सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 389, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 389

प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३६३
यदि द्वितीयेश गोपुरांशमें हो और शुक्र पारावतांशमें हो तो उसके सभी आश्रित
उससे पलित होकर बड़ी प्रसन्नतासे बढ़ते हैं याने वह मनुष्य अपने आश्रितों का पालक
होता है ॥ ८७ ॥
जायाकुटुम्बगृहपौ सितपापयुक्तौ दुःस्थौ च तत्समकलत्रहरौ भवेताम् ।
वित्तेश्वरे बलवति स्मरराशिपे वा तुङ्गादिगे यदि समेति कलत्रमेकम् ॥८८॥
जायेति। जाया-कुटुम्बगृहपौ = सप्तमेश-द्वितीयेशौ, सितपापयुक्तौ = शुक्रेण पापग्रहेण
च सहितौ, दुःस्थौ = षडष्टव्ययगतौ च स्यातां, तदा तत्समकलत्रहरौ = तत्संख्यामितस्त्री-
नाशको, भवेताम् । एतदुक्तं भवति । सप्तमेशो द्वितीयेशो वा यदि शुक्रेण वा केनचिदेकेन
पापेन युक्तो दुःस्थश्च स्यात् तदैकस्त्रीनाशको भवति । यदि ग्रहद्वयेन युक्तः स्यात् तदा
स्त्रीयुगलं नाशयेत् । एवं ग्रहसंख्यापरत्वेन स्थितिपरत्वेन च स्त्रीनाशयोगो वाच्यः ।
वित्ताधिपे = द्वितीयेशे, वा स्मरराशिपे = सप्तमभावपतौ बलवति सति यदि तुङ्गादिगे = स्व-
कीयोच्चादिगते ( आदिशब्देन स्वमूलत्रिकोण-स्वराशि स्ववर्गादिकं ज्ञेयम् ) तदा जातः
एकं, कलत्रं=भार्या, समेति=प्राप्नोति । अत्र योगे जातो नर एकभार्यो भवतीत्यर्थः ॥८८॥
सप्तमेश और द्वितीयेश शुक्र और पापग्रहसे ( जितनेके साथ ) युक्त हों और दुष्टस्थान
में हों तो उतनी स्त्रीके नाशक होवं । द्वितीयेश वा सप्तमेश बलवान् होकर उच्चादिमें हो तो
एक ही स्त्री होवे ॥ ८८ ॥
अथ पात्राशनयोर्विचारः ।
भुक्तिस्थानपतौ सितेन्दुसहिते लग्नादिकेन्द्रस्थिते
रौप्यं पात्रमुपैति काञ्चनमयं जीवेन्दुशुकान्विते ।
भुक्तिस्थानपदेहपौ शनियुतौ लोहादिपात्रं वदेद्
भौमे पापनिरिक्षते धनगते जातः कदन्नादिभुक् ॥ ८६ ॥
भुक्तिस्थानपताविति । भुक्तिस्थानं = द्वितीयभावः, तत्पतौ = द्वितीयभावेशे, सितेन्दुसहिते
= शुक्रचन्द्राभ्यां युक्ते, तथा सति, लग्नादिकं यत्केन्द्रं ( १।४।७।१० ) तदन्यतमगते
जातः, रौप्यं = रजतमयं, पात्रं = भाजनं, उपैति = प्राप्नोति । तथाभूते भुक्तिस्थानपतौ
( लग्नादिकेन्द्रस्थिते ), जीवेन्दुशुकान्विते = गुरुचन्द्रशुक्रैः सहिते सति काञ्चनमयं = सौवर्णं
पात्रं प्राप्नोति । अथ भुक्तिस्थानपदेहपौ = द्वितीयेशलग्नेशौ यदि शनियुतौ भवेतां तदा
लोहादिपात्रं जातकः प्राप्नोतीति वदेत् । अशनमाह—भौमे = मङ्गले, पापनिरिक्षते=शनि-
सूर्यक्षीणचन्द्रान्यतमेनावलोकिते, धनगते = द्वितीयभावमुपगते सति जातः कदन्नादिभुक् =
कुत्सितान्नफलादिभोक्ता भवति ॥ ८९ ॥
भुक्ति ( २ ) स्थानका पति शुक्र और चन्द्रमाके साथ लग्नादि केन्द्रमें स्थित हो तो
जातकको रूपाका ( चांदी ) पात्र मिले । द्वितीयेश यदि बृहस्पति और शुक्रसे युक्त हो तो
सोनेका पात्र प्राप्त होवे । द्वितीयेश और लग्नेश शनिसे युक्त हो तो लोहेंका पात्र कहे ।
पापग्रहसे दृष्ट मंगल धनमें हो तो जातक कदन्न भोज करे ॥ ८९ ॥
बह्वाशनो भुक्तिपतौ सपापे दावाग्निदण्डायुधकालभागे !
नीचांशके पापनिरिक्षते च शुभैर्न दोषः सहितेक्षिते वा ॥ ६० ॥
बह्वाशन इति । भुक्तिपतौ = द्वितीयेशे, सपापे=पापग्रहेण सहिते, दावाग्नि-दण्डायुध-
कालानां भागे ( षष्ट्यंशे ) विद्यमाने सति जातः, बह्वाशनः = अधिकभुक् भवति । भुक्ति-
पतौ नीचांशके = स्वकीयनीचराशिनवांशे तस्मिन्पापेन निरीक्षिते च तथैव फलं (बह्वाशनः)
स्यात् । अथोक्तयोगेऽपि, शुभैः = शुभग्रहैः, सहितेक्षिते=संयुक्तते, दृष्टे वा दोषः न स्याद-
र्थाद्बह्वाशनो न भवेदिति ॥ ६० ॥