सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 573, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 573

५५४ पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने-
श्रावणे तैलपानं स्याद्भादौ भाद्रपदस्य च ॥
तैलमात्रा तु नागस्य मानवयस्तसंमता ॥ २४ ॥
उत्तमाधममध्यानां प्रदेया हस्तिनां भवेत् ॥
तैलं सृष्टे प्रदातव्यं कृशे सर्पिर्विधीयते ॥ २५ ॥
उरःक्षतानां भग्नानां वसा मज्जा च दापयेत् ॥
तैलस्याथ प्रवक्ष्यामि प्रयोगमत उत्तरम् ॥ २६ ॥
प्रतिपानं विशुद्धाय कवलेर्दीपिताय च ॥
प्रातरुत्थाय नागाय तैलपानं समाचरेत् ॥ २७ ॥
जीर्णेऽभ्यशं(स)स्यं देयं च ततस्तोपावगाहनम् ॥
स्नातपीतोदकं चैव निवाते स्थापयेत्ततः ॥ २८ ॥
यथोदितं च यवसं सस्यं दद्याद्विचक्षणः ॥
दिवा च स्नेहयोगेन ह्रासयेत्तस्य हस्तिनः ॥ २९ ॥
पीते चतुर्नालिक