जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
पृष्ठ 46, कुल 106 में से
संदर्भ में पढ़ेंमनो बृहत् । द्वादशाक्षरः प्रस्तावः । तावद् धि साम । द्वादश मासास् संवत्सरः । संवत्सरस् साम । त्रयो बृहतो रोहा इम एव लोकाः । ते पुनर् नव भवन्ति प्राणा एव । मनो दशमम् । द्वादश बृहतस् तन्मो मासा एव । मासा रश्मयः । रश्मयो मरुतः । तैरू असाव् आदित्यो धृतः । स य एतद् एवं वेद यत्र कामयत इह म्रियेयेति म्रियते तत्र । यो वै बृहतो बार्हतं पदं वेदोह प्रजया पशुभिः प्रथते ॥"
Column 2:
"द्वादशाक्षरं वाव बृहतो बार्हतं पदम् । तद् आयच्छते ऽवगेयम् । यो वै बृहति त्रिवृतं सदेवं प्रोढं वेद गच्छति क्षत्रमात्राम् । रोहा ह वाव बृहतस् त्रिवृत्सदेवाः । ब्रह्मणो ऽस्य सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद ॥ इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृवीति मन्यमानः परां परावतम् अगच्छत् । तं प्रजापतिर् अकामयत तन् स्याद् इति । तम् ओ हो इत्य् अन्वाह्वयत् । सो ऽभवत् । ओ हों इत्य् एवावरुद्धो राजन्यः कुर्वीत । अव