हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 256, कुल 742 में से
संदर्भ में पढ़ेंएकपक्षेण पतति भ्रमति मुह्यति वेपते कूजति मात्सर्यं यवसकवलकुवलपल्लव-
भोजनान्यभिनन्दति । न स्थानशय्यां वेदयते न यन्तारमभिगणयति । तमेनं
ग्रहपीडितं वारणमसाध्यं विद्यात् । वर्षस्थितमुन्मादमपस्मारं सात्मीभूतं दूरतः
परिवर्जयेत् । तौ वर्षपर्युषितौ न सिद्ध्येते । ये चान्ये वर्षग्रहागतास्ते याप्या
भवन्त्यसाध्या वा स्थिरमूलतया पर्युषिता ग्रहाः । अस्थिमज्जानुगताः शरी-
रस्था जलमध्ये तैलविन्दुरिव विस्तीर्यन्ते । तत्राऽऽदौ दुःखसाध्या ग्रहा भवन्ति ।
तस्माद्ग्रहेण गृहीतमात्र एव यः स तु कदाचित्सिद्ध्यतीति कृत्वा चिकित्सितं
व्याख्यास्यामः । तस्य बलिकर्मविधानमग्निकार्यं ततः सामान्ययज्ञेन वा शान्तिं
कुर्यात् । तत्र शालां पुष्पोपकीर्णां कृतोपलेपनां बलिहोमधूपगन्धप्रायश्चित्तैर्नि-
ष्कल्मषीकृतां सुरभिमनोज्ञसुसंवृतोपरां(?)द्रव्यौषधिसंयुक्तां ब्राह्मणस्वस्तिवा-
चनं कृत्वा वैद्यः शालां वारणं प्रवेशयेत् । ततो नागं ग्रहाविष्टं भिषग्यथोक्तैः
शास्त्रमेभिर्गुणैः संपन्नैर्वत्सलैर्जितक्रोधैः शुचिभिः प्रनतै(णते)ष्ठैरुपेतं विज्ञाय
भोक्तैः स्वगजपरिचारकैः परिगृह्य शालामानीय दक्षिणपक्षेणाऽऽलानयेत् ।१ सुयं-
त्रितं कृत्वा बलिहोमप्रायश्चित्तैः कर्मप्रवचनं कुर्यात् । ब्राह्मणं तर्पयेत् । गजं
पुरस्ताद्रक्षोघ्निघ्नानि च सामानि गाययेत् । ततस्तं भोजनस्न(त)स्नेहदेशा(हा)भ्यङ्ग-
विरेचनं येषां यूषरसाद्यैर्बृंहयेत् । ततस्तस्य प्रध्यायना(?)अनस्य कर्म धूपयेत्,
गोघृततैलवसाभिः संयोज्य नागाय ग्रहविनाशनं दद्यात् । तिलसिद्धार्थकपिचु-
(मन्द) नक्तमालपूतीकरञ्जैरण्डविभावकानां फलं तैलेषु संयोज्याभ्यञ्जनं दद्यात् ।
एतेषां बीजैः कल्कपिष्टैर्वारणं सशिरस्थमानस्खेभ्यो बह(ल)मत्रानुलेपयेत् ।
तं त्रिकटुकदेवदारुवचाकटुकरोहिणीहैमवतीचव्यपाठाहस्तिपिप्पलीचित्रकतु-
लसीपत्राणि यवलशुनफणिज्जकापामार्गफलैर्दन्तीसैन्धवभागार्त्वचं विडङ्गं
बृहतीफलानि समभागानि श्लक्ष्णचूर्णानि कृत्वा नस्यं प्रधमनं दद्यात् । एता-
न्योषधानि कल्कपिष्टानि कृत्वा नक्तमालमयूरोलूकनकुलगोजाविमहिषीणां
पित्तं संयोज्य नस्याभ्यञ्जनालेपनादि ग्रहविनाशनार्थं कुर्यात् । सर्वबीजानि सुपि-
ष्टानि कृत्वा यानि चान्यानि पेष्याणि तानि वैद्यः स्वेदावर्तनार्थं नागस्य
ग्रहविनाशनार्थं दद्यात् । पिचुमन्दमार्धतर्कीरीशोभाञ्जनकोत्तक्षककरञ्जश्लेष्मा-
न्तकानां पल्लवैर्ग्रहविनाशनार्थं स्वेदयेत् । द्विपञ्चमूलपलाशशतानि चत्वार्युदूखले
क्षोदयित्वा पानीये चतुर्गुणे क्वाथयेत् । ततः क्वाथं चतुर्भागावशेषमवतार्य परि-
श्रा(स्रा)व्य तेन क्वाथेन घृताढकं शतवार्षिकं पाचयेत् । तस्यालाभे द्वादशवा-
१ क. ॰ते । तं गाढं ग्र० । २ क. कृत्वा तां