हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 574, कुल 742 में से
संदर्भ में पढ़ें२ स्नेहपानविधिर्नामोध्यायः ] हस्त्यायुर्वेदः । ५५५
चतुर्विंशत्याढकं तु दापयेच्च कनीयसे ॥
सप्ताहं पाययेत्स्नेहमुत्तमाग्निं मतङ्गजम् ॥ ३९ ॥
मध्यमाग्निं च पञ्चाहं मन्दाग्निं त्र्यहमेव च ॥
विरिच्यते ततः सम्यक्कोष्ठोऽस्य विशुध्यति ॥ ४० ॥
एतत्स्नेहप्रमाणं तु विधिं चैव समाचरेत् ॥
विभागेन विधायान्नं रूक्षं भोजनमिष्यते ॥ ४१ ॥
स्नेहपृष्ठं तु पिबतो लवणं न प्रदापयेत् ॥
यस्यापि पिबतस्तैलं वारणस्य न जीर्यति ॥ ४२ ॥
तस्य विश्राम्य दातव्यं द्व्यहं वा त्र्यहमेव वा ॥
पिप्पलीशृङ्गीमरिचं सपञ्चलवणाप्लुतम् ॥ ४३ ॥
विश्राम्यैतस्य पिण्डं तु सायं प्रातः प्रदापयेत् ॥
तक्रं वातहरं चैव लवणांश्च प्रदापयेत् ॥ ४४ ॥
यथोक्तं पयसं चैव नानार्थेषु सुखोदकम् ॥
एवं जीर्णे तदा तैलमथायं पाययेत्पुनः ॥ ४५ ॥
अथास्याजीर्णतैलस्य लिङ्गानीमानि लक्षयेत् ॥
दाहं संजनयेच्चैव ग्लानिं मूर्च्छां च दन्तिनः ॥ ४६ ॥
तैलं वमति सश्लेष्म हृदयं चास्य पीड्यते ॥
वेपते श्वसिति स्थूलं मुखशोषश्च जायते ॥ ४७ ॥
भिन्नं चैव पुरीषं स्याद्रक्तमल्पं च मेहति ॥
स्नेहापराधजां प्रोक्तां क्रियां तस्य समाचरेत् ॥ ४८ ॥
लक्षणं जीर्यमाणे तु तैले वक्ष्याम्यतः परम् ॥
क्षिपत्युद्धूयते रेणुमङ्गं रदं च परिमार्जति ॥ ४९ ॥
विकारान्परिणामे तु कुरुते वारणो मुखे ॥
विजृम्भते विनमति तृष्णा चास्योपजायते ॥ ५० ॥
जीर्यमाणस्य विज्ञानं जीर्णे तोयं प्रदापयेत् ॥
अथेमं कल्पितं स्नेहं यवागूं प्रतिपाययेत् ॥ ५१ ॥
ईप्सितं परिणामेषु तैलं दद्यादुपोषितम् ॥
परं प्रमाणं वक्ष्यामि वदतां तद्विशेषवित् ॥ ५२ ॥
पञ्च सार्धाः स्मृताः श्रेष्ठे चतस्रो मध्यमे स्मृताः ॥
तिस्रः सार्धा अधमस्य इत्येष स्नेहनिर्णयः ॥ ५३ ॥