हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 456, कुल 742 में से
संदर्भ में पढ़ें९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । ४३७:
चतुर्विषाणांश्च गजान्द्विविषाणांस्तथैव च ॥
हस्तिनीनां प्रभावेण जायन्ते ते दिशां गजैः ॥ २१ ॥
प्रदक्षिणाश्च जायन्ते वारणाः पृथिवीपते ॥
द्विविषाणास्तु ये तत्र ग्रहणं यान्ति ते नृप ॥ २२ ॥
ते भवन्त्यु१त्तमा नागाः पूजिताः पृथिवीपते ॥
योगार्हास्ते महाराज च्छत्रार्हाश्चैव वारणाः ॥ २३ ॥
वारणा मधुपर्कार्हा मानार्हास्ते भवन्ति च ॥
ईदृशा येस्य मातङ्गाः सेवन्ते विषयान्नृप ॥ २४ ॥
पूजिता लक्षणैरेभिः स राजा त्वभिनन्दति ॥ ४२५ ॥
समुद्रवसनां कृत्स्नां सशैलवनकाननाम् ॥
चिरं च वसुधां या(पा)ति शत्रूंश्चाप्यधिगच्छति ॥ २६ ॥
बीजाव्युप्तानि रोहन्ति सुभिक्षं चैव जायते ॥
अनावृष्टिर्न भवति मनोहानिर्न चैव हि ॥ २७ ॥
नोपद्रवाः प्रधावन्ति व्याधयश्च महीयते ॥
यस्य राज्ञः पुरे देशे वाहनेष्वात्मजेषु च ॥ २८ ॥
आप्नुयाद्विपुलां लक्ष्मीं स राजा यत्र वारणः ॥
सर्वकामसमृद्धिश्च जायते नात्र संशयः ॥ ४२९ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
३गर्भावक्रान्तिर्नामाष्टमोऽध्यायः ॥ ८ ॥
अथ नवमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
गर्भः कथं संभवति संभूतः केन जीवति ॥ १ ॥
किं च प्रथमतस्त्वङ्गं गर्भस्थस्योपजायते ॥
किं ४मातॄजं शरीरे ☛ पितृजं वारणस्य किम् ॥ २ ॥
कति दन्ताः कति नखाः कति मर्माणि हस्तिनाम् ॥
कियन्मात्रं च रुधिरं पित्तं श्लेष्मा च मारुतः ॥ ३ ॥
वायुः कस्मिन्स्थितो देशे कस्मिन्पेशी च तिष्ठति ॥
क्व स्थितं रुधिरं चास्य पित्तं श्लेष्मा च दन्तिनः ॥ ४ ॥
१ क. ०न्त्युपमा । २ क. ये च । ३ क. गर्भविक्रा० । ४ क. मातृकं ।