हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 263, कुल 742 में से
संदर्भ में पढ़ें२५४ पालकाप्यमुनिविरचितो— [ ३ क्षुद्ररोगस्थाने
एतन्मे पृच्छतो ब्रूहि निर्मलेनान्तरात्मना ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
औष्ण्याद्वेगाभिघाताद्वा क्षाराम्ललवणाशनात् ।
श्रमाद्भयाद्वा तापाद्वा यथा वा रूक्षभोजनात् ॥
वायुः प्रकुपितोऽत्यर्थं बलासं(?)पित्तमेव च ।
प्रेरयन्कोपयेत्स्वांस्तंकृततन्तुः (?) समन्ततः ॥
पच्यन्ते तेन मांसानि तेन लुप्त इति स्मृतम् ।
वाद्यते ताड्यमानोऽसौ मृदङ्ग इव ताडितः ॥
लुप्ताभिभूतं मातङ्गं विज्ञायाऽऽशु प्रसाधयेत् ।
चतुर्णां क्षीरिणां क्वाथं मधुयुक्तं निषेवितम् ॥
पोत(थ)पेद्वा पचेद्वाऽस्य सक्षीरं लाजतर्पणम् ।
पथ्यं स्निग्धं च तत्सर्वं तमस्मै संप्रदापयेत् ॥
मयूरमृगमत्स्यानां वेसवारेण भोजयेत् ।
हरितं यवसंपन्नं सल्लकीं चसयारेपि(?) ॥
मनः प्रसाद्येत्तस्य तोमं(?)सुखं न पाययेत् ।
(† न चास्य मनसः किंचिद्व्याघातमुपकल्पयेत् ॥
शाल्योदनं ससर्पिष्कं भोजयेद्रससंयुतम् ।
मत्स्याण्डकाभिसंयुक्तं क्षीरं चास्मै प्रदापयेत् ॥ )
लुप्तादेवं विमुक्तस्य बलं तेजश्च वर्धयेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
लुप्तचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
अथाष्टात्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
भगवन्संग्रहे पूर्वं पत्रकृमिरुदाहृतः ॥ १ ॥
तस्योत्पत्तिं निदानं च भेषजं च ब्रवीहि मे ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
† धनुराकारस्थो नास्ति पाठः कंपुस्तके ॥
१ क. ॰पवस्या॰ । २ क. तामं ।