हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 113, कुल 742 में से
संदर्भ में पढ़ेंस दुर्मनाः, अतिपीड्यमानहृदयो भोक्तुं नेच्छति, गम्भीरवेदी मन्दाग्निरप्रसृ-
ष्टमूत्रपुरीषो निषीदति शीतेच्छुः, स्वप्नभूयिष्ठः शय्याभिनन्दी ध्यायत्यानद्ध-
कुक्षिः, प्रवेपते ।
ततोऽस्मै वटप्ररोहाणां शाकवल्लीगुडूचीक्षुण्णानां मधुमिश्रान्कवलान्द-
द्यात् । जम्बुशल्लक्यर्जुनानां किश(स)लयानि मधुयुक्तानि भोजयेत् । कषायवृ-
क्षाणां सक्षौद्रान्कवलान्भोजयेत् । यवधोमानां मधुसंयुक्तान्कवलान्दापयेत् ।
अथवा दृष्टमूत्रपुरीषेऽवसीदन्म्रापः शीताभि(ः) नन्दी वा भवति । तं सक्षीरपिप्प-
लीकं मुद्गयूषं पाययेत् । तेनैव चैनं भोजयेन्मृदुशाल्योदनमिति ।
इति स्नेहमूर्च्छा ॥
अनशनात्यशनविषमाशनाध्यशनैर्धान्यपवससलिलेर्त्तूनां विपर्यासादकस्माद्वा
कुप्यति पवनः । स जनयति मूर्छाम् ॥
अथानेन प्रतिहतगतिस्तिर्यगूर्ध्वं चोत्पतति, हृदयमवपीडयति, शूलमुपजन-
यति, उदरमाध्मापयति, स वेदनार्तः सर्वेभ्यः सत्त्वेभ्यः कुप्यति, छिन्नपातं च
पतति, वृक्षतटभित्तिप्राकारादीन्हन्तुमिच्छति ॥
तं प्राचीनबन्धंसंयुक्तं सर्वगन्धैः सहिङ्गुपवघृतैर्धूपयेतं । वरुणबिल्वातिविषा-
हिङ्गुपत्रीलशुनवचाः संक्षुद्य बिल्वपत्राणि ध परिक्षिप्य कवलान्दापयेत् । भूयश्च
हिङ्गुसौवर्चलसर्षपपिप्पलीः क्षोर्दापत्वा कवलान्दद्यात् । उष्णोदकं च पाययेत् ।
पञ्चलवणसंयुक्तां च सुरां दद्यात् । मुद्गकुलत्थयोः पञ्चमूलयोर्द्वयोर्यूषं कुक्कुटर-
ससंयुक्तं पाययेत् । ततः स्वस्थो भवति ॥
इति वातमूर्च्छा ॥
उष्णाध्वगमनादुष्णसलिलपानादतिमात्रलवणोपयोगाद्विषमविरुद्धविदग्ध-
भोजनात्, अम्लोष्णतीक्ष्णोपयोगात्पित्तं प्रकुपितं मूर्छां जनयति ॥
स पाण्डुवर्णः, परिदह्यते संतप्ताङ्गः, पतति भ्रमांत श्वसिति वेपते भृशमस्व-
स्थशरीरः ॥
तं प्रभूतेन शीतसलिलेन सेचयेत् । छायास्थं तालवृन्तैर्वीजयेत् । यवलाज-
धैरागतर्पणं च प्रभूतशर्करं पाययेत् । इक्षुवालिकेशुरकैर्मत्स्यण्डिकायुक्तान्कव-
लान्दद्यात् । हरिद्रेन्द्रयवनिम्बपत्रामलकानि फाणितसंयुक्तान्कवलान्दद्यात् ।
१ क. °प्रमृष्ट°। २ क. °न्दी ध्माय°। ३ क. जम्बूश°। ४ ग. °धान्यान्मधु°।
५ ख. तं क्षारपि°। ६ क. °लवर्तिनां विपर्ययाद्°। ७ क. स जयति मूर्च्छाऽभिधाने°।
८ क. ते प्राची तं ब°। ९ क. °त्। वि°। १० ख. परिक्षिप्त्वा ।