हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 229, कुल 742 में से
संदर्भ में पढ़ें२१० पालकाप्यमुनिविरचितो- [ २ क्षुद्ररोगस्थाने-
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
मेढ्रक्षाणीं शृणु मया प्रोच्यमानं नृपोत्तम ॥ ३ ॥
आगन्तुर्दोषजो वाऽपि मेढ्रक्षाणी प्रजायते ।
मेढ्रक्षाणीति तत्राऽऽहुः क्षपणात्क्षरणात्कृतम् ॥ ४ ॥
एष प्राणहरो व्याधिर्भवत्येवमुपेक्षणात् ॥
तस्माद्यत्नेन संजातं चिकित्सितुमुपक्रमेत् ॥ ५ ॥
प्रवृष्टमेढ्रो हर्षेण धेनुकासमभिद्रुतः ॥
(?)अमुक्ते वा(*मवापी तु) वार्यते यदि रेतसि ॥ ६ ॥
अथवा मेढ्रमुद्यम्य धेनुकामभिधावतः ॥
स्थाण्वश्मलोष्टवल्लीषु निर्घातोदपरासु¹ चं² ॥ ७ ॥
समाने॑पति ....³ वालुकाजलपांशुभिः ॥
राजदण्डेन वा मेढ्रं तृणैर्वाऽप्यपचारकात् ॥ ८ ॥
मत्तस्य वा प्रस्रवतः क्लिन्नमूत्रेण पच्यते ॥
रक्तपित्तकफैर्वाऽपि दुष्टैर्वाऽपि समन्वितः ॥ ९ ॥
अभिघाताद्रणे⁴ वाऽस्य नीलं वा रक्तमेव वा ॥
शूनं सवेदनं सोष्णं संहर्तुं न च शक्यते ॥ १० ॥
सर्वं वाऽप्येकदेशं वा शून्यं भवति नाहितम् ॥
( †स्फुटिता)स्फुटितं वाऽपि व्रणे वा तत्र दृश्यते ॥ ११ ॥
रेतसो निग्रहान्मेढ्रेऽपिटकाग्रन्थयोरपि ॥
वाह्यते पीड्यते वाऽपि मूत्रं वा न प्रवर्तते ॥ १२ ॥
मुक्तं वा प्रस्रवेन्नित्यं श्याववर्णं च दृश्यते ॥
दोषधातुप्रकोपेन निदानं ब्रुवतः शृणु ॥ १३ ॥
विवर्णमुष्णनीलं च पीतं पित्तेन जायते ॥
(*ताम्रं सवेदनं सोष्णं कोपाद्रक्तस्य जायते ॥ १४ ॥ )
शूनं वाऽप्यरुणं वाऽपि कफेन कठिनं भवेत् ॥
शीतस्निग्धं च शूनं च विस्रं वाऽत्यर्थवेदनम् ॥ १५ ॥
- खपुस्तके नास्ति पाठोऽयम् ॥
† खपुस्तके नास्ति । * कपुस्तके नास्ति पाठो धनुश्चिह्नीयमध्यगः ।
१ ख. ॰र्घातदेयप॰ । २ ख. वा । ३ क. ॰नजल....॰ । ४ क. ॰भिघातव्रणे ।
५ क. विस्राव्वात्य॰ ।