जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 392, कुल 588 में से
संदर्भ में पढ़ें३६६ सटीकजातकपारिजाते-
भौमो बलविहीनश्चेद्दीर्घायुर्भातृगो भवेत् ।
विलग्नगो बली यस्य कारकः स प्रभुः स्मृतः ॥ ४ ॥
बलहीनो भौमो भ्रातृगः = तृतीयभावगश्चेद्भवेत्तदा जातो दीर्घायुर्भातृमान् भवेत् ।
यस्य जन्मकाले कारकः = भ्रातृकारको ( मङ्गलः ) ग्रहः, विलग्नः = जन्मलग्नगतः स्यात् ,
स जातः, प्रभुः = जनाधिपः स्मृतः = कथितः ॥ ४ ॥
बलसे हीन मंगल ३ रे भावमें हो तो दीर्घायु भाईवाला हो । जिसका भ्रातृभाव कारक
लग्नमें बलवान् होकर हो तो वह समर्थ होता है ॥ ४ ॥
जन्मकाले गुणी प्राणी कारको यः समृद्धिकृत् ।
क्षयकारी विपर्यासे भावपो विबलोऽधिकः ॥ ५ ॥
स्पष्टार्थः । एतदर्थं ११ अ. ४, ५, ८ श्लोका द्रष्टव्याः ॥ ५ ॥
जन्म समय यदि किसी भावका कारक गुणवान् और बली हो तो वह उस भावकी
समृद्धि करने वाला होता है । इससे विपरीत हो तो उस भावकी हानि करता है । भावपति
निर्बल हो तो भ्रातृपक्षका अधिक क्षयकारी होता है ॥ ५ ॥
सोदरेशकुजौ नाशं गतौ चेत्सोदरक्षयः ।
पापर्क्षगौ सपापौ वा भ्रातॄनुत्पाद्य नाशयौ ॥ ६ ॥
सोदरेशकुजौ = तृतीयेशो भौमश्च, नाशं गतौ = अष्टमभावमुपगतौ चेद्भवतां तद
जातस्य सोदरक्षयः = भ्रातृहानिर्भवति । तौ सोदरेशकुजौ चेत्पापराशिगतौ, वा पापग्रहा-
युक्तौ भवेतां तदा भ्रातॄनुत्पाद्य नाशयौ भवतः । योगेऽस्मिञ्जातस्य भ्रातर उद्भूय म्रिय-
न्त इति । जातकत्नेऽपि—
नाशस्थितौ सोदरनाथभौमौ पापेक्षितौ सोदरनाशमाहुः ।
पापर्क्षगौ पापसमागतौ वा भ्रातॄन्समुत्पाद्य विनाशहेतुः ॥ इति ॥ ६ ॥
तृतीयेश और मंगल अष्टम भावमें हों तो भाईका नाश होता है । दोनों पापग्रहकी
राशिमें हों वा पापग्रहके साथ हों तो दोनों ग्रह भाईको उत्पन्न करके नाश करते हैं ॥ ६ ॥
नीचास्तगौ सोदरनायकाख्यौ नीचांशगौ पापसमागतौ वा ।
क्रूरादिषष्ट्यंशगतौ तदानीं भ्रातॄन्समुत्पाद्य विनाशहेतुः ॥ ७ ॥
सोदरनायकाख्यौ = सहजेशः, सहजकारकश्चेत्यन्यत्स्पष्टार्थमेवेति ॥ ७ ॥
भ्रातृस्थानेश और भ्रातृकारक नीच राशिमें हों अस्त हों या नीचांशमें हों वा दोनों
क्रूर षष्ट्यंशमें हों तो भाईका जन्म नाश करने ही के निमित्त करते हैं ॥ ७ ॥
अतिक्रूरसमायुक्ते भावे वा कारकेऽपि वा ।
तद्भावनाथके वाऽपि बाल्ये सोदरनाशनम् ॥ ८ ॥
अतिशयेन क्रूरः अतिक्रूरः ( पापीयान् ), पापग्रहश्चेन्नीचगतोऽस्तं गतः शत्रुवर्गादिग-
तो वा भवेत्तदाऽसावतिक्रूरोऽतीव पापी भवति । तेन पापीयसा ग्रहेण तृतीयभावे वा भ्रातृ-
कारके वा तृतीयेशे समायुक्ते सति, बाल्ये = बालावस्थायामेव सोदरनाशनं भवति । तस्य
बाल्यकाल एव सोदरो म्रियत इत्यर्थः ॥ ८ ॥
अत्यंत क्रूरग्रहसे युक्त ३ रा भाव हो या भ्रातृकारक हो या ३ रे भावका स्वामी हो तो
बाल्यावस्था में भाई का नाश होवे ॥ ८ ॥
धनेश्वरे नाशगते बलाढ्ये पापान्विते सोदरकारकाख्ये ।
तन्मातृकारग्रहसंयुते च सापत्नमातुः सहजा वदन्ति ॥ ६ ॥
धनेश्वरे = द्वितीयभावेशे, बलाढ्ये = सबले सति, नाशगते = अष्टमभावगते, सोदर-