हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 575, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 575
९५६ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने—
यदा पूर्णो भवेत्स्नेहः संसर्गं तस्य कारयेत् ॥
पञ्चाहं पाययेन्मण्डं भक्तं चास्मै प्रदापयेत् ॥ ५४ ॥
पञ्चाहं मुद्गमण्डस्य दद्याच्च पयसं लघु ॥
शृङ्गवेरघरा बलं निःस्नेहं लक्षणेन च ॥ ५५ ॥
चतुर्थांशं विधायास्तु वारं प्रतिभोजयेत् ।:
वर्धयेत्क्रमशश्चास्य मुद्गयूषेण भोजयेत् ॥ ५६ ॥
पिप्पलीशृङ्गवेराभ्यां पञ्चाङ्गेन सुसंस्कृताम् ॥
.दापयेत्क्रमशश्चास्मै संस्कृतं रसभोजनम् ॥ ५७ ॥
शालीनामोदनं दद्यात्सुस्विन्नं मृदुमेव च ॥
सुमोदकं च द्विग्धे स्नेहपीते प्रशस्यते ॥ ५८ ॥
भक्तं स्नेहं रसं क्षीरं क्रमयोगेन(क) वर्धयेत् ॥
पञ्चाह्नि पञ्च नागान्न त्रयहस्य प्रदापयेत् ॥ ५९ ॥