
यदि धर्म-(नवम) स्थितो भवेत्तदात्रास्मिन् योगे जातस्य जनकं = पितरं विटं धूर्तं कामुकं
करोति। यदि मातृनाथः = चतुर्थेशः भाग्याधिपेन नवमेशेन सहितः सन् सौख्यस्थितः =
चतुर्थे एवं गतः स्यात्तदात्र जनक विट करोति। अत्र योगे जातो विटेनोत्पादितोऽपि वा
जातस्य पिता विटो ज्ञेय इति ॥ ६७ ॥
षण्मातृपौ = षष्ठेश-चतुर्थेशौ, पितृस्थाने = लग्नान्नवमे भावे भवेतां तदा पितुः व्य-
भिचारदौ भवतः। अस्मिन् योगे जातस्य पिता व्यभिचारी (परदारसक्तः) भवति। मातृ-
तातारिदेहेशैः = चतुर्थेश-नवमेश-षष्ठेश-लग्नेशैश्चतुर्भिग्रहैरेकस्थः यत्र तत्रैकभावगतैर्जा-
तः, परजातकः = अन्यपुरुषोत्पादितः भवति ॥ ६८ ॥
सुखेश षष्ठेशके साथ धर्म भावमें स्थित हो तो जातकका पिता धूर्त होवे। यदि सुखेश
नवमेशके साथ सौख्य स्थानमें हो तो पिता विट (धूर्त) हो ॥ ६७ ॥
षष्ठेश और सुखेश ९ वें में हों तो जातकके पिताको व्यभिचारी बनावें। सुखेश, नव-
मेश, षष्ठेश और लग्नेश एक भवनमें हों तो दूसरेसे जायमान जातकको जाने ॥ ६८ ॥


[कुंडली १]

भावराशि / ग्रह / विवरण
११
२२
३३
४४, विटो जनकः १
५५
६६
७७
८८
९सु. षु. ९
१०१०
११११
१२१२

[कुंडली २]

भावराशि / ग्रह / विवरण
११
२२
३३
४४ चं. गु., विटो जनकः २
५५
६६
७७
८८
९९
१०१०
११११
१२१२

[कुंडली ३]

भावराशि / ग्रह / विवरण
१२, व्यभिचारी-पिता
२३
३४
४५
५६
६७
७८
८९
९१० सू. शु.
१०११
१११२
१२१

[कुंडली ४]

भावराशि / ग्रह / विवरण
११, परजातः
२२
३३
४४ चं. गु. बु. मं.
५५
६६
७७
८८
९९
१०१०
११११
१२१२

एतानि कल्पितोदाहरणानि बालावबोधार्थं प्रदर्शितानीति ।
पापेक्षिते पापयुते शशाङ्के दिवाकरे वा यदि केन्द्रराशौ।
क्रूरे सुखे वा यदि पापद्ष्टे जातो नरः स्याद्यदि मातृगामी ॥ ६९ ॥
चन्द्रे भृगौ वा केन्द्रस्थे पापद्दष्टेऽथवा द्वयोः।
क्रूरे सुखे मातृगामी यदि वा गुरुदारभाक् ॥ ७० ॥
इदानीं जातस्य मातृगामित्वमाह—पापेक्षित इति। चन्द्रे वा सूर्ये पापग्रहेण दृष्टे युते
वा यदि केन्द्रराशौ गते, यदि वा क्रूरे = पापग्रहे सुखे तस्मिन् पापद्ष्टे च जातो नरः मातृ-
गामी = मात्रा सह पापकृद्भवेत्।
चन्द्रे वा भृगौ = शुक्रे, केन्द्रस्थे तस्मिन् पापेन दृष्टे च, अथवा द्वयोः = चन्द्रशुक्रयोः