हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 176, कुल 185 में से
संदर्भ में पढ़ेंश्रीहम्मीरमहाकाव्ये [सर्गः
निषादी पदगः सादी रथी वा यो यथाऽमुना ।
निहतः स तथैवास्थात् चित्रन्यस्त इवोच्चकैः ॥ २१३ ॥
वरीवर्षन् शरासारै स्तपालयपयोदवत् ।
नृपः कदर्थयामास वक्त्रांभोजानि वैरिणां ॥ २१४ ॥
भृशं शरप्रपातेना-कुलयन्मत्तवारणं ।
तदारोदुश्च तस्यापि मदं स उदतीतरत् ॥ २१५ ॥
रतिपालंवदेतेपि जाता इत्यपवादतः ।
भीता इवास्याराख्यंगं भित्वा दूरं ययुः शराः ॥ २१६ ॥
अयर्जुनं धनुर्विद्यावेदिनामपि विद्विषां ।
कोदंडस्थं करस्थं च गुणं चिच्छेद पार्थिवः ॥ २१७ ॥
धनुर्गुणटणत्कार-श्रुत्यैव त्यक्तजीविताः ।
द्विषो नान्वभवंस्तस्य शरप्रहरणव्यथां ॥ २१८ ॥
नृपेण मध्यतश्छिन्ने भूगताग्रैर्द्विषच्छिरैः ।
रणांगणमभाल्लून-तिलक्षेत्रमिवातंकं ॥ २१९ ॥
शरौघान् क्षिपतस्तस्य शकराजवरूथिनी ।
वसुहीनस्य वेश्येव क्षणेनासीत्पराङ्मुखी ॥ २२० ॥
नृपः कांश्चिद्दुरःपूरं पूरयामास सायकैः ।
दूर्वालावं लुलाबोच्चैः कांश्चित्खङ्गेन मध्यतः ॥ २२१ ॥
वीरोसौ समरेऽरीणां तथात्र कदनं व्यधात् ।
यथामीभिर्यमस्यापि संकीर्णमभवद्गृहं ॥ २२२ ॥
सध्वजान् खंडयन् दंडान् व्यध्यन्नश्वांन् ससादिनः ।
द्विधापि विग्रहं भिन्दन् सोऽरेश्चक्रे चिरं रणं ॥ २२३ ॥
अतिधारानिषून्वर्षन् रिपुक्षेत्रेषु भूरिषु ।
चाक्षुषः श्रावणो जज्ञे चित्रं हम्मीरभूपतिः ॥ २४ ॥
श्रीहम्मीरोथ वीरव्रजमुकुटमणिम्लेंच्छबाणप्रहारैः
सर्वांगेषु प्ररूढैः क्षितितलमभितो भावितो भीष्मकर्मा ।