हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 184, कुल 185 में से
संदर्भ में पढ़ें· १३६ तत्समाप्तिश्च [सर्गः १४]
नैवं चेन्नयचंद्रसूरिसुकवेर्वाणीं विधायामृतं
श्रीहर्षं तमथामरं तमपि तत्किं संस्मरेयुर्बुधाः ॥ १ ॥
काव्यानां त्रितयीं व्यरीरचदिमां यां कालिदासः कलां
सृष्टौ गाधिसुतस्य सार्हति न चेत्कानाम तत्रास्तु सा ।
चकुर्यां कवयो नयेंदुरमरो हर्षश्च नानारसैः
सर्गे ब्रह्मण एव सा तु घटते तस्यैव संवादतः ॥ २ ॥
नयचंद्रकवेः काव्यं रसायनमिहाद्भुतं ।
संतः स्वदंते जीवंति श्रीहर्षाद्याः कवीश्वराः ॥ ३ ॥
लालित्यममरस्येव श्रीहर्षस्येव वक्रिमा ।
नयचंद्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयं ॥ ४ ॥
काव्यं काव्ययशोर्थिनां रचयतां सम्यक् कृतघ्नस्य नो
मीयेतोपचयो नचाप्युपचयः कश्चित्कवीनां स्फुटं ।
यस्माच्छुद्धमशुद्धमाहुरनयोर्विज्ञापनाकारणं
तत्तेषां मनसैव रुद्धमभितः कुत्रावकाशस्तयोः ॥ ५ ॥
यशोर्थिनां काव्यकृतां कवीनां पुण्यंच पापं च न किंचिदेव ।
पुण्यस्य पापस्य च यन्निदानं मनस्तदेषां यशसैवरुद्धं ॥ ६ ॥
संवत् १५४२ वर्षे श्रावणे मासि श्रीकृष्णर्षिगच्छेश्रीश्रीजयसिंहसूरिशि-
ष्येण नयहंसेनात्मपठनार्थं श्रीपेरोजपुरे हम्मीरमहाकाव्यं लिलिखे
कल्याणमस्तु भद्रंभूयात्संघस्य ग्रंथाग्रः १५६४