सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 141, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 141

१२२ पालकाप्यमुनिविरचितो— [१ महारोगस्थाने-
स्तिलपिष्टलवणसंयुक्तैर्नाडीस्वेदं कुर्यात् । एतेषामेवास्थिभिरस्थिस्वेदः, पुरीषैः
पुरीषस्वेदः । सर्वश्वयथूनां चोपशमनायास्थिमांसशकृत्स्वेदाः प्रदातव्याः ।
पित्तशोणितात्मकेन प्रयोज्याः पर्यवसाने वा प्रयोक्तव्याः ॥
तत्र श्लोकौ—
इति व्याधिप्रशमनाः सर्वेषां हस्तिनां हिताः ।
अस्थिमांसशकृत्स्वेदा मूत्रस्वेदाश्च कीर्तिताः ॥
वृषणौ हृदयं नेत्रे स्वेदयेन्मृदु वा न वा ।
नित्यसूक्ष्मपरीतानि स्थानान्येतानि १तेजसः ॥
भूयः स्विन्नशरीरस्य हरिद्राजमोदकुष्ठवचालशुनसैन्धवपिप्पलीमरिचबिल्व-
मृद्धीकाशतपुष्पादेवदारुपृथ्वीकोभिर्दधिमस्तुपिष्टाभिः सततं वातशोफमनुलेपनं
कारयेत् । पूर्वाह्णे चैनं बिल्वाग्निमन्थश्रीपर्णीवरुणकपाटलातिर्यूहपक्वं तृ(त्रि)-
वृत्तस्नेहं पाययेत् । जीर्णे स्नेहे चास्य जाङ्गलं मृदु ३हरितं यवसमुपहरेत् । शाल्यो-
दनं चैनं भोजयेत् । भोजनार्थमपि चास्य मत्स्यमांसं सुसंस्कृतं दापयेत् ।
वाराहं वा रसं युक्ताम्ललवणस्नेहं दद्यात् । रसं वा कौलत्थं युक्तस्नेहलवणं
दद्यात् । करीषेणं चास्य शट्याभागं प्रकल्पयेत् ॥
तत्र श्लोकः—
एतेन क्रमयोगेन श्वयथुं पवनात्मकम् ।
साधयेत्कुशलो वैद्यो दृष्टकर्मा विचक्षणः ॥
इति वातशोफः ॥
अथाम्ललवणकटुकविदग्धातिभोजनादुष्णोपयोगेभ्यः पित्तं प्रकुपितं शोफ-
मुष्णं *महातमः पादयति ॥
स पाण्डुरुष्णगात्रः शूनश्च भवति वारणः सर्वाङ्गाणि चास्य दोषधातुमत्को-
पात्प्रभिद्यन्ते, तेन वेदनात मूहुर्मुहुर्मुखं व्याददाति स्तम्भमाश्रयति श्वसिति
परिधमति वमथुं हस्तेन गृहीत्वा श्वयथुमभिषिञ्चति वमति, न स्थानशय्यासु
शर्मोपगच्छति । परिदुर्मना यवसकवलकुवलभोजनं च नाभिनन्दति । दह्यते
चात्यर्थम् । स दह्यमानः स्थानान्यन्यानि गच्छति सलिलाभिकाङ्क्षी, कर्ण-
तालाभ्यां मन्दं ४परिबीजति शीतमभिनन्दति, उष्णद्वेषी रात्रौ सुखनिद्रश्च
भवति ॥
तस्मै त्रिफलायुक्तं सर्पिष्पानं दद्यात् । प्रपौण्डरीकलशुनोरुबूकहंसपाद्यति-
* 'मुष्णं महान्तं संपादयति' इति पाठः स्यात् ॥
१ क. तेजसा । २ क. ॰कादिभि॰ । ३ क. रहितं । ४ क. परिचीयते ।