हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
१३] हम्मीरस्वर्गगमनवर्णनम् १२३
प्राणानपि मुमुक्षामो वयमात्मक्षितेः कृते ।
क्षत्रियाणामयं धर्मो न युगांतेपि नश्वरः ॥ १४९ ॥ -
स एव क्षत्रियः प्राणां-तेपि यो हुंकृतौ क्षमः ।
कि नोदाह्रियते व्यक्त मिह राजा सुयोधनः ॥ १५० ॥ -
यूयं वैदेशिकास्तद्वः स्थातुं युक्तं न सापदि ।
यियासा यत्र कुत्रापि ब्रूत तत्र नयामि यत् ॥ १५१ ॥
नृपस्य वचसा तेन प्रासेनेव हतो हृदि ।
मूर्छया प्रपतन्मुच्चै रवष्टब्ध इव क्रुधा ॥ १५२ ॥
एवमस्त्विति जल्पाको महिमाभ्येत्य मंदिरं ।
कुटुंबमसिसात्कृत्वा नृपं गत्वेदमब्रवीत् ॥ १५३ ॥
पाणिगृहीती त्वद्भातु र्गंतुमुत्कंठिताप्यसौ ।
इलाविलासिनी कांतं मामाहेति सगद्गदं ॥ १५४ ॥
कातैतावंति वर्षाणि तस्थिवांसो यदोकसि ।
अप्यात्मानुभवं नैवा स्माष्मं शत्रुपराभवं ॥ १५५ ॥
यस्य प्रसादैः संप्राप्त—सौख्यलक्षैर्निरंतरं ।
अबोधि नापि तिग्मांशुरुदितोस्तमितोपि वा ॥ १५६ ॥ -
तमिदानीमदृष्ट्वैव यद्येवं नाथ गम्यते ।
पश्चात्तापहृतं तर्हि मनः केनोपशाम्यति ॥ १५७ ॥
प्रसाद्यागत्य तत्सद्यो मंदिरं मेदिनीपते ।
स्वदर्शनामृतैः पश्चा तापतप्तां निर्षिंचतां ॥ १५८ ॥
एवमभ्यर्थितस्तेन महिमासाहिना विभुः ।
आलंब्य तद्भुजादंडं सादरं सानुजोचलत् ॥ १५९ ॥ -
आसाद्य तद्गृहं भूपो यावदंतर्विशत्यसौ ।
कुरुक्षेत्रमिवाद्राक्षी त्तावत्सर्वं तदंगणं ॥ १६० ॥ -
अस्रक्पूरे शिरांसीह शिशूनां योषितामपि ।
तरंत्यवेक्ष्य मूर्च्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥ १६१ ॥ -
१२४ श्रीहम्मीरमहाकाव्ये [सर्गः
बंधूनां वीरमादीनां विमूर्छोत्थाश्रुसेवनैः ।
लगित्वा महिमासाहेः कंठे व्यलपदित्यसौ ॥ १६२
हा कंबोजकुलाधार हा कीर्तिकुलमंदिर ।
हानन्यजन्यसौजन्य हा धन्यतमविक्रम ॥ १६३ ॥
हा क्षत्रैकव्रतागार हा विश्वजनवत्सल ।
कथंकारं भविष्यामि प्राणदोप्यनृणस्तव ॥ १६४ ॥
मत्तो नैवाधमः कोपि त्वत्तो नैवोत्तमः परः ।
अद्यायं मंदधी स्तादृग्दृग्प्रेम्ण्यपि यत्त्वयि ॥ १६५ ॥
प्रातिकूल्याद्विधेर्जाता ममेयं यदि दुर्मतिः ।
आश्चक्रियेतत्तत् किं त्वं यदा भाव्यं हि नान्यथा ॥ १६६ ॥
पुमानात्महितं कर्तुं धियं—त्यनेकधा ।
सा सतीव पतिं क्वापि भवितव्यं जहाति न ॥ १६७ ॥
अन्यथैव विचार्यंते पुरुषेण मनोरथाः ।
दैवादाहितसद्भावा कार्याणामन्यथा गतिः ॥ १६८ ॥
विनिवृत्तस्ततो मान मन्नमालोक्य कोष्ठगं ।
किमेतदिति पप्रच्छ जाहडं जगतीपतिः ॥ १६९ ॥
उक्तायामथ तेनात्म-बुद्धौ प्रोवाच पार्थिवः ।
खन्मतौ पतताद्वज्रं यया जज्ञे कुलक्षयः ॥ १७० ॥
ततः प्रदाय पौराणां मुक्तिद्वारं स युक्तिवित् ।
प्रवेष्टुं ज्वलने शिष्टमतिरादिष्टवान् प्रियाः ॥ १७१ ॥
स्वयं च कृतदानादि-धर्मोऽर्चितजनार्दनः ।
क्षणं पद्मसरस्तीरे निषसाद विषादमुक् ॥ १७२ ॥
आरंगदेविप्रमुखो अथ ता दिव्यभूषणाः ।
तत्र स्नात्वा नृपं नत्वा तस्थुरूर्ध्वदमाः पुरः ॥ १७३ ॥
कस्याश्चित् कर्णयोः स्वर्ण—कुंडले रेजतुस्तमां ।
चक्रे इव जगज्जैत्रे रतितत्प्राणनाथयोः ॥ १७४ ॥
१३] हम्मीरराजस्वर्गगमनम् १२५
बभौ परस्याः कस्तूरी--तिलकं कलिकाकृति ।
स्मरेण त्रिदिवं जेतुं संहितं धनुषीष्विव ॥ १७५ ॥
नासावंशाग्रतोऽन्यस्या मुक्तं मुक्ताफलं बभौ ।
तिलपुष्पायतो यस्या वारिबिंदुरिव स्फुरन् ॥ १७६ ॥
कस्याश्चिदुरसि स्फारा मुक्ताहारलता बभौ ।
वितता हासधारेव निर्याता सृक्किणीद्वयात् ॥ १७७ ॥
रेणुसंगभयात्काम--स्पंदनांगमिवावृतं ।
बभौ नीलदुकूलेन कस्याश्चिच्छ्रोणिमंडलं ॥ १७८ ॥
करद्वयांगुलीयानां मयूखैर्वृत्तवर्तिभिः ।
परीता हरिचापाभ्या मिव काचिदराजत ॥ १७९ ॥
आच्छिद्याहितचक्रांग--याननाशभयादिव ।
रेजे नियंत्रणान्यस्याः पादयोनूपुरच्छलात् ॥ १८० ॥
ततस्तुष्टो नृपश्चिह्नं कबरीं स्वां वरीयसीं ।
मूर्त्तशृंगारसर्वस्व मिव तासां व्यशिश्रणत् ॥ १८१ ॥
पुत्रीं देवलदेवीं च दोर्भ्यामालिग्य निर्भरं ।
नितरां निःश्वसन् क्रंदन् कष्टेन महता जहौ १८२ ॥
ऊचे च चेद्भवेत्पुत्री भूयात्तर्हि भवादृशी ।
परां कोटिं ययानायि गौर्येव जनको निजः ॥ १८३ ॥
स्वर्न्नारीस्पृहलुब्धोऽसौ यदि न स्वीकरोति नः ।
तदास्मै प्राक् प्रतीत्यर्थ मिमां दर्शयितास्महे ॥ १८४ ॥
इति ध्यात्वेव तां वेणीं हृदि विन्यस्य सुभ्रुवः ।
ज्वलद्धनंजयज्वाला--करालां प्राविशंश्चितां ॥ १८५ ॥
स्वःस्त्रीरूपवशीकृतो यदि कदाप्यस्मानयं स्वप्रियाः
स्वीकर्त्ता न तदा प्रतीतिमनयास्योत्पादयिष्यामहे ।
ध्यात्वेवेति निधाय तां स्वहृदये वेणिं विभोस्ता ज्वलत्-
श्रीखंडागरुसारचंदनचितां सद्योप्यविशंश्चितां ॥ १८६ ॥
१२६ श्रीहम्मीरमहाकाव्ये [सर्ग
विसृष्टौल्यांजलीन् तासां दत्वा जाजः सभूबुजा ।
अगात् छित्त्वा द्रुतं क्षित्वा—ष्टरुयेकां गजमस्तकः ॥ १८७ ॥
किमेतदिति राज्ञोक्ते सोऽवक्राजन् यथा पुरा ।
रावणः शंभुमानर्च तथाहमर्चयाम्यहं ॥ १८८ ॥
तच्छिरांसि नवैतानि रक्षोहस्तपदे पुनः ।
शिरो ममेदमित्युक्त्वा स्वं च शीर्षमदीदृशत् ॥ १८९ ॥
राज्यार्थी सोदरं हित्वा वीरमः स्थितवानिति ।
जनापवादभीतेन वीरमेण तिरस्कृतं ॥ १९० ॥
वितीर्य जाजदेवाय ततो राज्यं मुदा नृपः ।
द्रव्यं क्व निक्षिपामीति चिंतयन् निद्रयादृतः ॥ १९१ ॥
तदा पद्मसरः स्वप्ने ऽभ्येत्य भूपमदो वदत् ।
म्लेंच्छा धनं मयि क्षिप्तं लप्स्यंते नाप्यसुव्यये ॥ १९२ ॥
सर्वेऽपि रतिपालाद्या नीचा द्रोहमयासिषुः ।
एते भटा अहं दुर्गस्तुभ्यं द्रुह्यांति नो पुनः ॥ १९३ ॥
अथापनिद्रभूपाला—देशात्सर्वं स जाहडः ।
प्रक्षिप्य सारं कासारे तमूचे किं करोम्यहं ॥ १९४ ॥
उक्तो निदेशं देहीति श्रीहम्मीरेण वीरमः ।
कूष्मांडवच्छिरस्तस्य छित्त्वा भूमौ व्यलोडयत् ॥ १९५ ॥
अथ श्रावणमासस्य सितषष्ठ्यां रवौ निशि ।
दिवि कीर्तिं कलंतीं स्वां विलोकितुमिवोत्सुकः ॥ १९६ ॥
अहंकारैरिवाध्यक्षै मूर्त्तेर्वीररसैरिव ।
अन्वितो नवभिर्वीरै रणं शिश्राय पार्थिवः ॥ १९७ ॥
आगाद्धम्मीर इत्युक्ति—श्रुत्या व्यंजितविक्रमः ।
ससैन्यः शकराज्ञोऽपि भेजे तत्राभ्यमित्रतां ॥ १९८ ॥
एकस्तस्य नृपस्याग्रे वीरमौलिः स वीरमः ।
बभौ चंपाधिपः प्रौढः कौरवाधिपतेरिव ॥ १९९ ॥
१३] हम्मीरराजस्वर्गगमनम् १२७
विशिखान् विकिरन् भूरीन् ध्वानयंश्चापमंडलं ।
क्षणात्स वीरकोटीरो व्याकुलं द्विद्कुलं व्यधात् ॥ २०० ॥
श्वेडानादैर्द्विषच्चक्रं त्रासयन्नेणयूथवत् ।
सिंहः सिंह इवाध्यक्षो जघ्ने यन्नेत्र वैरिणां ॥ २०१ ॥
नयन्नग्निशिरोल्काभिः प्रतिवीराननंगतां ।
टाको गंगाधरः स्वाख्यां सत्याख्यामिह तेनिवान् ॥ २०२ ॥
चबारोपि व्यराजंत मुद्गलास्ते स्फुरद्बलाः ।
चतुरंगमपि द्वेषि—बलं जेतुमिवोद्यताः ॥ २०३ ॥
परान् परः शतान् प्रेत—पतेरतिथितां नयन् ।
परमारान्वयं चक्रे क्षेत्रसिंहोत्र सार्थकं ॥ २०४ ॥
रिपुप्राणापहाराय दंडभृत् दूतिकास्रिव ।
श्वेडासु वीरैर्मुक्तासु चकितं दधिरे शकाः ॥ २०५ ॥
सा कीदृगस्ति स्वःश्री यां नृपः परिणिनीषते ।
इति द्रष्टुमिवायासीद्वीरमः प्राग् नृपात् दिवं ॥ १०६ ॥
वीराः परेपि हम्मीरा निर्विण्णा इव जीविते ।
प्रभोः पूर्वं ययुः स्वर्गं स्थितिरेषा भुजाभृतां ॥ २०७ ॥
मूर्च्छितं महिमासाहिं विभाव्य रिपुपत्रिभिः ।
युद्धाय स्वयमुत्तस्था—वय हम्मीरभूपतिः २०८ ॥
अतिधारानिपुनस्य वर्षतः शुचिनाऽमुना ।
शंके द्वेषो भवेन्नोचे त्कथमस्यायमंतकृत् ॥ २०९ ॥
संयत्सेकोपि हम्मीरः परो लक्षलमाश्रयन् ।
व्योमासिक्तैर्द्विद्वक्त्रैः पद्माकरमिवाकरोत् ॥ २१० ॥
हम्मीराग्निशरश्रेणिपरीताः परितः शकाः ।
अमंसत प्रविष्टं स्वं मंडलं चंडदीधितेः ॥ २११ ॥
एकोप्यसौ जिगायाशु प्रभूतानपि वैरिणः ।
एणव्यूहं जयन् सिंहः किं सहायमपेक्षते ॥ २१२ ॥
श्रीहम्मीरमहाकाव्ये [सर्गः
निषादी पदगः सादी रथी वा यो यथाऽमुना ।
निहतः स तथैवास्थात् चित्रन्यस्त इवोच्चकैः ॥ २१३ ॥
वरीवर्षन् शरासारै स्तपालयपयोदवत् ।
नृपः कदर्थयामास वक्त्रांभोजानि वैरिणां ॥ २१४ ॥
भृशं शरप्रपातेना-कुलयन्मत्तवारणं ।
तदारोदुश्च तस्यापि मदं स उदतीतरत् ॥ २१५ ॥
रतिपालंवदेतेपि जाता इत्यपवादतः ।
भीता इवास्याराख्यंगं भित्वा दूरं ययुः शराः ॥ २१६ ॥
अयर्जुनं धनुर्विद्यावेदिनामपि विद्विषां ।
कोदंडस्थं करस्थं च गुणं चिच्छेद पार्थिवः ॥ २१७ ॥
धनुर्गुणटणत्कार-श्रुत्यैव त्यक्तजीविताः ।
द्विषो नान्वभवंस्तस्य शरप्रहरणव्यथां ॥ २१८ ॥
नृपेण मध्यतश्छिन्ने भूगताग्रैर्द्विषच्छिरैः ।
रणांगणमभाल्लून-तिलक्षेत्रमिवातंकं ॥ २१९ ॥
शरौघान् क्षिपतस्तस्य शकराजवरूथिनी ।
वसुहीनस्य वेश्येव क्षणेनासीत्पराङ्मुखी ॥ २२० ॥
नृपः कांश्चिद्दुरःपूरं पूरयामास सायकैः ।
दूर्वालावं लुलाबोच्चैः कांश्चित्खङ्गेन मध्यतः ॥ २२१ ॥
वीरोसौ समरेऽरीणां तथात्र कदनं व्यधात् ।
यथामीभिर्यमस्यापि संकीर्णमभवद्गृहं ॥ २२२ ॥
सध्वजान् खंडयन् दंडान् व्यध्यन्नश्वांन् ससादिनः ।
द्विधापि विग्रहं भिन्दन् सोऽरेश्चक्रे चिरं रणं ॥ २२३ ॥
अतिधारानिषून्वर्षन् रिपुक्षेत्रेषु भूरिषु ।
चाक्षुषः श्रावणो जज्ञे चित्रं हम्मीरभूपतिः ॥ २४ ॥
श्रीहम्मीरोथ वीरव्रजमुकुटमणिम्लेंच्छबाणप्रहारैः
सर्वांगेषु प्ररूढैः क्षितितलमभितो भावितो भीष्मकर्मा ।
१३] -हम्मीरराजस्वर्गगमनम् १२९
जीवंतं ग्राहिषुर्मां कचिदपि यवना मामिति ध्यातबुद्धिः
कंठं छित्वात्मनैव स्वमटति च दिवं स्मात्तसूरातिथित्वः ॥ २२५ ॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर-
महाकाव्ये वीरांक हम्मीरस्वर्गगमनवर्णनो नाम त्रयोदशः सर्गः ॥ १३ ॥
अथांतिमश्चतुर्दशः सर्गः
तादृक्षस्य विभोरय प्रतिभटत्रासैकदीक्षागुरो-
र्हम्मीरावनिवासवस्य जगतीलोकं पृणप्रोन्नतिं ।
श्रुत्वा केचन केचनापि सुतरामाकर्ण्य मृत्युं बुधा-
श्चक्रुः काव्यपरंपरामिति तदा कष्टैकमुष्टिधियाः ॥ १ ॥
धर्मः शर्मपदं मुमोच करुणारण्यं शरण्यं यथा
चौदार्यं विजगाल बालललितं शिश्रीय वीरव्रतं ।
नीतिर्भीतिमुपाजगाम कमला वैधव्यमुद्रां दधौ
श्रीहम्मीर नृपालभालतिलक स्वर्गे गतेऽद्य त्वयि ॥ २ ॥
भूदेवानिदमादिकांचनचयैः कः पूजयिष्यत्यहो
को वा नाम करिष्यति प्रतिपदं षट्दर्शनोपासनां ।
को वा पास्यति गोकुलं शककुलैराहन्यमानं रुषाऽ
स्माकं का गतिरस्तु निस्तुषमते हम्मीर हा त्वां विना ॥ ३ ॥
गीर्वाणद्रुमधेनुकुंभमणयः काले कराले कलौ
नैव क्वापि किल स्फुरंति धरणावेवं यदाहुर्बुधाः ।
तत्सर्वं निरवद्यमेव नितमां मन्यामहे सांप्रतं
श्रीहम्मीर महीमहेंद्र भवति प्राप्ते यशःशेषतां ॥ ४ ॥
पाताले भुजंगेश्वराः सुमनसां व्यूहाः सुपर्वालये
पुष्पौघाः प्रतिकाननं प्रतिसरस्ते राजहंसादयः ।
एणाक्ष्यः प्रतिमंदिरं प्रतिपुरं प्रेमातुरा नागराः
शोचंत्येक महो हमीरनृपतिं हाहा त्रिलोकीपतिं ॥ ५ ॥
17 k
१३०
श्रीहम्मीरमहाकाव्ये
[स०
धैर्यं मेरुगिरिं मतिः सुरगुरुं गंभीरता सागरं
सौम्यत्वं शशिनं प्रतापसरणिः सूरं हरिं शूरता ।
चिंता रत्नमुदारता सुभगता शिश्राय कामं क्षणात्
हम्मीरे सुरसुंदरीस्तनमहाशैलस्खलच्चक्षुषि ॥ ६ ॥
किं कुर्वीमहि किं ब्रवीमहि विभुं कं चानुरुंधीमहि
व्याचक्षीमहि किं स्वदुःखमसमं कं वा बभाषेमहि ।
यन्निःकारणदारुणेन विधिना तादृग्गुणैकाकरं
हम्मीरं हरताऽञ्जसा हृतमहो सर्वस्वमेवावनेः ॥ ७ ॥
लक्ष्मीर्याति ससत्वरं मुररिपोर्देवस्य वक्षस्थले
वीरश्रीरपि वीरवेश्मनि हरे स्तास्ताः समस्ताः कलाः ।
पौलोमीकुचकुंभपत्ररचनाचातुर्य्यचिंतामणौ
श्रीहम्मीर नरेश्वर त्वयि निराधारा हहा भारती ॥ ८ ॥
संति क्षोणिभुजः क्षितौ कति न ते ये स्वाप्रियाप्रीतये
वाहं वाहमनैकवाहनिवहान् प्रौढिं दृढां तन्वते ।
म्लेंच्छा तुच्छकिरीटकोटिघटनैर्यो दंतुरं सत्वरं
चक्राणः क्षितिमंडलं स तु परं हम्मीर एकः कलौ ॥ ९ ॥
एधंतां प्रबलैर्बलैः स्वबिरुदान्ध्यापयंतां जनान्
गाहंतां नयवर्त्म मध्यमसमं स्फीतां वहंतां मुदं ।
बाधंतां युधि बाहुजेशतिकरान् प्रौढिं भजंतां तमां
एकस्मिंस्त्वयि वीर नाक मयिते स्वैरं वराकाः शकाः ॥ १० ॥
भोक्तुं धांक्षमियेष विक्रमविभुः पंगुः स जैत्रो जले
मज्जद्रागमलैयणराट्रिपुपुरो मार्दगिकत्वं दधौ ।
इत्थं स्वंस्म विडंबयंति कतिनो हम्मीरराजन् परं
यत्त्वं चक्रिथ तच्चकार कुरुते कर्त्ताथवा कः कलौ ॥ ११ ॥
संध्यावंदनकर्मकर्मठधियो माद्यन्मराला इवा-
मज्जन् पद्मसरोवरे श्रितमुदो यत्रानिशं वाडवाः ।
] हम्मीरराजवर्णनम् १३१
निःशंकं यवना विगंधिवसनास्तत्र प्रविश्याधुना
कूर्दंते महिषा इव क्षितिफ्ते हम्मीर हा त्वां विना ॥ १२ ॥
ईदृक्षं नरमौलिमंडनमणिं हत्वा हहा हेलया
दुःसाधं यदसाधि नाम भवता धातस्तदाचक्षतां ।
नीचानां यदि चेदृशी स्थितिरहो यत्ते प्रयोगं विना-
प्यन्येषां हितवस्तुराहृतिविधौ शश्वद्यतंतेतमां ॥ १३ ॥
नेत्रे निष्फलतां नितांतबधिरीभावं भजेतां श्रुती
नो कार्यं युवयोरतःपरमहो किंचित् काचिद्गल्हति ।
याभ्यामेष समीक्षितो गुणगणस्तस्याथ वा संश्रुतो
लज्जेतामितरं हहा किमु न ते श्रोतुं तथा वीक्षितुं ॥ १४ ॥
लोको मूढतया प्रजल्पतुतमां यच्चाहमानः प्रभुः
श्रीहम्मीरनरेश्वरः स्वरगमत् विश्वैकसाधारणः ।
तत्त्वज्ञत्वमुपेत्य किंचन वयं ब्रूमस्तमां स क्षितौ
जीवन्नेव विलोक्यते प्रतिपदं स्तैस्तैर्निजैर्विक्रमैः ॥ १५ ॥
धिग्धिक् त्वां रतिपाल याहि विलयं श्रीसूरवंशाधम
द्राग्वक्त्रं रणमल्ल कृष्णय निजं पापिंस्तमप्युच्चकैः ।
एको नंदतु जाज एव जगति स्वाभाविकप्रीतिभृत्
येनात्रायि दिवंगतेपि नृपतौ दुर्गं किलाहर्द्वयीं ॥ १६ ॥
राधेयः कवचं ददौ शिबिरहो मांसं बलिर्मेदिनीं
जीमूतोधर्वपुस्तथापि न समा हम्मीरदेवेन ते ।
येनोच्चैः शरणागतस्य महिमासाहेर्निमित्तं क्षणा-
दात्मा पुत्रकलत्रभृत्यनिवहो नीतः कथाशेषतां ॥ १७ ॥
द्वौ नञौ प्रस्तुतार्थं प्रवदत इतिवत् क्ष्माभृता द्विः प्रयुक्ता-
मौचित्याद्याहि याहीति वचनरचनां स्वार्थसंस्थां विधाय ।
यस्तिष्ठन्नप्यलुंपन्न खलु निजविभोः शासनं स्वामिभक्तः
ख्यातस्तेनैव नाम्नापि च जयतु चिरं चाहमानः सजाजा ॥ १८ ॥
१३२ श्रीहम्मीरमहाकाव्ये [सर्गः
श्रीक्रांबोजकुलांबुधिवर्धनविधुर्निर्व्याजवीरव्रतो
हंकारैकनिकेतनं स महिमासाहिः कथं वर्ण्यते ।
हित्वैकं तमलक्ष्यमक्षितनयं हम्मीरवीरं तथा
प्राणांतेपि पुरः परस्य न पुनर्यो नानमत्स्वं शिरः ॥ १९ ॥
नैव स्वं स्वेन हन्यादिति कुलचरितं पालयन् यो गृहीतो
जीवन् म्लेच्छाधिपाये सदसि पदतलं दर्शयंश्च प्रविष्टः ।
कर्त्ता त्वं जीवितः किं मयि च तदुदितः प्रोक्तवान् यद्धमीरे
कार्षीस्त्वं तेन साम्यं कलयति महिमासाहिना कोत्र वीरः ॥ २० ॥
आजौ पादतलेन दर्शितवतो हम्मीरभूभृच्छिरः
पृष्टस्तेन तदर्पितांश्च गदतस्तांस्तान् प्रसादानपि ।
खलुंते रतिपाल यच्छकपतिर्निष्कासयामासिवान्
तद्युक्तं त्वमिवान्यथा कतिपुनर्द्रुह्यंति न स्वामिने ॥ २१ ॥
जयति जनितपृथ्वीसंपदः कृष्णगच्छो
विकसितनवजातीगुच्छवत् स्वच्छमूर्तिः ॥
विविधबुधजनालीभृंगसंगीतकीर्तिः
कृतवसतिरजस्रं मौलिषु छेकिलानां ॥ २२ ॥
तस्मिन्विस्मयवासवेश्मचरितश्रीसूरिचके क्रमात्
जज्ञे श्रीजयसिंहसूरिसुगुरुः प्रज्ञालचूडामणिः ।
षड्भाषाकविचक्रचक्रमखिलप्रामाणिकाग्रेसरं
सारंगं सहसा विरंगमतनोद्यो वादविद्याविधौ ॥ २३
श्रीन्यायसारटीकां नव्यं व्याकरणमथ च यः काव्य
कृत्वा कुम्भारनृपतेः ख्यातस्त्रैविद्यवेदिचक्रीति ॥ २४
तदीयगणनायकः क्रमनमज्जनत्रायकः
प्रसन्नशशभृत्प्रभुर्जयति वादिभेदिप्रभः ।
यदीयपदपंकजे भ्रमिरभृंगलीलायितं
श्रयंति महतामपि क्षितिभृतां सदा मौलयः ॥ २५
१४] कविवाक्यवर्णनम् १३३
तत्पट्टांभोजचंचत्तरखरकिरणः सर्वशास्त्रैकबिंदुः
सूरींदुः श्रीनयैदुज्जयति कविकुलोदन्वदुल्लासनेंदुः ।
तेने तेनैव राज्ञा स्वचरिततनने स्वप्रनुन्नेन कामं
चक्राणं काव्यमेतन्नृपतिततिमुदे चारुवीरांकरम्यं ॥ २६ ॥
पौत्रोप्ययं कविगुरोर्जयसिंहसूरेः
काव्येषु पुत्रतितमां नयचंद्रसूरिः ।
नव्यार्थसार्थघटनापदपंक्तियुक्ति-
विन्यासरीतिरसभावविधानयत्नैः ॥ २७ ॥
श्रीहर्षामरयोः कविप्रवरयोर्वाक्कल्पवल्लीं निजा-
मुद्यांतीमभिवर्षतोर्नवनवैः पीयूषधारारसैः ।
मद्भाग्यानिलखेलनैरणहता या विप्रुषः काश्चिद-
प्यासामेव निषेकशाद्वलतमः सोयं मदुक्तिश्रमः ॥ २८ ॥
जल्पंत्येके कवींद्राः सरसमनुभवादेव कुर्वंति काव्यं
तन्मिथ्या हंत नोचेत्तदिह विदधतां तद्गतां येपि धुर्याः ।
एषोस्माकं प्रसादः सततमपि गिरां देवताया - - -
धत्ते लालित्यमुच्चैः खलु चपलदृशां पुण्यतारुण्यमेव ॥ २९ ॥
काव्ये काव्यकृतां न चास्यनुभवः प्रापः प्रमाणं नचेत्
प्राहुस्ते कविधर्म एष इति किं प्रत्याहतास्तार्किकैः ।
को नामानुबभूव चंद्रसुरभिं कुंदोज्ज्वलां कौमुदी
सीतां कीर्तिमतोन्थेदिंतगुणस्फीतामकीर्ति च कः ॥ ३० ॥
वाणीनामधिदेवता स्वयमसौ ख्याता कुमारी ततः
प्रायो ब्रह्मवतां स्फुरंति सरसा वाचां विलासा ध्रुवं ।
कुक्कोकः सुकृती जितेंद्रियचयो हर्षः सवात्स्यायनो
ब्रह्मज्ञप्रवरो महाव्रतधरो वेणीकृपाणोमरः ॥ ३१ ॥
शृंगारेनुभवो व्यतर्क्यततमां मूढैरिहोच्चैर्यकः
सुप्तः किंतु स कः परेषु यदयं नैकप्रकाशीप्रभा ।
१३४ श्रीहम्मीरमहाकाव्ये [सर्गः
तद्बन्ध्यासुतलालनामिव वृथा वैकल्पिकीं कल्पना-
माकल्पं परिकल्प्य जल्पततमां धैर्यं धियां केवलं ॥ ३२ ॥
ये श्रृंगारकथां प्रथां विदधते वाचां विलासैरस-
प्रोल्लासोत्र समस्तितेष्वनुभवो येष्वस्ति तेन्ये पुनः ।
वर्ण्या ये वदनेषु कुंदविशदास्तंबेरमाणां रदा
नैते चर्वणसाधनं तदिह ये दुर्लक्ष्यरूपास्तु ते ॥ ३३ ॥
काव्यं काव्यप्रकाशादिषु रसबहलं किर्त्तयंत्युत्तमं यत्
तन्नोभावैर्विभावप्रभृतिभिरनभिव्यक्तमुक्तैः कदाचित् ।
तेनेति व्यक्तमुक्तं सरसजनमनःप्रीतये काव्यमेतत्
कश्चिच्चेन्नीरसोस्मिन् भजति बत मुदं नो तदा कस्य दोषः ॥ ३४ ॥
वदंति काव्यं रसमेव यस्मिन्निपीयमाने मुदमेति चेतः ।
किं कर्णतर्णर्णसुपर्णपर्णाभ्यर्णादिवर्णार्णवडंबरेण ॥ ३५ ॥
रसोस्तु यः कोपि परं स किंचिन्नास्पृष्टशृंगाररसो रसाय ।
सत्यप्यहो पाकिमपेशलत्वे न स्वादु भोज्यं लवणेन हीनं ॥ ३६ ॥
कविता वनिता गीतिः प्रायो नादौ रसप्रदाः ।
उद्गिरंति रसोद्रेकं गाह्यमानाः पुरः पुरः ॥ ३७ ॥
प्रायोपशब्दादिकृतोपि दोषो नचात्र चिंत्यो मम मंदबुद्धेः ।
न कालिदासादिभिरप्यपास्तो योऽध्वा कथं वा तमहं त्यजामि ॥ ३८ ॥
प्रायोपशब्देन न काव्यहानिः समर्थतार्थे रससेकिमा चेत् ।
वादेप्यसौ नो विदधीत किंचित् यदि प्रतिज्ञा विरमेन्न विज्ञैः ॥ ३९ ॥
वाणी वाणीविलासात्प्रसरति विदुषां तेन शब्दापशब्दौ
प्रायश्चेतोविकल्पः कविमतवशगा शब्दशास्त्रेपि सिद्धिः ।
मत्वैवं मापशब्दं वदत सहृदया प्रौढकाव्यप्रयुक्ता
द्वित्राश्चेत्तेन वृद्धिं भजति कथमसौ तर्हि वाग्ब्रह्मकोशः ॥ ४० ॥
भवंति काव्येषु महाकवीनां यद्येवभावा अशुभाः शुभा वा ।
प्रदर्शितास्ते कतिचित्ततीह नचेन्महाकाव्यमिदं कथं तत् ॥ ४१ ॥
३] कविवाक्यवर्णनम् १३५
क्षंतव्य एव कविभिः कृपया प्रमादात्
काव्येऽत्र कश्चिदपि यः पतितोऽपशब्दः ।
प्रीतिर्यथास्तु सुहृदामयथा सुशब्दैः
किं सा तथास्वसुहृदामापि मापशब्दैः ॥ ४२ ॥
काव्यं पूर्वकवेर्न काव्यसदृशं कश्चिद्विधाताधुने
त्युक्ते तोमरवीरमक्षितिपतेः सामाजिकैः संसदि ।
तद्धूचापलकेलिदोलितमनाः शृंगारवीराद्भुतं
चक्रे काव्यमिदं हम्मीरनृपतेर्नव्यं नयेंदुः कविः ॥ ४३ ॥
हंसाः संतः क्व येषां गुणपयसि रतिर्नौ रतिर्दोषवारि-
ण्यादर्शाः संतु किंतु प्रतिफलति गुणो दूषणं वापि येषु ।
तेमी तिष्ठंतु दूरे क्वचन तितउवोदूपणं क्लीकशे ये
विधृत्योच्चैरधश्चोज्ज्वलगुणसंमिता संचयं चिक्षिषंति ॥ ४४ ॥
राजानो युधिबद्धविक्रमरसाः कुर्वंतु राज्यं मुदा
तेषां विक्रमवर्णने च कवयः शश्वत्कृतंत्वांतमां ।
अश्रांतं च समुल्लसंलिह रसैर्वाचः सुपारोक्रिमाः
स्वादुंकारमिमाः पिबंतु च रसास्वादेषु ये सादराः ॥ ४५ ॥
पीत्वा श्रीनयचंद्रवक्त्रकमलाविर्भाविकव्यामृतं
कोनामाऽमरचंद्रमेव पुरतः साक्षान्नपश्येद्ध्रुवं ।
आदावेव भवेदसावमरता चेत्तस्य नो बाधिका
दुर्वारः पुनरेष धावतुतमां दर्पावलीविभ्रमः ॥ ४६ ॥
ते श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर-
काव्ये 'वीरांक' कविवाक्यवर्णनोनाम चतुर्दशः सर्गः ॥ समाप्तमिदं
हम्मीरमहाकाव्यं ॥
कार्यात्कारणसंविदं विदधते नैकांतमुत्सृज्य य-
त्तेषामिव नोपि कर्हिच-न किं चेतश्च मत्ताचिकीः ।
· १३६ तत्समाप्तिश्च [सर्गः १४]
नैवं चेन्नयचंद्रसूरिसुकवेर्वाणीं विधायामृतं
श्रीहर्षं तमथामरं तमपि तत्किं संस्मरेयुर्बुधाः ॥ १ ॥
काव्यानां त्रितयीं व्यरीरचदिमां यां कालिदासः कलां
सृष्टौ गाधिसुतस्य सार्हति न चेत्कानाम तत्रास्तु सा ।
चकुर्यां कवयो नयेंदुरमरो हर्षश्च नानारसैः
सर्गे ब्रह्मण एव सा तु घटते तस्यैव संवादतः ॥ २ ॥
नयचंद्रकवेः काव्यं रसायनमिहाद्भुतं ।
संतः स्वदंते जीवंति श्रीहर्षाद्याः कवीश्वराः ॥ ३ ॥
लालित्यममरस्येव श्रीहर्षस्येव वक्रिमा ।
नयचंद्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयं ॥ ४ ॥
काव्यं काव्ययशोर्थिनां रचयतां सम्यक् कृतघ्नस्य नो
मीयेतोपचयो नचाप्युपचयः कश्चित्कवीनां स्फुटं ।
यस्माच्छुद्धमशुद्धमाहुरनयोर्विज्ञापनाकारणं
तत्तेषां मनसैव रुद्धमभितः कुत्रावकाशस्तयोः ॥ ५ ॥
यशोर्थिनां काव्यकृतां कवीनां पुण्यंच पापं च न किंचिदेव ।
पुण्यस्य पापस्य च यन्निदानं मनस्तदेषां यशसैवरुद्धं ॥ ६ ॥
संवत् १५४२ वर्षे श्रावणे मासि श्रीकृष्णर्षिगच्छेश्रीश्रीजयसिंहसूरिशि-
ष्येण नयहंसेनात्मपठनार्थं श्रीपेरोजपुरे हम्मीरमहाकाव्यं लिलिखे
कल्याणमस्तु भद्रंभूयात्संघस्य ग्रंथाग्रः १५६४
The provided image is completely blank and contains no visible text to transcribe.