हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 269, कुल 742 में से
संदर्भ में पढ़ें३५४ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
शोणितं चास्य पित्तं च तस्मादल्पतरं भवेत् ।
शोणितस्याल्पभावाच्च विवर्णपरुषच्छविः ॥
सर्वाङ्गशिथिलो भूप उत्साहश्चास्य हीयते ।
.... .... .... हीनभावस्य चिरेणास्य विपच्यते ॥
वातश्लेष्मविवृद्धौ तु न शक्तो भोक्तुं द्विपम् ।
दारुणं लभते व्याधिं जरामाहुर्मनीषिणः ॥
तस्योपयोगान्कुर्वन्ति स्थानं यवसभोजनम् ।
शय्याभागे मृदुं कुर्याद्दहत्तु सुसमाहितम् ॥
तत्र संस्थापयेच्चोक्ता यथाकालविभागशः ।
निर्वाणगमनाच्चैतं कारयेत समं तथा ॥
( ✱पांशुप्रमध्वरणं(?)सममेव निषेधयेत् ।
शिरोभ्यङ्गं च नागस्य गात्राभ्यङ्गं च कारयेत् ॥
मृदुगात्रापरो राजञ्शिरोदाहात्प्रमुच्यते । )
दापयेत्प्रतिपानं तु द्राक्षाद्रोणेन संयुतम् ॥
यथायोगप्रमाणेन दीप्यते ह्यनलस्तथा ।
यवसानि विचित्राणि रसं दुग्धं तथैव च ।
भोजनं च भिषग्दद्याद्यथोक्तं समुपाचरेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वृद्ध-
चिकित्सा नाम त्रयश्चत्वारिंशोऽध्यायः ॥ ४३ ॥
अथ चतुश्चत्वारिंशोऽध्यायः ।
अथाङ्गराजो रोमपादो भगवन्तं पालकाप्यमनलमिव दीप्यमानं पप्रच्छ—
भगवन्कथं मातङ्गजोऽवसन्नो भवति ॥
पालकाप्यो महाराजं .... .... .... .... .... .... .... ।
हेतुभिर्विविधैर्यस्मादवसीदति जीवितम् ॥
अवसन्नस्ततः साध्यो क्षणा(?) वाऽप्या व्यतिक्रमात् ॥
इह खलु भो ग्रामेऽरण्ये वा संनिहिताच्च(च)लविविधविध्वंसमहिमपतनशि-
शिरपवनपरिक्षीवनाद्वा म्रियते । अत्यर्थकर्मणाऽतिष्यापामात्, अध्वगमनात्,
✱ धनुराकारमध्यस्थो नैव पाठः कपुस्तके ॥
१ क ॰तरो म॰ । २ क. मृदू ।