सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 182, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 182

१३४ श्रीहम्मीरमहाकाव्ये [सर्गः
तद्बन्ध्यासुतलालनामिव वृथा वैकल्पिकीं कल्पना-
माकल्पं परिकल्प्य जल्पततमां धैर्यं धियां केवलं ॥ ३२ ॥
ये श्रृंगारकथां प्रथां विदधते वाचां विलासैरस-
प्रोल्लासोत्र समस्तितेष्वनुभवो येष्वस्ति तेन्ये पुनः ।
वर्ण्या ये वदनेषु कुंदविशदास्तंबेरमाणां रदा
नैते चर्वणसाधनं तदिह ये दुर्लक्ष्यरूपास्तु ते ॥ ३३ ॥
काव्यं काव्यप्रकाशादिषु रसबहलं किर्त्तयंत्युत्तमं यत्
तन्नोभावैर्विभावप्रभृतिभिरनभिव्यक्तमुक्तैः कदाचित् ।
तेनेति व्यक्तमुक्तं सरसजनमनःप्रीतये काव्यमेतत्
कश्चिच्चेन्नीरसोस्मिन् भजति बत मुदं नो तदा कस्य दोषः ॥ ३४ ॥
वदंति काव्यं रसमेव यस्मिन्निपीयमाने मुदमेति चेतः ।
किं कर्णतर्णर्णसुपर्णपर्णाभ्यर्णादिवर्णार्णवडंबरेण ॥ ३५ ॥
रसोस्तु यः कोपि परं स किंचिन्नास्पृष्टशृंगाररसो रसाय ।
सत्यप्यहो पाकिमपेशलत्वे न स्वादु भोज्यं लवणेन हीनं ॥ ३६ ॥
कविता वनिता गीतिः प्रायो नादौ रसप्रदाः ।
उद्गिरंति रसोद्रेकं गाह्यमानाः पुरः पुरः ॥ ३७ ॥
प्रायोपशब्दादिकृतोपि दोषो नचात्र चिंत्यो मम मंदबुद्धेः ।
न कालिदासादिभिरप्यपास्तो योऽध्वा कथं वा तमहं त्यजामि ॥ ३८ ॥
प्रायोपशब्देन न काव्यहानिः समर्थतार्थे रससेकिमा चेत् ।
वादेप्यसौ नो विदधीत किंचित् यदि प्रतिज्ञा विरमेन्न विज्ञैः ॥ ३९ ॥
वाणी वाणीविलासात्प्रसरति विदुषां तेन शब्दापशब्दौ
प्रायश्चेतोविकल्पः कविमतवशगा शब्दशास्त्रेपि सिद्धिः ।
मत्वैवं मापशब्दं वदत सहृदया प्रौढकाव्यप्रयुक्ता
द्वित्राश्चेत्तेन वृद्धिं भजति कथमसौ तर्हि वाग्ब्रह्मकोशः ॥ ४० ॥
भवंति काव्येषु महाकवीनां यद्येवभावा अशुभाः शुभा वा ।
प्रदर्शितास्ते कतिचित्ततीह नचेन्महाकाव्यमिदं कथं तत् ॥ ४१ ॥