हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
१२ सिद्धार्थकनामाध्यायः ] हस्त्यायुर्वेदः । २३३
तोपमूलमिदं सर्वं जगत्स्थावरजङ्गमम् ।
असंख्येया गुणाः प्रोक्तास्तोयदाने नराधिप ।
सद्यः प्राणकरं तोयं मूर्च्छितेभ्यः प्रदापयेत् ॥
व्यतिक्रान्तायां तृष्णायां नागः प्राणैर्विमुच्यते ।
तस्मात्तृष्णार्दिते नागे तोयं क्षिप्रं प्रदापयेत् ॥
बलाद्रोगांश्च जयति वारणो नात्र संशयः ।
यदा रोगार्दितो ना(*गस्तृष्णाया व्यथते भृशम् ॥
परिशुद्धं तदा तोयं विषज्ञारोग्यकाङ्क्षिणा ।
योगतस्तु प्रदातव्यं प्राणभ्रंशोऽन्यथा भवेत् ॥
लक्षणं तस्य वक्ष्यामि कार्त्स्न्येन मनुजाधिप ।
तृष्णया चाभिभूतस्य प्रमेदः संप्रवर्तते ॥
धातूनां च क्षयाच्चैव मूढस्तु भवति द्विपः ।
आलानं छेदयेन्ना)गः स्थाने न लभते सुखम् ॥
शालां भिनत्ति चात्यर्थं तथैव कपिशीर्षकम् ॥
शय्यायामुपनीतस्तु निद्रां न लभते गजः ॥
दह्यते मुख········································ ॥
························ तेनैव वारणस्तोयवर्जितः ॥
वाचनं वातिगृह्णाति निर्वाणं यत्र नीयते ॥
योक्त्रे क्रुध्यति सोऽत्यर्थं तथैव परिकर्मणा ॥
सर्वतोऽभिद्रवेद्गन्धास्तृष्णया परिपीडितः ॥
मर्मस्थानानि पीड्यन्ते तालुमध्यं च दीर्यते ॥
गलकण्ठकपोलाश्च संयुक्ताः कण्टकैस्तथा ॥
श्वेतसर्षपसंकाशैर्जिह्वा बिन्दुभिरोचिता ॥
व्याधिः सिद्धार्थको नाम वारणप्राणनाशनः ॥
भोजनं यवसं चैव तृष्णार्तो नाभिनन्दति ॥
प्राजनाङ्कुशदण्डानां पातस्य च महीपते ॥
संज्ञां न प्रतिपद्येत तृष्णया मोहितो गजः ॥
श्वसिति कम्पते चैव भूयसा विह्वलत्यपि ॥
लिङ्गान्येतानि कुरुते तृष्णार्तो वारणो नृपः ॥
- धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।
१ ख. °राजिता ।
३०
३३४ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
तस्माद्भिषग्व्यो मतिमान्बलाबलविभागवित् ॥
दापयेद्धस्तिने वारि तेन कालवमिन्द्रयेत्(?) ॥
पीततोये ततो राजन्कर्मार्धर्मविधातवः ॥
एवमेतेन योगेन लब्धप्राणो यदा भवेत् ॥
तदा तस्य पुनः कार्या चिकित्सा प्राणवर्धनी ॥
मृद्वीका दाडिमं चैव शर्करा दधिमस्तुना ॥
पूर्वोद्दिष्टप्रमाणेने पानं कृत्वा सुसंस्कृतम् ॥
यवतर्पणसंसृष्टं क्षीरं पिबति .... .... .... ॥
.... .... ....दद्यात् .... .... तृष्णापहा.... .... ॥
सर्वश्रो(स्रो)तसि नागस्य स्नेहाभ्यङ्गः प्रशस्यते ॥
तं च स्नेहं प्रवक्ष्यामि येन संपद्यते सुखम् ॥
यवकोलकुलत्थानां पञ्चमूलद्वयस्य च ।
चतुर्भागावशिष्टं तु निष्क्वाथं कारयेद्बुधः ॥
क्वाथ(त्प)मानं पुनर्दद्यात्प्रतिपानं यथाविधि ।
माषपर्णी पयस्या च हरिद्रे द्वे कसेरुकम् ।
जीवकर्षभकौ चैव यष्टीमधुकमेव च ।
कल्कपिष्टं तु तं कृत्वा क्षीरेण सह पाचयेत् ।
अर्धावशिष्टं विज्ञाय ततस्तमवतारयेत् ।
(*परिश्रु(स्रु)तं तु तं कृत्वा घृततैलवसादिभिः ।
एकं संपाचयेच्चस्तु पुनः स्नेहं यथाक्रमम् ।
यदा सिद्धं तु विज्ञाय ततस्तमवतारयेत्) ।
पानं भोजनमभ्यङ्गमनुवासनमेव च ॥
स्नेहमेतत्प्रशंसन्ति तृष्णाप्रशमनं हि तत् ।
गलकण्ठकपोलाश्च जिह्वा तालु च सर्वतः ।
अभ्यक्ता मार्दवं यान्ति योगेनानेन दन्तिनः ।
मुखरोगेषु सर्वेषु स्नेह एव प्रशस्यते ।
लावतित्तिरिमांसेश्च रसं नागस्य कारयेत् ।
शालीनामोदनं चैव रसयुक्तं प्रदापयेत् ।
यवसानि प्रदेयानि मृदूनि हरितानि च ।
- धनुराकारमध्यस्थः पाठो नैव कपुस्तके ।
१ क. °मिन्द्रिये° । २ क. °न्कर्मी धर्मनिधा° । ३ क.°प्राणैर्यदा ।
अनेन क्रमयोगेन मुखरोगात्प्रमुच्यते ।
तत्र श्लोकः—
एवं सिद्धार्थकं व्याधिं यस्तु हन्याच्चिकित्सकः ।
तं वैद्यं पूजयेद्राजा दानमानपरिग्रहैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
सिद्धार्थकनामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥
अथ द्वात्रिंशत्तमोऽध्यायः ।
अथाऽऽश्रमे महर्षिरथर्युगण्डा(?)तपःस्वाध्यायसेविते स्वर्गसोपाने प्रफुल्लकान-
नोद्देशे विविधकुसुमरसास्वादमत्तरक्तभ्रमरगणोपगीतिसेविते गजमृगमहिषवरा-
हमयूरशुकवानरसिद्धगन्धर्वव्यालसेविते वंसनसुरपि(?)तत्राऽऽश्रमे हुताग्निहोत्रं
कृताह्निकबलिवैश्वदेवं कृष्णाजिनवर्था(?)वनद्धमासीनमासनस्थं वायुभूतं मास्थि-
भूतं(?)भगवन्तं पालकाप्यं(?)तत्र कदाचिदङ्गाधिपो रोमपादस्त्वागम्य विन
यति करेण मुष्टिं कुर्यात्, स्तब्धनयनः शब्दस्पर्शौ न विन्दति तं भावबाहुक-
गृहीतं वारणं विद्यात् ॥
मृगवत्प्रेक्षते मृगग्रहमोहितश्च भूमौ निपतति भृशमत्यर्थं वेगेन कृशो भवति
तं मृगग्रहपीडितं वारणं विद्यात् ॥
अरतिकेन गृहीतः स्खलति पतति, नाभिनन्दति किंचिद्विहोराहारजात-
मिति तमरतिग्रहपीडितं वारणं विद्यात् ॥
जलमवगाह्य प्रतरति यः, प्रतारग्रहपीडितं वारणं विद्यात् ।
यः स्वपिति काम्यति च, तं स्वपितिग्रहपीडितं वारणं विद्यात् ॥
यः स्वानि सर्वगात्राणि भ्रमयन्गृह्णाति तथा चैनं प्रमर्दनग्रह(नक्षत्र)पीडितं
वारणं विद्यात् ॥
तत्र कामाक्ष(रूप)ग्रहगृहीतस्य लक्षणम्—यः कामीव मदनातुरः सर्वैरि-
न्द्रियार्थैः प्रहृष्टो हस्तिनीं हस्तिनं वा समपृष्ठमधिकं सर्वमेव वा दृष्ट्वाऽभिप्लवते ।
कामपरावस्थाप्राप्ततया च निवृत्तविहाराहारव्यापारो व्यायच्छन्नेवावतिष्ठते
वारणः, तं कामाक्ष(रूप)ग्रहगृहीतं वारणं विद्यात् ॥
वाणिज्जकस्यापि लिङ्गानि—तत्र यो हस्ती, आत्मद्रव्योपकरणतृणकवलकु-
वलकडंगराहारजातमद्धा प्राजनाङ्कुशरज्ज्वाद्यन्यहस्तिस्थानेषु निक्षिप्या-
न्यदीयानि यानि, तान्यात्मसात्कृत्वा तथा पुनस्तान्यपि निवर्तयेत्येवं निवृ-
त्त्याऽऽत्मव्यापारसंज्ञोऽवतिष्ठते, तं वाणिज्जकगृहीतं वारणं विद्यात् ॥
विन्ध्य(स्तव्यथ)विर(ग्र)हगृहीतस्यापि लक्षणम्—भ्रष्टग्रीवः स्रस्तहस्तश्च-
वणकर्णलाङ्गूलगात्रापरो मन्दचेष्टो निश्चेष्टो वा कदाचित्कचिन्मूढचित्त इव विप-
रीतसंज्ञो निःसंज्ञो वा कदाचिदन्यदेव कर्तुमारब्धोऽन्यत्तु कर्तुमुत्सहतेऽनव-
स्थितचित्तो वृद्धविषाच्च स्वभावतो योऽस्वस्थो हस्ती स विन्ध्यस्तव्यथविरग्रह-
गृहीत इति ॥
तत्र कामरूपोऽरतिको वाणिज्जश्चेति साध्याः । असाध्याः (.... .... .... ॥)
लालास्रावहनुस्तम्भाजिह्वाक्षेपणांनि विचित्राणि लक्षणानि भवन्त्येतानि । भूय-
(सम)स्तव्व्यस्तानि सामान्यानि यानि चेमानि वक्ष्यामः ॥
तत्र कश्चिद्गजः सहसा पादप इव च्छिन्नमूलतः पतति । रौद्रंनिष्टब्धनयनो
नष्टचित्तः सर्वभ्रमः ....नोदशनाकुठकटा(?)पतांत जिह्वां स्तम्भयति वक्रग्रीवोऽ-
प्यनिरीक्षणं कुरुते। कफव्यामिश्रलालां रक्तसंसृष्टां सफेनां छर्दयति, सिंहव्याघ्र-
भीतवच्छ्वसिति पच्छिलार्दित इव क्रुध्यति बिभेति सर्वस्मात्सर्वेषामपि कुप्यति,
१ ख. °रेणुम्°। २ ख. °हारजा° । ३ क. विन्ध्यतिरह्°। ४ क. °निस्तब्ध° ।
एकपक्षेण पतति भ्रमति मुह्यति वेपते कूजति मात्सर्यं यवसकवलकुवलपल्लव-
भोजनान्यभिनन्दति । न स्थानशय्यां वेदयते न यन्तारमभिगणयति । तमेनं
ग्रहपीडितं वारणमसाध्यं विद्यात् । वर्षस्थितमुन्मादमपस्मारं सात्मीभूतं दूरतः
परिवर्जयेत् । तौ वर्षपर्युषितौ न सिद्ध्येते । ये चान्ये वर्षग्रहागतास्ते याप्या
भवन्त्यसाध्या वा स्थिरमूलतया पर्युषिता ग्रहाः । अस्थिमज्जानुगताः शरी-
रस्था जलमध्ये तैलविन्दुरिव विस्तीर्यन्ते । तत्राऽऽदौ दुःखसाध्या ग्रहा भवन्ति ।
तस्माद्ग्रहेण गृहीतमात्र एव यः स तु कदाचित्सिद्ध्यतीति कृत्वा चिकित्सितं
व्याख्यास्यामः । तस्य बलिकर्मविधानमग्निकार्यं ततः सामान्ययज्ञेन वा शान्तिं
कुर्यात् । तत्र शालां पुष्पोपकीर्णां कृतोपलेपनां बलिहोमधूपगन्धप्रायश्चित्तैर्नि-
ष्कल्मषीकृतां सुरभिमनोज्ञसुसंवृतोपरां(?)द्रव्यौषधिसंयुक्तां ब्राह्मणस्वस्तिवा-
चनं कृत्वा वैद्यः शालां वारणं प्रवेशयेत् । ततो नागं ग्रहाविष्टं भिषग्यथोक्तैः
शास्त्रमेभिर्गुणैः संपन्नैर्वत्सलैर्जितक्रोधैः शुचिभिः प्रनतै(णते)ष्ठैरुपेतं विज्ञाय
भोक्तैः स्वगजपरिचारकैः परिगृह्य शालामानीय दक्षिणपक्षेणाऽऽलानयेत् ।१ सुयं-
त्रितं कृत्वा बलिहोमप्रायश्चित्तैः कर्मप्रवचनं कुर्यात् । ब्राह्मणं तर्पयेत् । गजं
पुरस्ताद्रक्षोघ्निघ्नानि च सामानि गाययेत् । ततस्तं भोजनस्न(त)स्नेहदेशा(हा)भ्यङ्ग-
विरेचनं येषां यूषरसाद्यैर्बृंहयेत् । ततस्तस्य प्रध्यायना(?)अनस्य कर्म धूपयेत्,
गोघृततैलवसाभिः संयोज्य नागाय ग्रहविनाशनं दद्यात् । तिलसिद्धार्थकपिचु-
(मन्द) नक्तमालपूतीकरञ्जैरण्डविभावकानां फलं तैलेषु संयोज्याभ्यञ्जनं दद्यात् ।
एतेषां बीजैः कल्कपिष्टैर्वारणं सशिरस्थमानस्खेभ्यो बह(ल)मत्रानुलेपयेत् ।
तं त्रिकटुकदेवदारुवचाकटुकरोहिणीहैमवतीचव्यपाठाहस्तिपिप्पलीचित्रकतु-
लसीपत्राणि यवलशुनफणिज्जकापामार्गफलैर्दन्तीसैन्धवभागार्त्वचं विडङ्गं
बृहतीफलानि समभागानि श्लक्ष्णचूर्णानि कृत्वा नस्यं प्रधमनं दद्यात् । एता-
न्योषधानि कल्कपिष्टानि कृत्वा नक्तमालमयूरोलूकनकुलगोजाविमहिषीणां
पित्तं संयोज्य नस्याभ्यञ्जनालेपनादि ग्रहविनाशनार्थं कुर्यात् । सर्वबीजानि सुपि-
ष्टानि कृत्वा यानि चान्यानि पेष्याणि तानि वैद्यः स्वेदावर्तनार्थं नागस्य
ग्रहविनाशनार्थं दद्यात् । पिचुमन्दमार्धतर्कीरीशोभाञ्जनकोत्तक्षककरञ्जश्लेष्मा-
न्तकानां पल्लवैर्ग्रहविनाशनार्थं स्वेदयेत् । द्विपञ्चमूलपलाशशतानि चत्वार्युदूखले
क्षोदयित्वा पानीये चतुर्गुणे क्वाथयेत् । ततः क्वाथं चतुर्भागावशेषमवतार्य परि-
श्रा(स्रा)व्य तेन क्वाथेन घृताढकं शतवार्षिकं पाचयेत् । तस्यालाभे द्वादशवा-
१ क. ॰ते । तं गाढं ग्र० । २ क. कृत्वा तां
२३८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
र्षिकं पाचयेत् । तत्सर्वग्रहनिवारणार्थं पञ्चगव्यसंयुक्तं वारणं पाययेत् । अथ
तीव्रासविपक्वं वचासिद्धं लशुनसिद्धं सिद्धार्थकसर्षपसिद्धं घृतमेनं पाययेत् ॥
अतः परं बलिविधानं वक्ष्यामः—चन्दनोशीरपद्मकोत्पलमनःशिलासुवर्ण-
मणिमुक्ताफलानि सीधुमैरेयभूतान्नकुलमाषककाममांससुरामण्डमत्स्यकृशराजा-
जिसर्वगन्धाहरिद्राकृष्णमृत्तिकाश्चेति तत्सर्वमाहृत्य स्नातः शुचिर्भूत्वा ब्राह्मणा-
न्स्वस्ति वाचय तीर्थमातृणामापतानामुबलिनिवेदनं कुर्यात् । अथ सव्यमुक्त-
शिखो वैद्यः सर्जरसेन सघृतेन धूपनं कुर्यात् । यच्च रात्रिक्षिप्ते विधानं बलिहो-
मकर्मादिप्रयुक्तं सर्वमिहापि कुर्यात् । शालीनामोदनं मांसरसेन भोजयेत् । रस-
मन्नपानं दद्यात् । बस्तयश्च बृंहणीयाः । यथोक्तेन बस्तिसिद्धिविधानेन चे
स्नानं दद्यात् । यवसानि च मृदुमधुरविपाकानि मत्स्यपिण्डकामर्माणि भोज-
येत् ॥
तत्र श्लोकाः—
कुलीनः शास्त्रतत्त्वज्ञो दृष्टि(ष्ट)कर्मा विचक्षणः ।
ब्राह्मणो वृत्तसंपन्नः साधुस्तद्वैद्यपूजितः ॥
ब्रह्मचर्ये स्थितश्चैव तथा देवपरायणः ।
अमत्सरी तथा नित्यं तथा द्रव्यविशारदः ॥
ईदृगलक्षणयुक्तश्च तथा गजहितश्च यः ।
स्वामिभक्तश्च नित्यं स वैद्यो ग्रहचिकित्सकः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
भूतग्रहो नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
अथ त्रयस्त्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं द्विजर्षभम् ।
विनयेनोपसंगम्य रोमपादः स्म पृच्छति ॥
यच्चोन्मदनकं प्राहुः कुञ्जराणां ब्रवीहि मे ।
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
तन्मे शृणु महाराज .... .... .... .... .... ।
अविक्षेत(?)तेजसाऽयं लिखितं(?)सर्वं व्याख्यास्यामः ॥
मुहुर्मुःस्वग्रहश्च स्यान्मुहुश्चापि सुसग्रहः ।
१ ख. च बस्तान्दद्या° ।
[ ९ उन्मादाध्यायः ] हस्त्यायुर्वेदः । २३९
मुहुः कुप्यति संज्ञां च न वेत्ति च मुहुर्मुहुः ।
आरोहकं तर्जयति वेपते च मुहुर्मुहुः ॥
भूमिं स्पृशति दन्ताभ्यां तावत्पच्छिन्नमस्तुते(?) ।
पशून्मनुष्यानश्वांश्च हस्तिनः शकटांस्तथा ॥
सजीवं निर्जीवं सर्वं प्रार्थयते द्विपः ।
तथा शब्दान्प्रार्थयते अग्निं दृष्ट्वा प्रधावति ॥
प्राजनान्यङ्कुशान्दण्डान्दुःखेनोत्क्षेप्तुमिच्छति ।
परिघं वा कपाटं वा हन्तुं वृक्षांश्च काङ्क्षते ॥
कोपं कृत्वा चिरं कालमेकस्माच्च प्रसीदति ॥
एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ।
ऋक्षपित्तं काकपित्तं मुद्गा वै सर्षपास्तथा ।
एतेन चाञ्जितो नागेस्तून्मादात्परिमुच्यते ॥
तण्डुलीकमूलं च हिङ्गुं च लशुनं तथा ।
एतेन चाञ्जितो नागस्तून्मादात्परिमुच्यते ।
मूलानि करवीरस्य त्वक्फलानि करञ्जयोः ।
उक्षपित्तं च हिङ्गुं च लशुनं मूत्रपेषितम् ।
अविमूत्रमजामूत्रं गोमूत्रं माहिषं तथा ।
एतेन चाञ्जितो नागस्तून्मादात्परिमुच्यते ।
अश्वसूकरयोरस्थि श्वानश्चापि समाहरेत् ।
कुक्कुटस्योत्तमाङ्गस्य उलूकनकुलादपि ।
क्रौञ्चस्य कुररस्याथ उत्तमाङ्गं च संहरेत् ॥
लशुनानि वचा चैव तथा कटुकरोहिणी ।
एष धूपो ग्रहान्सर्वान्साधयेत्संप्रयोजितः ।
अस्थि चर्म च मांसं च रोमाण्युष्ट्रस्य वा तथा ।
पुराणघृतसंयुक्तो ह्येष धूपो विधीयते ।
( *मनःशिलां च हिङ्गुं च वचां कालानुसारिवाम् ॥
मरिचानि च श्वेतानि अञ्जनार्थे प्रदापयेत् ।
काकपित्तं मत्स्यपित्तं मरिचानि मनःशिला । )
एतानि समभागानि अञ्जनार्थं प्रदापयेत् ।
- धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
१ ख. °न्नमस्नुते । २ क. °गस्तन्मदा° ।
२४० पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने—
गोकिण्डमश्वलिण्डं च हस्तिलिण्डं तथैव च ।
पुराणघृतसंयुक्तो ह्येष धूपः प्रशस्यते ॥
तिलान्कृष्णान्समाहृत्य श्वेतानि मरिचानि च ।
ते शुद्धानिस्तुषे कृत्वा सकृदुष्णोदके पचेत् ।
यत्तत्र निश्चयेत्तैलं भेषजैस्तं विपाचयेत् ।
(※हिङ्गुं चातिविषां चैव वचां च कटुरोहिणीम् ॥
बस्तमूत्रं मेषमूत्रं गोमूत्रं चापि संहरेत् । )
तान्यौषधानि संयोज्य तैलं धीरो विपाचयेत् ॥
तेनास्मै दापयेन्नस्यमुन्मादात्परिमुच्यते ।
प्रकृतिं लभते क्षिप्रं प्राणश्चाप्युपचीयते ॥
एतद्वै सर्वमाख्यातमुन्मादस्य चिकित्सितम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थान
उन्मादो नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
अथ चतुस्त्रिंशोऽध्यायः ।
वक्ष्यतेऽतः परं यत्नादपस्मारग्रहस्ततः ।
अपस्मारग्रहाक्रान्तो वेपमानो विचेतनः ॥
पक्षेण क्षितिमागम्प तिष्ठत्याविललोचनः ।
क्षणेन लभते संज्ञां भवेत्स्वस्थ इव द्विपः ॥
एतान्येव च लिङ्गानि कालवेलान्तरेष्वपि ।
करोति तस्याऽऽगमने हीयमानो बलादिभिः ॥
नवग्रहविधानेन वर्षस्यान्तः प्रसाधयेत् ।
उन्मादग्रहवच्चापि परतो निष्प्रतिक्रियः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽ-
पस्मारो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
अथ पञ्चत्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
वातकुण्डलिकाख्यस्य कथं रोगस्य संभवः ॥
※ धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ॥
कथं विज्ञायते ब्रह्मन्कथं वा साध्यते हि सः ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु राजन्यथा व्याधिर्जायते वातकुण्डली ।
अभिघातात्प्रवेगाद्वा रात्रौ जागरणेन च ॥
मनोभिघाताद्रोषाच्च तथा चानुचितासनात् ।
वारणस्य नृपश्रेष्ठ सहसा कुप्यतेऽनिलः ॥
ततः प्रकोपात्कुप्येत रक्तं पित्ताश्रितं तु यत् ।
ततोऽल्पाल्पं गजो मूत्रमसृक्पीतमथापि वा ॥
मेवाङ्कमाणः कुरुते वालमूर्ध्वमुदस्यति ॥
लिण्डं च पीडितः कृच्छ्रादेकैकं कुरुते गजः ।
(* सलोहितं कदाचिच्च कदाचिच्छ्लेष्मसंयुक्तम् ॥
वेदनार्तस्तु मातङ्गः संकुच्याङ्गानि वेपते ।
स्थूलं श्वसिति हस्तेन वक्त्रेण स भृशं गजः । )
ऐभिस्तु लक्षणैर्विद्याद्वातकुण्डलिकां भिषक् ॥
तमसाध्यं वदन्त्यन्ये पाद्यमन्ये विनिश्चयः ॥
अतः परं प्रवक्ष्यामि साधनं तस्य हस्तिनः ।
वातकुण्डलिकोपेतं तथाऽन्यच्च प्रदापयेत् ॥
स्थानं निवातमभ्यङ्गः सुखं च शयनं तथा ।
शाल्यन्नं सर्पिषा तस्य प्रशंसन्ति चिकित्सकाः ॥
क्वाथाश्चास्य प्रदातव्या गुल्मोक्तास्त्वनुपूर्वशः ।
प्रसन्नां पिप्पलीयुक्तां पञ्चभिर्लवणैः सह ॥
यथाप्रमाणविहितां प्रतिपानं प्रदापयेत् ।
प्रतिपानविशुद्धस्य मुखतः स्नेहनं हितम् ॥
मुखतः स्नेहिनस्याथ बस्तिकर्म प्रशस्यते ।
बस्तिकर्मणि संयुक्तं .... .... .... .... .... ॥
.... .... .... .... .... क्षीरं मधुरकैः शृतम् ।
प्रागुत्थितस्य सघृतं प्रशस्तं पानमुत्तमम् ॥
- धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
१ क. ख. प्रवाहमाणः । २ ख. पीडितं । ३ क. एतैस्तु । ४ क. ०नं च दा० ।
३१
२४२ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने ]
यथैवं विविधैर्योगैर्न सुखं स्यान्मतङ्गजः ।
ततोऽस्मै दापयेद्वैद्यः क्षारतैलं यथाविधि ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
वातकुण्डली नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
अथ षट्त्रिंशोऽध्यायः ।
अधिकं तु यदा भारं गजस्याऽऽरोपयन्ति हि ।
गच्छन्नै दक्षते क्षिप्रं सोऽतिमात्रं प्रयोजितम् ॥
नागं वा पथि संतप्तं निर्देशैश्च भिषग्वरः ।
कृशपादस्तथा स्कन्धो भिन्नरोमत्वचा वृतः ॥
नदीं गत्वा जलेनाङ्गान्यभीक्ष्णं परिषिञ्चति ।
वमथुं हरतेऽभीक्ष्णं बहुशश्चापि वीजति ॥
स्थाने न लभते सौख्यं यवसं नाभिकाङ्क्षति ।
मूत्रसङ्गश्च भवति श्वा(स्त्रा)सश्चास्य प्रवर्तते ।
प्रकीर्यते यथाऽङ्गारः स स्विन्दन्योऽवनम्यते ॥
विशीर्यन्ते तथा यस्य मांसानि द्विरदस्य च ।
कर्मारकुण्डवत्तस्य शब्दः काये निशाम्यति ॥
भूतोपसृष्टवच्चास्य विदित्वा कुशलो भिषक् ।
निदानमात्रं विज्ञाय कुर्यात्तस्य चिकित्सितम् ॥
गव्यं तु क्षीरमाहृत्य माषचूर्णेन योजयेत् ।
ततस्तं पाययेद्योगं प्रातस्तु मतिमान्भिषक् ॥
तेन मूत्रग्रहोच्छ्वासौ दाहस्त्वस्य प्रशाम्यति ।
कुल्माषान्क्षीरसंसृष्टान्दापयेद्द्विपजां वरः ॥
पिप्पली शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत् ।
चूर्णान्येतानि संसृज्य मधुना सर्पिषा तथा ॥
ततस्तं भोजयेन्नागमतिभारेण पीडितम् ।
पिप्पली मधुकं रोध्रं तथा कालानुसारिवाम् ॥
उत्पलानि तथोशीरं यवांश्चात्र प्रदापयेत् ।
एतैर्विपाचयेत्क्षीरं मांसैश्च श्लक्ष्णपेषितैः ॥
१ क. स्विपन्त्योवनस्यते । २ क. ०पीषितैः ।
३७ क्षुद्रचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । २४३
वस्त्रेण परिसंस्त्रा(स्रा)व्य क्षीरं स्यात्सुखशीतलम् ।
ततो द्राक्षारसं दद्यान्माषचूर्णेन योजयेत् ॥
प्रत्यूषे पाययेन्नागं ततः संपद्यते सुखी ।
तेन मूत्रोपरोधस्तु श्वासो दाहश्च शाम्यति ॥
शृगालविन्नाचूर्णं स्यात्पिप्पलीद्वयमेव च ।
श्वेतं च लशुनं दद्याद्यथायोगं विचक्षणः ॥
एतत्संभृत्य संभारं स्थाल्यां प्रक्षिप्य साधयेत् ।
चतुर्भागावशिष्टं च क्वाथं वस्त्रपरिस्रुतम् ॥
तैलद्रोणे समावाप्य मर्दयेन्मौद्गमोदनम् ।
भोजनं यवसं पानं शीतलं संप्रदापयेत् ॥
एवं श्रेष्ठो भवेन्नागो भारोन्मथितपीडितः ।
प्रवातस्थाने शयनं वारणस्य प्रशस्यते ॥
सेचयेद्बहुशः स्थानं सुखशीतेन वारिणा ।
भोजने दापयेत्क्षीरमन्नयुक्तं नराधिप ॥
सर्पिर्दद्यात्समायुक्तं योगेनानेन शास्त्रवित् ।
प्राणो भवति तेनास्य वीर्यं तेजश्च वर्धते ॥
स्थाननिर्वाणशयने प्रमाथे पांसुघातने ।
सदा सुखोचितं कुर्याच्छय्या वाऽपि यथासुखम् ॥
न योजयेच्च तं नागं हस्तियुद्धे महीपते ।
तथा कर्मपथे वाऽपि निष्ठावे(?)वर्तनेऽपि च ॥
एतैरून्मथितो नागः पुनर्व्यापदमृच्छति ।
तस्मान्न योजयेद्राजा *भारेणोन्मथितं गजम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदंमहाप्रवचने महापाठे द्वितीये क्षुद्ररोग-
स्थाने भारोन्मथितो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
अथ सप्तत्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
लुप्तः कथं संभवति कथं वा साध्यते हि सः ॥
- पुस्तकद्वयेपि 'भाषणो' इति पाठ उपलभ्यते ।
१ क. दाहः प्रशा० । २ क. ०विन्नाचू० । ३ क. ०स्थानशं० ।
२५४ पालकाप्यमुनिविरचितो— [ ३ क्षुद्ररोगस्थाने
एतन्मे पृच्छतो ब्रूहि निर्मलेनान्तरात्मना ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
औष्ण्याद्वेगाभिघाताद्वा क्षाराम्ललवणाशनात् ।
श्रमाद्भयाद्वा तापाद्वा यथा वा रूक्षभोजनात् ॥
वायुः प्रकुपितोऽत्यर्थं बलासं(?)पित्तमेव च ।
प्रेरयन्कोपयेत्स्वांस्तंकृततन्तुः (?) समन्ततः ॥
पच्यन्ते तेन मांसानि तेन लुप्त इति स्मृतम् ।
वाद्यते ताड्यमानोऽसौ मृदङ्ग इव ताडितः ॥
लुप्ताभिभूतं मातङ्गं विज्ञायाऽऽशु प्रसाधयेत् ।
चतुर्णां क्षीरिणां क्वाथं मधुयुक्तं निषेवितम् ॥
पोत(थ)पेद्वा पचेद्वाऽस्य सक्षीरं लाजतर्पणम् ।
पथ्यं स्निग्धं च तत्सर्वं तमस्मै संप्रदापयेत् ॥
मयूरमृगमत्स्यानां वेसवारेण भोजयेत् ।
हरितं यवसंपन्नं सल्लकीं चसयारेपि(?) ॥
मनः प्रसाद्येत्तस्य तोमं(?)सुखं न पाययेत् ।
(† न चास्य मनसः किंचिद्व्याघातमुपकल्पयेत् ॥
शाल्योदनं ससर्पिष्कं भोजयेद्रससंयुतम् ।
मत्स्याण्डकाभिसंयुक्तं क्षीरं चास्मै प्रदापयेत् ॥ )
लुप्तादेवं विमुक्तस्य बलं तेजश्च वर्धयेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
लुप्तचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
अथाष्टात्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
भगवन्संग्रहे पूर्वं पत्रकृमिरुदाहृतः ॥ १ ॥
तस्योत्पत्तिं निदानं च भेषजं च ब्रवीहि मे ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
† धनुराकारस्थो नास्ति पाठः कंपुस्तके ॥
१ क. ॰पवस्या॰ । २ क. तामं ।
३८ तम[क्षुद्ररोगा]ध्यायः ] हस्त्यायुर्वेदः । २४५
प्रावृट्काले महाराजं जरत्पत्राकुले वने ॥
सदंशमशकाकीर्णे शाद्वलोदकभूमिषु ॥ ३ ॥
चरन्ति करिणो हृष्टा यथाकालं यथासुखम् ॥
पत्रच्छन्नासु शाखासु कदाचित्पत्रजो नृप ॥ ४ ॥
रोमशस्ताम्रवर्णाभः पत्रमाश्रित्य लीयते ॥
पत्रालयः पत्रभक्षी स पत्रकृमिसंस्थि(ज्ञि)तः ॥ ५ ॥
गजं स्पृशत्यसौ जन्तुर्गजो वा स्पृशते तु तम् ॥
अत्यन्तगुरुदेहस्तु गजो भित्त्वा वै मेदिनीम् ॥ ६ ॥
हस्तेन जृम्भमाणस्तु शिरो धुन्वन्सुदुःखितः ॥
वेपते परिमूत्री च यूथाद्वा प्रपलायते ॥ ७ ॥
एतद्वै तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥
*सर्पिषा सर्वशेषं तु शतधौतेन कारयेत् ॥ ८ ॥
कर्णाधानसमे तोये निर्वपेत्तमनेकपम् ॥
उत्तार्य सलिलात्पश्चादिमं लेपं प्रदापयेत् ॥ ९ ॥
दूर्वाबिशकुशोशीरं सारिवोत्पलचन्दनम् ॥
नलवञ्जुलमूलानि सूक्ष्मचूर्णानि कारयेत् ॥ १० ॥
सर्पिषा सह संयोज्य लेपयेद्दारणं भिषक् ॥
यद्येतेन प्रयोगेण नोपशाम्यति वेदना ॥ ११ ॥
आरभेत क्रियामन्यां शास्त्रयोगेन योगवित् ॥
उभे हरिद्रे मञ्जिष्ठा नलदं मुस्तसारिवा ॥ १२ ॥
सर्पिषा सह संयुक्तं काले लेपनमुत्तमम् ॥
मुद्गौदनं प्रभूतेन सर्पिषा भोजयेद्गजम् ॥ १३ ॥
विचित्रैर्यवसैश्रैव यवसाध्वायकीर्तितैः ॥
दापयेन्मतिमान्वैद्यस्ततः संपद्यते सुखम् ॥ १४ ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोग-
स्थाने पत्रकृमिनामाऽष्टात्रिंशोऽध्यायः ॥ ३८ ॥
- 'सर्पिषा स्पर्शदेशं तु शतधौतेन धावयेत्' इत्यभिप्रायः प्रतिभाति ॥
१ क. ०ज रम्ये पन्ना० । २ क. तौ । ३ क. भीत्वा । ४ क. तु ।
२४६ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
अथैकोनचत्वारिंशोऽध्यायः।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
उरःक्षतः कथं नागो जायते शास्त्रकोविद ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।
अतिभाराध्वगमनाल्लङ्घनात्प्लुवते(ने) न वा ॥
नियोगाद्वाऽपि सहसा वृक्षाणां चापि भञ्जनात् ।
कपालाट्टतटादीनां प्राकाराणां च भञ्जनात् ॥
प्रतिहस्त्यभिघाताद्वा जलक्रीडात्ययेन वा ।
उरःस्तम्भोऽस्य भवति स निषीदति वेपते ॥
गजः स्तनति वोच्छिङ्गन्गात्राभ्यां न च तिष्ठति ।
एतद्रोगसमुत्थानं चिकित्सितमतः शृणु ॥
सम्यक्स्थानोपपन्नस्य भेषजानि समाचरेत् ।
फालस्वेदं च विधिवन्नाडीस्वेदं समाचरेत् ॥
सुस्विन्नमेव मातङ्गं गोमयेन प्रलेपयेत् ।
तर्कारी बिल्वमेरण्डं वेणुपत्रं यवांस्तिलान् ॥
आटरूषकपत्राणि अर्कं मेषविषाणिनाम् ।²
अजशृङ्गाग्निमन्थे च जले प्रक्षिप्य पाचयेत् ॥
ततस्तं संपगासेन (?) स्वभ्यक्तं परिषेचयेत् ।
नाडीस्वेदं विदध्याच्च त्रिवृतां चैव पाययेत् ॥
यवकोलकुलत्थैश्च काश्मर्योदुम्बरैस्तथा ।
द्वाभ्यां वा पञ्चमूलाभ्यां तैलं धीरो विपाचयेत् ॥
तेनास्याभ्यञ्जनं कुर्यात्सम्यकर्मानुवासनम् ।
सँमवस्थापयेत्स्थाने सुखशय्यां च कारयेत् ॥
स तेन लभते सौख्यमारोग्यं च नियच्छति ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थान
उरःक्षतो नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
१ ख. ०ते राज०। २ क. ०गिजाम्। ३ क. समगासेन । ४ क. समे च स्या०।
४० शोणिताण्डाध्यायः ] हस्त्यायुर्वेदः । २४७
अथ चत्वारिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां रोमपादो महायशाः ।
विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति ॥
शोणिताण्डस्य भगवंल्लक्षणं वक्तुमर्हसि ।
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
अभिघातेन नागस्य यदा मूत्रं विमुच्यते ।
कोशो विवर्णो भवति परिमूत्री च जायते ॥
ततः कोशगतो वायुरभिघातेन कोपितः ।
ततः कोपयते रक्तं मूत्रं बस्तौ गतोऽनिलः ॥
उद्भ्रमो जायते तेन वक्ष्यमाणः परो नृप ।
मृदू भवेतां वृषणौ स्तनौ पाण्डुत्वचूचुकौ ॥
पिण्डिकाभिः परिवृतौ भवेतां .... .... .... .... ।
.... .... .... .... .... .... ....'डि न शूपते ॥
वर्धते पेचक .... .... .... ण्डकोशो च दन्तिनः ।
शुक्रमूत्रनिरोधाच्च विधुनोति स वालधिम् ॥
एतद्वै तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ।
अण्डकोशौ च यत्नेन शस्त्रेणास्योपवेधयेत् ॥
शोणितं मोक्षयित्वा तु सर्पिषाऽभ्यञ्जयेत्तु तम् ।
प्रतिपानं त्र्यहं दद्यात्सुरामधुसमन्वितम् ॥
उभे हरिद्रे मञ्जिष्ठा मधुकौशीरदारु च ।
आसवेनाभिसंयोज्य प्रतिपानं प्रदापयेत् ॥
उशीरं पद्मकं चैव हरितालं मनःशिलाम् ।
तण्डुलीकमप्यत्र समायोज्य प्रदापयेत् ॥
कदुष्णं मधु कृत्वा तु वृषणौ तस्य लेपयेत् ।
सुखी भवेच्च चेत्तेन ततः स्वेदं समाचरेत् ॥
अग्निकर्म ततः कार्यमुभयोरण्डकोशयोः ।
जाम्बवौष्ठेनाग्निवर्णेन समन्तात्परिडाहयेत् ॥
पिप्पलीशृङ्गवेरेण गुडतैलेन चैव हि ।
सुरां नागाय संयुक्तां प्रतिपानं प्रदापयेत् ॥
१ क. मूत्रयन्तो ग० । २ क. जम्बूघोष्ठे० ।
२४८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने—
लवणं तिलकल्कं च शोषणार्थं प्रदापयेत् ।
गेरिकं घृतसंयुक्तं दापयेद्व्रणरोपणम् ॥
तिलकल्कसमायुक्तं प्रलेपं तस्य कारयेत् ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
शोणिताण्डी नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
अथैकचत्वारिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
पादरोगस्त्वया सम्यक्त्रिंशत्तु समुदाहृताः ।
यस्त्वया क्षुद्ररोगेषु पुनरन्यः प्रकीर्तितः ॥
यवगण्डेशिरो नामा पादरोगः सुदारुणः ।
तस्य लक्षणमुत्पत्तिं चिकित्सां च ब्रवीहि मे ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।
यदाऽत्यर्थं गर्जस्तां तु(?)सा—सान्ववगाहते ॥
भुक्त्वा वा निशि जागर्ति व्यानो वायुर्यदा भवेत् ।
कषायतिक्तकटुकैराहारैर्वाऽप्यभिद्रुतः ॥
तदाऽनिलः प्रकुपितो वारणस्य महीपते ।
शूनान्पादान्करोत्यस्य नखवृद्धिं च हस्तिनः ॥
तेषामाकृतयो बह्व्यस्तिर्यगूर्ध्वमधस्तथा ।
जायन्ते वर्धमानास्ते नैकवर्णाः कदाचन ॥
केचा वला विवर्णा ॰॰॰॰ दलिताः स्फुटितास्तथा ।
वक्राः शोणितपूर्णाश्च भवन्ति चरणा नृप ॥
ज(य)वगण्डशिरारुयेन पादरोगेन पीडिताः ।
सर्वेभ्यः पादरोगेभ्यः कष्टोऽयमिति कीर्तितः ॥
तमाहुर्नृपशार्दूल नृवेद्या वातशोणितम् ।
उत्पन्नमात्रः साध्योऽयमसाध्यः कालपर्ययात् ॥
साधनं विधिवच्चास्य कीर्त्यमानं निबोध मे ।
१ क. स. ॰रन्यत्प्रकी॰ । २ ख. ॰ण्डसरो । ३ क. ॰जस्तोतु । ४ क. ॰भि-
क्षुतः । ५ क. कचाषला ।
पूर्वं विश्रा(स्रा)वणं कार्यं ततोऽस्य नखशोधनम् ॥
प्रलेपो बहुशश्चास्य वातघ्नैः संप्रलेपयेत् ।
एवं पूर्वक्रमं कृत्वा महास्नेहेन स्नेहयेत् ।
बस्त्यभ्यङ्गाच्छाद्यानाति(?) त्रिवृतेन भिषग्वरः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
यवगण्डशिरो नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
अथ द्वाचत्वारिंशोऽध्यायः ।
ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम् ।
पृच्छति स्म रोमपादः सहस्राक्षसमद्युतिः ॥
चर्मकीलाः संभवन्ति साध्यन्ते वा कथं पुनः ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
यदा प्रकुपितं पित्तं त्वचमाश्रित्य तिष्ठति ।
तच्छोष्यमाणं वातेन कदम्बमुकुलीकृतान् ॥
चर्मकीलान्संजनयेत्तेषां वक्ष्यामि साधनम् ।
क्षारशस्त्राग्निकर्माणि यथायोगं तु कारयेत् ॥
कषायतिक्तलवणैर्धावनालेपनानि च ।
तैरेव पक्वस्नेहस्तु म्रक्षणे सततं हितः ॥
लशुनानि हरिद्रे द्वे पिप्पल्यौ मरिचानि च ।
सर्षपान्गृ(न्यु)हधूमं चं गवां मूत्रेण पी(पे)षयेत् ॥
एतदालेपनं श्रेष्ठं चर्मकीलविनाशनम् ।
द्विव्रणीयोपचारेण व्रणांश्चातांश्च साधयेत् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चर्म-
कीलो नाम द्वाचत्वारिंशोऽध्यायः ॥ ४२ ॥
अथ त्रयश्चत्वारिंशोऽध्यायः ।
अतः परं प्रवक्ष्यामि वृद्धस्य परिरक्षणम् ।
वयोमध्यं व्यतिक्रान्ते वायुः श्लेष्मा प्रकुप्यति ॥
१ क. ॰पन्नैः । ए० । २ क. वा ।
३२
३५४ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
शोणितं चास्य पित्तं च तस्मादल्पतरं भवेत् ।
शोणितस्याल्पभावाच्च विवर्णपरुषच्छविः ॥
सर्वाङ्गशिथिलो भूप उत्साहश्चास्य हीयते ।
.... .... .... हीनभावस्य चिरेणास्य विपच्यते ॥
वातश्लेष्मविवृद्धौ तु न शक्तो भोक्तुं द्विपम् ।
दारुणं लभते व्याधिं जरामाहुर्मनीषिणः ॥
तस्योपयोगान्कुर्वन्ति स्थानं यवसभोजनम् ।
शय्याभागे मृदुं कुर्याद्दहत्तु सुसमाहितम् ॥
तत्र संस्थापयेच्चोक्ता यथाकालविभागशः ।
निर्वाणगमनाच्चैतं कारयेत समं तथा ॥
( ✱पांशुप्रमध्वरणं(?)सममेव निषेधयेत् ।
शिरोभ्यङ्गं च नागस्य गात्राभ्यङ्गं च कारयेत् ॥
मृदुगात्रापरो राजञ्शिरोदाहात्प्रमुच्यते । )
दापयेत्प्रतिपानं तु द्राक्षाद्रोणेन संयुतम् ॥
यथायोगप्रमाणेन दीप्यते ह्यनलस्तथा ।
यवसानि विचित्राणि रसं दुग्धं तथैव च ।
भोजनं च भिषग्दद्याद्यथोक्तं समुपाचरेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वृद्ध-
चिकित्सा नाम त्रयश्चत्वारिंशोऽध्यायः ॥ ४३ ॥
अथ चतुश्चत्वारिंशोऽध्यायः ।
अथाङ्गराजो रोमपादो भगवन्तं पालकाप्यमनलमिव दीप्यमानं पप्रच्छ—
भगवन्कथं मातङ्गजोऽवसन्नो भवति ॥
पालकाप्यो महाराजं .... .... .... .... .... .... .... ।
हेतुभिर्विविधैर्यस्मादवसीदति जीवितम् ॥
अवसन्नस्ततः साध्यो क्षणा(?) वाऽप्या व्यतिक्रमात् ॥
इह खलु भो ग्रामेऽरण्ये वा संनिहिताच्च(च)लविविधविध्वंसमहिमपतनशि-
शिरपवनपरिक्षीवनाद्वा म्रियते । अत्यर्थकर्मणाऽतिष्यापामात्, अध्वगमनात्,
✱ धनुराकारमध्यस्थो नैव पाठः कपुस्तके ॥
१ क ॰तरो म॰ । २ क. मृदू ।
प्रतिहस्त्यभिघातात्, ग्रामेऽत्यर्थबन्धनात्, विषमविरुद्धातिमात्रालपभोजनात्,
अनशनात्, अत्यशनात्, अत्यर्थस्नेहात्, रौक्ष्यात्, अभिघातात्, उपेक्षणाच्च
व्याधीनाम्, मूर्खवैद्यक्रियाभिश्चावसीदति, ग्राहेण वा स म्रियते । कफपवनरुधि-
रपित्तसंनिपातसंभवैर्व्याधिभिः, संग्रामे वा शरशक्तितोमरपरश्वधभिन्दिपालक-
णयकभ्यणखर्परखड्गमुशलमुसण्डिपरिघदीर्घासिगूलशस्त्राभिघाताद्वाऽवसीदति,
जरया च, इति ॥
अवसन्नानां च नागानां चिकित्सां संप्रयोजयेत् ।
सहसा व्याध्यभिहतः स्वयं वा परिणामितः ॥
अज्ञानान्निपतेन्नागो रूपे सुविषमेऽपि वा ।
अवसन्नमेतं विज्ञाय समन्तात्परिषेचयेत् ॥
द्वारशालां तृणं काष्ठं तुलां चैवास्य कारयेत् ।
उत्थापयेत्तु तं नागं सर्वयत्नेन बुद्धिमान् ॥
जलाशये यदि पतेत्पायेयु(?)रुदकं ततः ।
कूपे यदा पतेन्नागस्तत्र क्षिप्रं प्रपूरयेत् ॥
ततः शालां च पांशुं च तृणानि च समाक्षिपेत् ।
सर्पिः क्षीरं च पानार्थे सर्पिषा वाऽपि सेचनम् ॥
यवसानि विचित्राणि हरितानि मृदूनि च ।
फाणितेनातिसंयोज्य के(क)वलांस्तु प्रदापयेत् ॥
असंविभागादेतानि अवसन्नः पतेद्गजः ।
भारोन्मथितकायो वा निम्नगो वाऽपि सर्वशः ॥
अवसीदेद्गजो राजन्नृपाणामन*वेक्षयेत् ॥
तत्र श्लोकौ भवतः—
नागान्गृहीत्वा स्वयमेव राजा पश्यत्सदा पुत्रवदप्रमत्तः ।
वैद्यं पुरस्कृत्य च कारयेत यद्यस्ति कार्यं प्रतिकारयुक्तम् ॥ १ ॥
एते बलानां प्रबलाशत्रूणां महाबलोद्गच्छकरात्मसूताः ॥
इहैव चामुत्र च पूज्यमाना नागाः प्रयच्छन्ति नृपाय तुष्टिम् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
[L28
"? No, wait, look at 'ख. ०षाऽपि शतै०' in footnote - this is an edition from Anandashram Sanskrit Series (ASS) No. 26, "Hastyāyurveda" by Pālakāpya Muni!
Yes! Anandashram Sanskrit Series No. 26:
Page 262:
पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने-
अथ पञ्चचत्वारिंशोऽध्यायः।
अङ्गराजो महाप्राज्ञः पालकाप्यं स्म पृच्छति ।
व्याधिर्जठरको नाम जायते साध्यते कथम् ॥
लक्षणैर्लक्ष्यते वाऽपि कीदृशैर्द्विजसत्तम ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
व्यायामादतिरौक्ष्याच्च मारुतो जठराश्रितः ।
तस्माज्जठरको नाम व्याधिर्भवति हस्तिनः ॥
तमष्ठीलमिति प्राहुर्नरवैद्या नराधिप ।
विकारानृच्छति बहून्विष्करूपो हि मारुतः ॥
कदाचिन्मूत्रबस्तिस्थः कदाचित्पायुसंस्थितः ।
पक्वाशयस्थः कुक्षिस्यो दोषस्थानगतः क्वचित् ॥
क्षोभणं ग्रासविद्वेषी जठरस्य च गर्जनम् ।
त