हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 180, कुल 185 में से
संदर्भ में पढ़ें१३२ श्रीहम्मीरमहाकाव्ये [सर्गः
श्रीक्रांबोजकुलांबुधिवर्धनविधुर्निर्व्याजवीरव्रतो
हंकारैकनिकेतनं स महिमासाहिः कथं वर्ण्यते ।
हित्वैकं तमलक्ष्यमक्षितनयं हम्मीरवीरं तथा
प्राणांतेपि पुरः परस्य न पुनर्यो नानमत्स्वं शिरः ॥ १९ ॥
नैव स्वं स्वेन हन्यादिति कुलचरितं पालयन् यो गृहीतो
जीवन् म्लेच्छाधिपाये सदसि पदतलं दर्शयंश्च प्रविष्टः ।
कर्त्ता त्वं जीवितः किं मयि च तदुदितः प्रोक्तवान् यद्धमीरे
कार्षीस्त्वं तेन साम्यं कलयति महिमासाहिना कोत्र वीरः ॥ २० ॥
आजौ पादतलेन दर्शितवतो हम्मीरभूभृच्छिरः
पृष्टस्तेन तदर्पितांश्च गदतस्तांस्तान् प्रसादानपि ।
खलुंते रतिपाल यच्छकपतिर्निष्कासयामासिवान्
तद्युक्तं त्वमिवान्यथा कतिपुनर्द्रुह्यंति न स्वामिने ॥ २१ ॥
जयति जनितपृथ्वीसंपदः कृष्णगच्छो
विकसितनवजातीगुच्छवत् स्वच्छमूर्तिः ॥
विविधबुधजनालीभृंगसंगीतकीर्तिः
कृतवसतिरजस्रं मौलिषु छेकिलानां ॥ २२ ॥
तस्मिन्विस्मयवासवेश्मचरितश्रीसूरिचके क्रमात्
जज्ञे श्रीजयसिंहसूरिसुगुरुः प्रज्ञालचूडामणिः ।
षड्भाषाकविचक्रचक्रमखिलप्रामाणिकाग्रेसरं
सारंगं सहसा विरंगमतनोद्यो वादविद्याविधौ ॥ २३
श्रीन्यायसारटीकां नव्यं व्याकरणमथ च यः काव्य
कृत्वा कुम्भारनृपतेः ख्यातस्त्रैविद्यवेदिचक्रीति ॥ २४
तदीयगणनायकः क्रमनमज्जनत्रायकः
प्रसन्नशशभृत्प्रभुर्जयति वादिभेदिप्रभः ।
यदीयपदपंकजे भ्रमिरभृंगलीलायितं
श्रयंति महतामपि क्षितिभृतां सदा मौलयः ॥ २५