गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
२४२ उपनयनविधिः । [ २ प्रपाठके-
विमानयेयुस्तावतीर्वा प्रार्थयेत् । तथाच मनुः-
“मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं याचैनं न विमानयेत् ॥”
इति । भविष्यपुराणे चोक्तमनुवचनान्ते-“सुवर्णं रजतं रत्नं सा पात्रेऽस्य
विनिक्षिपेत्” इति पठ्यते । सा-भिक्षादात्री मात्रादिः । निजां-सोदर्याम् ।
प्रथम-मुपनयनकालिक (१) भिक्षायाम् ॥ सन्निहिता इत्युक्त्या तत्रस्था एव
भिक्षेत न पुनः स्थानान्तरं गत्वेति बोद्धव्यम् । तत्प्रकारमाह-मनुः-
“भवत्पूर्वञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥”
इति । एवञ्च “भवति ! भिक्षान्देहि”-ति वाक्येन ब्राह्मणेन, “भिक्षां
भवति ! देहि-”ति क्षत्रियेण । “भिक्षां देहि भवती”-ति वैश्येन भिक्षाचरण-
ङ्कर्त्तव्यमित्यायाति । हारीतः-
“सप्ताक्षराञ्चरेद्भिक्षां क्षाञ्च हिञ्च न वर्जयेद्”-ति ।
क्षाञ्च हिञ्चेत्यनेन भिक्षान्देहीति पदयोःप्रयोगोऽप्यावश्यक एवेति कल्प-
तरुः । गौतमः-“आदिमध्यान्तेषु भवच्छब्दः प्रयोऽग्योवर्णाऽनुपूर्व्येण”-ति ।
यमः-
“हस्तदत्ता च या भिक्षा सलितं व्यञ्जनानि च ।
भोक्ता त्वशुचितां याति दाता स्वर्गन्न गच्छति ॥” इति ॥ ४३ ॥
आचार्य्याय भैक्षं निवेदयति ॥ ४४ ॥
आचार्यायोपनेत्रे । भैक्षं-लब्धभिक्षानिचयम् । “भिक्षादिभ्योऽण्” (पा०४।
२।३८) इति सामूहिकेऽणि आदिवृद्धिः । “भैक्षं भिक्षाकदम्बकम्”त्यमरः ।
( १ ) शौनकः । “अप्रत्याख्यायिनमग्रेभिक्षेत् । अप्रत्यख्यायिनीं वा” इति । मनुः
“गुरोःकुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वपूर्वविवर्जयेत् ॥”
इति । पारस्करः “तिस्रोऽ
१० कण्डिका ] गोभिलगृह्यसूत्रे- २४३
निवेदयति । निवेदये-दर्पयेत् । निवेदनप्रकारश्च “भैक्षमभोः” इत्याचार्याय
निवेद्य तद्दत्तं प्रतिगृह्णीयात् इति । आचार्येण तदानञ्च “भुङ्क्ष्वे”त्यनुज्ञान-
रूपम् । अत्राचार्यः प्रथमां भिक्षां गृहीत्वा द्वितीयादिकां “भुङ्क्ष्वै”त्यभिधाय
ब्रह्मचारिण एव दद्यात् । स च तामादाय धारयेत्(१) ।। ४४ ।।
स्वयञ्च तद्दिने—
तिष्ठत्यहः शेषं वाग्यतः ॥ ४५ ॥
अहश्शेषमासायम्मौनी तिष्ठेदित्यर्थः । वक्ष्यमाणकर्मार्थमेतत् । तेनान्य-
दिने-मनुः—
“समाहृत्य तु तद्भैक्षं यावदर्थममायया ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥”
इति ॥ यावदिति । यावद्(२)र्थजातमुपात्तन्तदनपह्ववेन । एवञ्चाचार्या-
याहृतार्थमिदन्निवेदन(३)मात्रन्न तु दानमेवेति द्रष्टव्यम् ॥ ४५ ॥
अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षम्” इति ॥ ४६ ॥
( मं० ब्रा० १।६।३२ )
अस्तमिते-अस्तङ्गते सवितरि । “अग्नये समिधम्”-ति मन्त्रेण समिध-
मुक्तलक्षणम् ( १।१।७ ) आदधाति-आदध्यादग्नौ प्रक्षिपेत् । मन्त्रोयथा—
“अग्नये समिधमाहार्षं बृहते जातवेदसे । यथात्वमग्ने ! समिधा समिध्य-
स्येवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन धनेनान्नाद्येन समे-
धिषीय स्वाहा” ॥ ३२ ॥ इति ॥
अस्यार्थः—ब्रह्मचारीब्रूते—अहम् ‘अग्नये’ ‘समिधम्’ उक्तलक्षणम् ।
( १ ) आचार्य्यश्च कर्मशेषं समापयेत् । अत्र चन्द्रकान्तभाष्ये हेतुरुक्तः । “परतोब्र-
ह्मचारिण एव कर्मोपदेशाद्विदानीमाचार्यकर्मणोऽवसानावगते”रिति । अतः परञ्चाग्रिम-
सूत्रमवतारयंस्तत्रैवाह-अवसितमुपनयनकर्म, प्रासङ्गिकमिदानीं ब्रह्मचारिणः कर्त्तव्य-
मनुवर्त्तामहे-स खल्वयं ब्रह्मचारी-”त्यादि ॥
( २ ) अर्थजात इति पूर्व्वव्याख्यातृभिरुक्तन्तु “जातिर्जातञ्च सामान्यमि”त्यभिधा-
नविरुद्धं प्रतिभाति । अर्थशब्दोऽत्र वस्तुवचनः “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु”
इत्यमरात् । “यावदवधारणे” ( पा० २।१।८ ) इत्यव्ययीभावः समास इति च पूर्व्वैर्व्या-
ख्यातं, वस्तुतस्तु प्रयोजनवचनत्वेऽपि न क्षतिः । यावता गुरोः प्रयोजनन्तावत्तस्मै निवे-
दनीयमकपटवृत्त्या । अवशिष्टञ्च “भुङ्क्ष्वे”-ति तेनाभ्यनुज्ञातं स्वयममक्षयेत्तथालब्धमिति
तदर्थः । अत्र नान्ययीभावः किन्तु तृतीयासमासः । अत्र “यावदन्नममायये”ति पाठः
कुल्लूकेन धृतः । व्याख्यातश्च तद्भैक्ष्यं बहुभ्य आहृत्य यावदन्नं तृप्तिमात्रोचितं गुरवे
निवेद्य-निवेदनङ्कृत्वा अमायया न कदन्नेन सदन्नं प्रच्छाद्येवमेतद्गुरुर्ग्रहीष्यतीत्यादि-
मायाव्यतिरेकेण तदनुज्ञात आचमनं कृत्वा शुचिः सम्भुञ्जीत प्राङ्मुख इति ॥
( ३ ) निवेदनफलन्तु हितमितपथ्यालोचनं, येनास्य ब्रह्म
२४४ उपनयनावधिः। [ २ प्रपाठके-
‘आहार्षम्’ आहृतवान्। किम्भूताय? ‘बृहते’ महते ( निघं० ३।३।४ ) ‘जात-
वेदसे’ जातप्रज्ञानाय—जातधनाय(१) वा। इति परोक्षमुक्त्वा प्रत्यक्षमाह—हे
‘अग्ने!’ ‘यथा त्वम्’ अनया मदाहृतया ‘समिधा’ ‘समिध्यसि’(२) दीप्यसे। ‘ए-
वमहम्’ ‘आयुषा’ जीवितकालेन(३)। ‘मेधया’ धारणावत्या बुद्ध्या ‘वर्चसा’
तेजसा(४) ‘प्रजया’ पुत्रपौत्रादिरूपया सन्तत्या(५)। ‘पशुभिः’ गवादिभिः
‘ब्रह्मवर्चसेन’ ब्राह्मणतेजसा(६) ‘धनेन’ व्रीहियवादिना ‘समेधिषीय’ वृद्धि-
माप्नुयाम् इति॥ ३२॥
अत्र मनुः--
“अग्न्याधानं भैक्षचर्यामधः शय्यां गुरोर्हितम्।
आसमावर्त्तनात्कुर्यात्कृतोपनयन
१० कण्डिका ] गोभिलगृह्यसूत्रे- २४५
चोपरिष्टाच्चेन्धनार्थं समिद्भवतीति कात्यायनःस्मरति--
“समिदादिषु होमेषु मन्त्रदैवतवर्जिता ।
पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत् ॥”
इति । क्षिप्रहोमोऽयमिति न न्यञ्चकरणादाति भाष्यकृतोनारायणभट्टाः
प्राहुः ॥ इदञ्च समिदाधानं सन्ध्ययोः सन्ध्योपासनानन्तरमेव । तथाच का-
त्यायनः-
“ततः परं प्रवक्ष्यामि सन्ध्योपासनिकं विधम् ।
अनर्हः कर्मणां विप्रः सन्ध्याहीनोयतः स्मृतः ॥”
इति । विप्र इति कर्तृमात्रोपलक्षणम् ॥ दक्षः-
“सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥
इति । तदनन्तरं सन्ध्ययोरग्निमभिवाद्य गुरुमप्यभिवादयेत् । तथा च
गृह्यान्तरम्-“उभयत्राग्निं समिध्य गोत्रनामनी प्रोच्याभिवाद्याचार्यमभिवाद-
येद्”ति ॥ ४६ ॥
अथेदानीं ब्रह्मचारिणो भोजनकालः ।
“कृताग्निकार्यो भुञ्जीत वाग्यतोगुरुर्व्नुज्ञया ॥”
इति स्मरणात् । स खल्वयं ब्रह्मचारी--उपनयनकर्म्मण ऊर्ध्वम्--
त्रिरात्रमक्षारलवणाशी भवति ॥ ४७ ॥
उपनीतश्चाहोरात्रत्रयमक्षारलवणं भुञ्जीतेत्यर्थः । अक्षारलवणं यथाप-
रिभाषितमुक्तमधस्तात् ( २।३।१५ ) ॥ ४७ ॥
तस्यान्ते सावित्रश्चरुः ॥४८॥
तस्य--व्रतस्य । न पुनरुपनयनकर्म्मणः न वा सन्निधानात् त्रिरात्रस्य । “अ-
व्यक्तं प्रधानगामी”ति न्यायात् । अन्यथा-अस्यान्त इति ब्रूयात् । तथा च
गृह्यान्तरम्--
“व्रतान्ते सावित्रश्चरुर्गोदानादीन्यनुप्रवचनीयानि व्रतान्यैन्द्रस्थालीपाका-
न्तानि भवन्ती”-ति । सविता देवताऽस्येति सावित्रः । (२)तेन “सवित्रे त्वा
जुष्टं निर्वपामि” इति निर्धापः । “सवित्रे स्वाहे”ति प्रधानहोमः ॥ ४८ ॥
( १ ) अत्र वीरपद्धतौ आचार्याय भैक्षसमर्पणानन्तरम्-“अथ समिदाधानं यदि
तस्मिन्नेव क्षणे क्रियते तदा तत्रैवाभावाचारात्कर्तव्यम् । अथ सन्ध्यामुपास्यास्तङ्गते
सवितरि यदा क्रियते तदा कुशण्डिकामनुसन्धाय व्याहृतिहोमङ्कृत्वा प्रयोग इति ।
तत्र प्रथमं समन्त्रां समिधमाधाय अपराँ समिधममन्त्रां क्षिपेत्ततोवामदेव्यगानन्तं तन्त्रं
समापयेदिति चोक्तम् ॥
( २ ) एतत्प्रकारश्चोक्तोऽधस्तात् । “अथोखलमुशले” इत्यादि ( १।७।१ ) तन्ना-
२४६ उपनयनविधिः। [ २ प्रपाठके-
अवसिता प्रासङ्गिकी कथा प्रकृतमिदानीमुच्यते--
यथार्थम् ॥ ४९ ॥
उपनयनकर्म्मणः परिसमाप्तिरनेनोच्यते ॥ ४९ ॥
गौर्दक्षिणा ॥ ५० ॥
इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि·प्र·स्य दशमी कण्डिका ॥ २ ॥१०॥ ❀ ॥
उपनयनकर्म्मण एव। नोपनयनतन्त्रस्य। उपनयनकर्म्मणोऽनन्तरमा-“चा-
र्याय वरोदक्षिणा” इति गृह्यान्तरसूत्रात्(१) “गौर्वरोब्राह्मणस्य”-( )
ति च वक्ष्यति। (२)मुरारिमिश्रास्तु-यथार्थङ्गौर्दक्षिणेत्येकमेव सूत्रं लिखन्ति-
स्म। व्याचक्षत च-इयञ्चोपनयनकर्म्मदक्षिणा, न तु व्रतान्तदक्षिणा। यथा-
र्थशब्दस्यानन्तरोक्तकर्म्मशेषसमापनार्थत्वात्। “कर्म्मशेषसमाप्तौ गौराचार्याय-
देया ब्रह्मणे पूर्णपात्रादीनी”-ति गृह्यान्तरवचनाच्च। नारायण-शूलपाणि-प्रभृ-
तयोऽप्येवम्। इति। अत्रान्ते यथार्थमित्यादेरभ्यासः प्रपाठकसमाप्तिद्योतकः
पठ्यतेऽन्यत्र(३) ॥ ५० ॥
इति श्री मद्गोभिलीयगृह्यसूत्रव्याख्यामृदुलाख्यायां मुकुन्दशर्म्मकृतसङ्कलितायां
द्वि·प्र·स्य दशमी कण्डिका। प्रपाठकश्चायं समाप्तः ॥ २ ॥ १० ॥
( इत्युपनयनम् )
श्रेयोवेतिस्थाने ऊह इहाभिहितः। एवमुक्तसूत्रादष्टसूत्री। ततः पुनः “यद्युवा ( १।८।३ )
इत्यारभ्य “महाव्याहृतिभिराज्येनाभिजुहुयात्” ( १।८।१९ ) इत्यन्तम्। पुनः “हुत्वैतत्”
( १।८।१९ ) इत्यादिसूत्रद्वयं सावित्रग्रहहोमसूत्रतया मुरारिमिश्रैर्योजितम्। एतदन्ते च
ततस्तन्त्रसमापनम्। व्रतान्तविहितस्याप्यस्य व्रताशक्तस्योपनयनदिन एव समावर्त्तनपक्षे
तत्पूर्व्वक्षुरणं, समावर्त्तनपूर्व्वकालविहितत्वादिति द्रष्टव्यम्। पद्धतिरप्येवमित्युक्तम् ॥
( १) अत्र चन्द्रकान्तभाष्ये-तस्माच्च गृह्यान्तराद्दक्षिणेयमाचार्याय दातव्या। त-
स्माद्ब्रह्मचारिणे भैक्षदानान्तरमेवाचार्यः कर्मशेषं समापयेदिति भट्टनारायणाद्यनुमतं
समीचीनमवोचाम। समिदाधानस्य प्रधानकर्म्मान्तरतयोपनयनकर्म्मानङ्गत्वत्। अहः
शेषस्थितेस्तादर्थ्याच्चेत्युक्तम् ॥
( २ ) तथाचोक्तम् “गौर्विशिष्टतमा विप्रेर्वेदेष्वपि निगद्यते। न ततोऽन्यद्वरं यस्मा-
त्तस्माद्गौर्वरमुच्यते” इति।
( ३ ) चन्द्रकान्तभाष्यादौ। तत्र द्वितीयस्यार्थान्तरयोजना च क्रियते। अन्ते च-
प्सन्तु सावित्रचरोः कर्म्मक्रमस्यासूत्रणाद्यथार्थमित्यस्य कर्मापवर्गपरत्वावगतेश्च पूर्वेव
योजना समीचीनेति प्रतिपद्यामहे। अतिक्रान्तसम्बन्धश्चाचार्यानुमत इति चेति ततउपर-
तमस्माभिः।
४. कण्डिका ] गोभिलगृह्यसूत्रे- २४७
( अथ समावर्त्तनम् )
तृतीयप्रपाठकस्य चतुर्थीकण्डिका-
ब्रह्मचारी वेदमधीत्य ॥ १ ॥
वेदमित्यावश्यकत्वाभिप्रायेण । तथा च मनुः-
“वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्य्यो गृहस्थाश्रममाविशेत् ॥”
इति । वेदशब्दोऽयं साङ्गस्य वेदस्याभिधायकोऽङ्गानामेव वेति स्वभाष्ये
चन्द्रकान्त आहान्यमतोपन्यासेन ॥ १ ॥
उपन्याहृत्य गुरवे ॥ २ ॥
उप--गुरुसमीपे । निभृतं विनीतं (१)यथास्यात्तथा । गुरवे-गुर्वर्थम् ।
तादर्थ्ये चतुर्थी(२) । ( पा० १।४।४४ ) आहृत्य-आनीय । “दक्षिणाम्”-ति
शेषः । अस्योत्तरेण ( दारान्कुर्वीतेत्यनेन ) सम्बन्धः ॥
अत्र मनुः-
न पूर्वङ्गुरवे किञ्चिदुपकु
२४८ समावर्त्तनविधिः । [ २ प्रपाठके-
इति । दारानिति(१) । स्नानात्प्रागेव कन्यां प्रार्थयेदित्यर्थः । तेन नाश्रम-
क्रम(२)विरोधस्सम्भवति । तथाच कात्यायनः—
“यदि दत्ता भवेत्कन्या वाचा सत्येन केन चित् ।
सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥”
इति । अन्यथा—कन्यामप्राप्य । समावर्त्तने कृते तदुत्तरं कन्यालाभविल-
म्बेऽनाश्रमित्वं स्यात्तच्चानिष्टम् । तथाच मनुः—
“अनाश्रमी न तिष्ठेत दिनमात्रमपि द्विजः ।
आश्रमेण विना तिष्ठन्प्रायश्चित्तीयते हि सः ॥” इति ।
तस्माद्व्रतस्थ एव कुतश्चित्कन्यां प्राप्य पुण्यदिने स्नात्वा तदुत्तरदिने
विवाहं कुर्यादिति वर्त्तुलार्थः । कात्यायनः-
“अनूढे^व तु सा कन्या पञ्चत्वं यदि गच्छति ।
न तदा व्रतलोपः स्यात्तेनैवान्यां समुद्वहेत् ॥”
अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् ।
तमग्निमात्मसात्कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥”
इति । तेनैव-कृतान्तिमसमिदाग्निनैव ॥ ३ ॥
कीदृशान्दारान्कुर्वीत ? इत्युच्यते—
असगोत्रान् ॥ ४ ॥
गोत्रं-प्रसिद्धम् । (३)समानं गोत्रं येषान्ते सगोत्रास्तद्भिन्नान् असगोत्रान् ।
दारान्कुर्वीतेति गतेन सम्बन्धः । एवमग्रेऽपि ॥ ४४ ॥
मातुरसपिण्डान् ॥ ५ ॥
मातुः सपिण्डा ये न भवन्ति तान् । सापिण्ड्यमुक्तपूर्वमनुसन्धेयम् ॥ ५ ॥
नाग्निकातु श्रेष्ठा ॥ ६ ॥
नाग्निकेत्यनागतार्त्तवोच्यते । “नाग्निकाऽनागतार्त्तवे”त्यमरात् । सा तु
श्रेष्ठेति तादृशान्दारानुद्वहेदिति केचिद्व्याचक्षते । नैतत्सुन्दरम् । दारानित्युपात्त-
( १ ) उक्तमपि ( २।३।१ सू० ) दारकरणमिहाज्ञातत्वाद्विरूपगुणविधानार्थम्पुनरु-
च्यते । दारार्थं वा । अथवा दारान् कुर्वीत । कर्तुं प्रयतेतेत्यर्थः । तदनेन दारकरणाय
प्रयत्नोविधीयते न तु दारकरणम् । तस्य दानोत्तरभावित्वात् । इत्युक्तमनुवचनादव-
सीयते ॥
( २ ) ब्रह्मचारी-गृही भूत्वा वनी भवेद्वनीभूत्वा प्रव्रजेत् इति श्रुतेः । “आश्रमा-
दाश्रमं गच्छेद्”ति स्मृतेश्च ॥
( ३ ) समानता वरगोत्रेण । “समभिव्याहृतपदेनोत्थिताकाङ्क्षा प्रधानक्रियाकर्त्रा
शाम्यती”ति नियमात् । तेन “समावरं पितरं नमस्करोती”-त्यत्र नमस्कर्तृनिरूपितमेव
मातृत्वमिति सिद्धम् ॥
४ कण्डिका ] गोभिलगृह्यसूत्रे- २४६
विभक्तिवचनातिक्रमात् । तस्माद्दारकरणेन सहास्य न सम्बन्धोऽपि तु-
“एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
गौरीं वाप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ।”
इति वचनाद्दारान्करिष्यता तावद्गौरी प्राप्तावेव यतनीयं, दातुस्तु नग्निका
श्रेष्ठेति(१) सूत्रार्थः । तथाचवसिष्ठः-“तस्मान्नग्निका दातव्ये-”ति ॥ ६ ॥
अथाप्लवनम् ॥ ७ ॥
अथेत्या(२)नन्तर्यार्थम् । व्रतान्तबोधितैन्द्रस्थालीपाकादिकर्म्मानन्तरम् ।
ब्रह्मचारी आप्लवनम्-स्नानम् । “आप्लाव आप्लवः स्नानम्” इत्यमरात् ।
“कुर्यादि”-ति शेषः ॥ ७ ॥
तद्विधिविवक्षयेदमाह-
उत्तरतः पुरस्ताद्वाऽऽचार्यकुलस्य परिवृतम्भवति ॥ ८ ॥
( १ ) अत्र चन्द्रकान्तः । न
२५० समावर्त्तनविधिः । [ ३ प्रपाठके-
आचार्यकुलस्य-गुरुगृहस्य "कुलं जनपदे गोत्रे सजातीयगणेऽपि च ।
भवने च तनौ क्लीवम्” इति मेदिनी । उत्तरतः । उत्तरस्यां दिशि । सार्ववि-
भक्तिकस्तसिः । ( पा० ५।४।४४ वा० ) पुरस्तात्-पूर्वस्यां वा । परि-सर्वतो-
भावेन [ मण्डपादिरूपेण ] वृत-मा(१)वृतमाच्छादितम्भवति । किञ्चित्स्था-
नम् ॥ ८ ॥
तत्र प्रागग्रेषु दर्भेषूङ्ङाचार्य उपविशति ॥ ६ ॥
तत्र-तस्मिन्परिवृते स्थाने । उदङ्-उत्तराभिमुखः ॥ ९ ॥
तस्मिन्नेव परिवृते स्थाने-आचार्यसन्निधौ-
प्राग् ब्रह्मचार्य्युदगग्रेषु दर्भेषु ॥ १० ॥
उपविशतीत्यनुवर्त्तते । प्राक्-प्राङ्मुखः ॥ १० ॥
सर्व्वौषधिविफाण्टिताभिरद्भिर्गन्धवतीभिः शीतोष्णाभिराचार्यो-
ऽभिषिञ्चति ॥ ११ ॥
व्रीह्यादिसर्व्वौषधीभिः(२) सह या आपोविफाण्टिता(३) विपक्काः । उष्णी-
कृता इति यावत् । ताभिर्गन्धवतीभिः । सुगन्धिद्रव्यसुवासिताभिः । शीतोष्णा-
भिः । शीतोदकमिश्राभिरुष्णाभिः । यद्वा शीताश्च ता उष्णाश्चेति शीतोष्णास्ता-
भिः । नातिशीताभिर्नाप्यत्युष्णाभिः । अद्भिर्ज लैः । "ब्रह्मचारिणम्” इतिशेषः ।
सोऽयं परमतोपन्यासः ॥ ११ ॥
स्वमतमभिधीयते—
स्वयमिव तु ॥ १२ ॥
तु-शब्दात्पक्षोविपरिवर्त्तते । इवशब्द एवार्थः । स्वयमेव ब्रह्मचार्य्यात्मा-
नमभिषिञ्चेन्न पुनराचार्यः । अत एव वक्ष्यति-“आत्मानमभिषिञ्चति” (३।४।
१६) इति । तस्मादाचार्योऽभिषिञ्चेदित्येतत्परमतमिति तत्त्वकारादयः ।
मुरारिमिश्रास्तु-इवशब्देऽत्रैवार्थे । तु शब्दोवार्थे । तथाच स्वयमेववा ब्रह्मचा-
र्य्यात्मानमभिषिञ्चेत् ॥ १२॥
अत्रहेतुमाह—
मन्त्रवर्णोभवति ॥ १३ ॥
( १ ) उपसर्गस्थ धातुनान्तर्भावादुपसर्गा अर्थविशेषद्योतका एवेति राद्धान्तो-
व्याकृतिविदाम् ॥ उपेत्य धातून्सृजन्त्यनेकार्थान्द्योतयन्त इत्युपसर्गा उच्यन्ते ।
( २ ) कात्यायनः "व्रीहयः शालयोमुद्गागोधूमाः सर्षपास्तिलाः । यवाश्चौषधयः
सप्तविपदेहान्त धारिताः ॥” इति ॥
( ३ ) ईषत्पक्कः क्वाथविशेष फाण्टम् । फणन्तेः क्तः ( पा० ३।२।१०२ ) निपातितः ।
तत इतचि ( पा० ५।२।३६ ) फाण्टिताईषत्कथिता आपः । अत्रौषधियोगविशेष इति ता
अत्र विफाण्टिता उक्ताः ।
मन्त्रवर्णोऽभिषेकमन्त्रलिङ्गम् । तत्स्वरसादित्यर्थः । तद्यथा-“तेनाहम्माम-
भिषिञ्चामि” इति । “तेनमामभिषिञ्चतम्” इति च । एवञ्च द्वितीयपक्षे हेतू-
पदर्शनात् सूत्रकारसम्मति रपि तत्रैव । अतएव वीरेश्वरोपाध्यायाः स्वपद्धतौ
तथैव लिखितवन्तः । वस्तुतस्तु-आचार्योऽत्रब्रह्मचारिणमभिषिञ्चति । ब्रह्मचारी
वा स्वयमेवात्मानमभिषिञ्चति । इति । तथाच पठन्ति-
“ब्रह्मचारी अनुज्ञातो गुरुणा गुरुरेव वा ।
सर्वौषधिविमिश्राभिः शीतोष्णाभिः सुगन्धिभिः” ॥
इत्येवमादि ॥ १३ ॥
अभिषेकप्रकार इदानीमभिधीयते-
“येऽश्वन्तरग्नयः प्रविष्टाः” इत्यपाञ्जलिमवसिञ्चति ॥१४॥
( मं० ब्रा० १।७।१ )
अपां प्रकृतानामेव । अञ्जलिम् । अञ्जल्यवच्छिन्ना आपः । अवसिञ्च
विकृतिङ्गमयतीति तनुदुषिः(१) : 'इन्द्रियहाः' इन्द्रियाणि हन्तीति इन्द्रियहाः
॥ १ ॥ इति ॥ १४ ॥
“यदपां घोरं यदपां क्रूरं यदपामशान्तम्”ति च ॥१५॥
( सं० ब्रा० १।७।२ )
अस्य “अति तत्सृजामी"-ति शेषः । 'अपां' सम्बन्धि 'यद्' 'घोरं' भया-
नकम् । 'यन्' च 'अपां' सम्बन्धि । 'क्रूरम्' निष्ठुरम् । 'यन्' च 'अपां' सम्ब-
न्धि 'अशान्तम्' रुजाकरम् 'तत्' अतिसृजामि । उत्सृजामीत्यर्थः ॥ २ ॥ इति ।
अनेनाप्यपामञ्जलिमवसिञ्चति । तस्मादत्रापि भूमावेवाञ्जलिपरित्याग इति
कर्मेन्द्रियापद्घोरनुषङ्गार्थश्चकारः ॥ १५ ॥
“योरोचनस्तमिह गृह्णामि” इत्यात्मानमभिषिञ्चति ॥१६॥
( मं० ब्रा० १।७।३ )
“योरोचन” इति मन्त्रेण ब्रह्मचारी आत्मानमभिषिञ्चति । अभिषिञ्चेत् ।
अभीति सर्वतोभावे । अयमभिषेकः “अङ्गानां शिरः प्रधानम्”ति शिरसि
कर्त्तव्यः । “अव्यक्तं प्रधाना(२)मौ”ति न्यायादप्या(३)प्लावनमित्यधिका-
राच्च । अस्य “तेनाहममामभिषिञ्चामि” इतिशेषः ॥ अस्यार्थः । घोरादिषु
त्यक्तेषु । 'यो' ऽन्यो 'रोचनः' तदाख्यो ऽभिप्रीतिकरः(४) । 'तं' अहम् 'इह'
स्थितम् । गृह्णामि । तथाच 'तेन' जलान्तर्वर्त्तिना रोचनेन 'अहं' 'माम्'
आत्मानम् 'अभिषिञ्चामि' इति ॥ ३ ॥ किमर्थमित्युत्तरेणान्वितम् ॥ १६ ॥
“यशसे तेजस” इति च ॥ १७ ॥
( सं० ब्रा० १।७।४ )
“यशसे” इत्यादिना मन्त्रेण च पूर्ववदात्मानमभिषिञ्चति । ब्रह्मचारी ।
प्रकृतानामपामञ्जलिना ॥ मन्त्रोयथा—
“यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीर्यायान्नाद्याय रायस्पोषाय
त्विष्ट्यै अपचित्यै” ॥ ४ ॥
( १ ) “इक्कॄष्यादिभ्यः” (पा० ३।३।१०८ वा०) इतीकप्रत्यये गुणाभावः । दलोपः
पृषोदरादित्वात् ( पा० ६।३।१०९ ) ॥
( २ ) सन्देहे हि प्रधानानुसरणं कर्त्तव्यमिति हि न्यायाशयः ।
( ३ ) यद्यपि “स्नानञ्चतुर्भिः कलशैस्त्रिभिराप्लवनं स्मृतम्” इति कात्यायनेन
परिभाषितन्तथापि स्नानमात्रं जहदजहल्लक्षणया भाष्यकृद्भिरत्राप्लवनं व्याख्यातम् ।
तथाच मन्त्रेण बोध्यमभिषेकस्तदेवाप्लवनापरपर्यायं स्नानं प्रधानकर्मेतिप्रतिपाद-
यिष्यते ॥
( ४ ) “रुचदीप्तावभिप्रीतौच” ( भ्वा० आ० ) नन्द्यादित्वाल्ल्युः (पा० ३।१।१३४)
योरनः । ( पा० ७।१।१ ) ॥
४ कण्डिका ] गोभिलगृह्यसूत्रे— २५३
इति । अस्यार्थः । अत्र सर्वत्र तादर्थ्ये चतुर्थी ( पा० १।४।४४ वा० )
'ब्रह्मवर्चसाय'(१) याजनाध्यापनोत्कर्षजतेजसे । 'रायस्पोषाय'(२) धन-
समृद्धयै । 'त्विष्यै'(३) दीप्तये । 'अपचित्ये'(४) पूजायै । अन्यत्सुगमम् ॥१७
“येन श्रियमकृणुतमि”—ति च ॥ १८ ॥
[ सं० ब्रा० १।७।५ ]
“येन श्रियमि”—तिमन्त्रेण चात्मानमभिविञ्चति । मन्त्रो यथा—
“येन श्रियमकृणुतं येनापामृशतं सुराम् । येनाक्षावभ्यषिञ्चतं
ये चेमाम्पृथिवीम्महीम् । यद्वान्तदश्विना यशस्तेन मामभ्यषिञ्चतम्” ॥५॥
इति । अस्यार्थः—अनेन देववैद्यावश्विनौ कर्म्मणामधिष्ठातारौ संस्तूयप्रा-
र्त्थ्येते हे 'अश्विना !' अश्विनौ !(५)'येन' कर्म्मणा युवां 'श्रियं' विपुलाख्याम्
'अकृणुतम्' (६)हिंसितवन्तौ । 'येन' च 'सुराम्' मदिराम्(७) 'अपामृशतं'
खण्डितवन्तौ ( नेयंपातव्येति ) 'येन' वा 'अक्षान्' (८)पाशकानपि अपामृ-
शतमित्येव । 'ये' येन 'च' 'इमां' 'महीं' महतीं(९) 'पृथिवीम्' भूमिम् 'अभ्य-
षिञ्चतम्' अभिषिक्तवन्तौ ( शस्यप्ररोहणादिद्वारा संवर्द्धितवन्तौ ) एवं भूतं
'यद्' 'वां' युवयोः 'यशः' शोभनकर्म्म 'तेन' यशसापुरस्कृतौ युवां 'माम्'अपि
'अभ्यषिञ्चतम्' अभिषिक्तं ( संवर्द्धितं ) कुरुतम् । यथायुवाभ्यामभिषिक्तः
कृतकृत्योभवानीति ॥ ५ ॥ १८ ॥
एवं मन्त्रेण त्रिः—
तूष्णीञ्चतुर्थम् ॥ १६ ॥
तूष्णीम्-अमन्त्रञ्चतुर्थम्मार्जनम् कुर्यादित्यर्थः ॥ १९ ॥
( १ ) ब्रह्मणोवर्चोब्रह्मवर्चसन्तस्मै । “ब्रह्महस्तिभ्यां वर्चसः” (पा० ५।४।७८) इति
समासान्तः ।
( २ ) रैतिधननाम “अर्थंरैविभवाअपि”त्यमरात् । “षष्ठ्याः पतिपुत्रपयस्पोषेषु”
( पा० ८।३।५३ ) इतिसत्वम् ।
( ३ ) त्विषिर्दीप्त्यर्थः । “इक् कृष्यादिभ्यः” ( पा० ३।३।१०८ वा० ) इतीक्प्रत्य-
योभावे । कित्त्वादगुणाभावः । गुणविष्णुमते त्विष्या इति पाठः। तत्र त्विषेः क्तिन् (पा०
३।३।९४ ) भावे स्त्रियां बोध्यः ॥
( ४ ) “पूजानमस्याऽपचितिरि-”त्यमरः ।
( ५ ) “सुपां सुलुक्०” ( पा० ७।१।३९ ) इत्यादिनाऔङआत् ।
( ६ ) “कृविहिंसाकरणयोश्च” (स्वा० प०) लङ् । “धिन्विकृण्व्योरच्च” (पा० ३।१।८०)
इत्युप्रत्ययः ।
( ७ ) “सुराहलिप्रिहालापरिस्रुद्वरुणात्मजे” तिमद्यपर्यायेऽमरः ।
( ८ ) “अक्षास्तुदेवनाः पाशकाश्चते” इत्यमरः ॥
( ९ ) “पृषोदरादित्वात्” ( पा० ६।३।१०९ ) अप्शब्दकुलोपः ॥
२५४ समावर्त्तनविधिः। [ ३ प्रपाठके-
उपोत्थायाऽऽदित्यमुपतिष्ठेतो-“द्यन्भ्राजभृष्टिभिर्”-त्येतत्प्र-
भृतिना मन्त्रेण ॥ ३० ॥
( मं० ब्रा० १।७।६-९ )
उप-आचार्यसमीपात्। मन्त्रेण-उद्यन्नित्यादि-मा मा हिंसीरित्यन्तेन ४
मन्त्रकदम्बेन। वक्ष्यमाण (३२) सूत्रस्वरसात्। उपतिष्ठेत-तदभिमुखः सन्नारा-
धयेत्। अत्र देवपूजायामुपान्तिष्ठते- ( पा० १।३।२५ वा० ) इत्यात्मनेपदं बोध्यम्
मन्त्रां ( मन्त्रकदम्बो ) यथा-
“उद्यन्भ्राजभृष्टिभिरिन्द्रोमरुद्भिरस्थात्प्रातर्यावभिरस्थात्।
दशसनिरसि नशसनिम्माकुर्वात्वाविशाम्यामाविश ॥ ६ ॥
उद्यन्भ्राजभृष्टिभिरिन्द्रोमरुद्भिरस्थात्सान्तपनेभिरह्यात् !
शतसन
१ कण्डिका ] गोभिलगृह्यसूत्रे- २५५
सनिः' दशानां गवादिधनानां सनि(१)र्दाता 'असि' भवसि । अतः 'मा' माम्
अपि 'दशसनि' दशानां दातारं 'कुरु' । अहं 'त्वा' त्वाम् 'आविशामि' अ-
र्थित्वेनोपगच्छामि । अतस्त्वमपि 'मा' माम् । 'आविश' अभिमतफलदानेना-
भिमुखोभव ॥ ६ ॥
'सान्तपनेभिः' (२)देवविशेषैः ॥ ७ ॥
एवं "सायं यावानो देवविशेषा" इति गुणविष्णुः ॥ ८ ॥
हेसूर्य्य ! त्वं 'मे' मम 'पाप्मानम्' (३) पापमनिष्टम् । 'अपजहि' (४)अ-
पनय । यस्त्वं त्रिलोक्याः 'चक्षुः' दर्शकः(५) 'असि' भवसि । तं 'त्वा' त्वाम्
'सोमः' देवानाम्तर्भूत इति कृत्वा 'अवतु' आप्याययतु । योह्यस्माकं ब्राह्मणा-
नामोषधीनाञ्च 'राजा' भवति । तथा च श्रुतिः "सोमोऽस्माकं ब्राह्मणां७रा-
जे"ति । अभिधानमप्याग्नेयमस्मिन् विषये "ओषधीशोनिशापतिरि"-ति ।
एवम्भूताय 'ते' तुभ्यं 'नमः' नमस्कारः 'अस्तु' भवतु । त्वं 'मा' मां 'माहिं-
सीः' मा जहि । किन्तुसर्वतोरक्षेत्यर्थः । चक्षुष्टमित्यत्र "युष्मत्तदि" ( पा०
८।३।१०३) स्यादिना षत्वम् । तत्र युष्मदिति-युष्मदादेशास्त्वं त्वा ते तवोच्य-
न्ते ॥ ९ ॥ तदेतदविहारपक्षेबोध्यम् ॥ १८ ॥
अथ विहारपक्षमाह-
यथालिङ्गं वा विहरन् ॥ २१ ॥
वा-अथवा । तस्मिन्नेव दिने यथालिङ्गम् (६)यथालिङ्गेन मन्त्रेण । प्रात-
र्लिङ्गेन मन्त्रेण प्रातः । सान्तपनलिङ्गेन मध्याह्ने । सायंल्लिङ्गेन सायाह्ने ।
उपतिष्ठेतेत्यर्थः । विहरन्निति । एतत्कालत्रये मन्त्रान्विभजन् । (७)विहारो-वि-
कर्षणं-पृथक्करणमित्यनर्थान्तरम् ॥ २१ ॥
“चक्षुरसी”त्यनुबध्नीयात् ॥ २२ ॥
( मं० ब्रा० १।७।९ )
( १ ) “षणुदाने” ( त० उ० ) “छन्दसिवनसन्तरक्षिमथ्याम्” ( पा० ३।२।२७ )
इतीन्प्रत्ययः ॥
( २ ) “बहुलं छन्दसि” ( पा० ७।१।१० ) इति भिसऐसभावे एत्वम् ( पा० ७।३।
१०३ ) केषाञ्चिन्मते सान्तपनानाममाध्यन्दिनसवनं देवाः । इति व्याख्येयम् ॥
( ३ ) “अस्त्रीपङ्कं पुमान्पाप्मा पापं किल्विषकल्मषम् ॥ इत्यमरः ॥
( ४ ) उपसर्गस्य पृथक्कृतिश्छान्दसी ।( पा० १।४।८२ ) ।
( ५ ) अथ चास्य सर्वस्यालोकस्य चक्षुर्दशनेन्द्रियम् । (चिच्छक्तिः ) ॥
( ६ ) “तृतीयासप्तम्योर्बहुळम्” ( पा०२।४।८४ ) इत्यव्ययीभावात्परं तृतीयाविभ-
क्तेर्वाऽम्भावः । इत्येवं व्याख्यातम् ॥
( ७ ) अस्योत्तरसूत्रेणाभिसम्बन्धः । सत्रन्तमेतत् । मुरारिमिश्रमते एकमेवैतत्सूत्र-
द्वयम् ॥
२५६ समावर्त्तनविधिः । [ ३ प्रपाठके-
त्रिक्षपे (१) "चक्षुरसी" ति मन्त्रमनु (२) बध्नीयादित्यर्थः ॥ २२ ॥
मेखलामवमुञ्चते "उदुत्तमं वरुणपाशमि"-ति ॥२३॥
(सं० ब्रा० १।७।१०)
अवमुञ्चते-अवाचीनं मुञ्चति । "उदुत्तमम्" इति मन्त्रेण । मुञ्चत
इति च्छेदैनप्रतिषेधार्थम्। अव इत्यधस्तान्मोचनार्थम् । अस्मिन्नेवावसरेऽजि-
नपरित्यागोऽपि । स्नानोत्तरं तद्धारणानौचित्यात् । "स्नानादूर्ध्वं गृही भवेद्"-ति
वचनात् । पद्धतिरप्येवम् ॥
मन्त्रोयथा-
"उदुत्तमम्वरुणपाशमस्मदवाधमं विमध्यमꣳश्रथाय ।
अथादित्यव्रते वयन्तवानागसोअदितयेस्याम ॥" १० ॥
इति । अस्यार्थः । हे 'वरुण' देव ! 'उत्तमम्' उत्तमाङ्गे (शिरसि ) स्था-
पितं त्वदीयं पाशम् । 'अस्मत्' अस्मत्तः सकाशात् । 'उत्-श्रथाय (३)। उत्कृ-
ष्योन्मुच्य विनाशय । एवम् 'अधमम्' अधमाङ्गे ( पादप्रदेशे ) स्थापितन्त्व-
दीयं पाशम् 'अव' (४) अवाचीनं कृत्वा ( ऽस्मत्तोऽपकृष्य ) विनाशय । 'मध्य-
मं' मध्यमप्रदेशे स्थितं पाशं 'वि' विश्रथाय । विमोक्ष्य (विच्छेदय ) 'अथा'
अथ (५) पाशत्रयविमोचनानन्तरम् । हे 'आदित्य' अदितिपुत्र वरुण ! 'अना-
गसः' अनपराधाः । ( निष्पापाः ) वयं 'तव' 'व्रते' कर्मणि(६) । ( निघं० १।७)
वर्त्तमानाः सन्तः 'अदितये' अदीनतायै । (७) 'स्याम' भवेम । (अखण्डित(८)
( १ ) विहारपक्षेऽतावत्त्रयाणाम्मन्त्राणामेकैकस्य मन्त्रस्य खल्वेवमेकैकस्मिन् उप-
स्थाने विनियोगः सम्पन्नः । चतुर्थस्य तु मन्त्रस्य लब्धयात्रयेऽपि अत्र विनियोगोऽनेन
सूत्रेण क्रियते ॥
( २ अनु-प्रातरादिमन्त्राणां पश्चात् । बध्नीयाद्-ग्रथयेदित्यर्थः । तथा च यथा लिङ्गं
मन्त्रमुच्चार्य चक्षुरसीति च पश्चादुक्त्वा सर्वत्रोपनिष्ठेत ॥
( ३ ) "श्रथमोक्षणे" (चु०उ०) णिचिम्स्वत्वाद्घ्रस्वः । लोटि मध्यमपुरुषैकवचने
रूपम् । श्रथायेतिदीर्घश्छान्दसः । ( पा० ६।३।१३७ ) यद्वाश्रन्थविमोचनप्रतिहर्षयोः"
( क्या० प० ) लोटि मध्यमस्यैकवचने "छन्दसि शायजपी" ( पा० ३।४।८४)-ति नः शाय-
आदेशे तस्य डित्वान्न लोपे श्रथाये तिरूपम् ॥
( ४ ) उपसर्गस्यपृथग्भावश्छान्दसः । ( पा० १।४।८२ ) उपसर्गबलाद्योग्यक्रिया-
व्याहारे प्रसक्ते प्रकान्त एवाध्याहृतः । एवमग्रेऽपि ॥
( ५ ) "निपातस्य चे"-( पा० ६।३।१३६ )-ति दीर्घः ॥
( ६ ) तथा च निरुक्तम् "व्रतमिति कर्मनाम वृणोतीतिसतः" ( २।१३ ) इति ॥
( ७ ) तथा च निरुक्तम् "अदितिरदीना देवमाता चे"ति ( ४।४।२२ ) अत्र च
"द्व्येकयोर्" ( पा० १।४।२२ ) ति वद्भावप्रधानोनिर्देशो दीनतेति ॥
( ८ ) "दो अवखण्डने" (दि०प०) क्तिन्भावे "द्यतिस्यतिमास्थामितिकिति" ( पा०
७।४।४ ) इतीत्वेदितिरूत्वतो नञ्समासः । भावप्रधानश्च निर्देश इतीत्थं व्याख्यातम् ॥
त्वाय योग्या भवेम् ) ॥ १० ॥ इति ॥ २३ ॥
ब्राह्मणान्भोजयित्वा स्वयञ्च भुक्त्वा केशश्मश्रुलोमनखानि वापयति
शिखावर्जम् ॥ २४ ॥
ब्राह्मणान् भोजयित्वेति । अभ्युदयिकश्राद्धङ्कृत्वेत्यर्थ इति भट्टनारा-
यणः । यत्तु कर्म्मसमाप्तिनिमित्तकमेवेदं ब्राह्मणभोजनमितिस्रानात्प्रागे(१)वैत-
च्छाद्धम् । इदानीं ब्राह्मणभोजनमात्रमिति च मतं तन्न इदानीङ्कर्म्मसमाप्त्यभा-
वादुपदिष्टादपि कर्म्मान्तरोपदेशात् । वस्तुतो ब्राह्मणभोजना(२)न्तरमेवेदम् ।
स्वयञ्चेति । "दधितिलान्वे"तिशेषः । तथाच पारस्करः "दधितिलान्वाप्रा-
श्ये"-ति । पद्धतिरप्येवम् । कश्चित्तु परकीयग्रहणे आकाङ्क्षाविरहान् ब्राह्म-
णभोजनसाहचर्याच्च यथेष्टमेवभोक्तव्यमित्याह ।
अत्र शिखावर्जमित्यभिधानात्प्राक्सशिखं वपनं कर्त्तव्यमितिदार्शितम् ।
( २।९।२५ ) उपनिषच्च "भ्रूपक्ष्माशिखावर्जं सर्वगात्राणि वापयेत्" इति॥२४॥
स्नात्वालङ्कृत्याहते वाससी परिधाय स्रजमाबन्धीत
"श्रीरसि मयिरमस्वे"ति ॥ २५ ॥
( मं० ब्रा० १।७।११ )
अलङ्कृत्य-कुण्डलादिभिरात्मानम् । अहते-"ईषद्धौतन्नवमि"त्याद्युक्तल-
क्षणे । वाससी वस्त्रयुगम् । ( अन्तरोय-मुत्तरीग्रञ्च ) परिधाय । स्रजम्-पुष्प-
मालाम् आ-उपरि-शिरसि । बध्नीत । तत्रमन्त्रमाह "श्रीरसी"ति(३) । अ-
स्यार्थः । हे माले ! त्वं 'श्रीः' लक्ष्मीः । 'असि' भवसि । सात्वं 'मयि' विषये ।
'रमस्व' अवस्थानं कुरु । इति । यज्ञोपवीतद्वितयपरिधानमपीदानीमेवाचारादि-
तिमुरारिमिश्राः प्राहुः ॥ २५ ॥
"नेत्र्यौ स्थोनयतं मामि"-त्युपानहौ ॥ २६ ॥
( मं० ब्रा० १।७।१२ )
( १ ) अभिषेकात्मकं स्नानं प्रधानकर्मेतिप्रतिपन्नम् । अग्रिमसूत्रे(२५)स्नात्वा
इति तुवपनोत्थाप्रायत्यापनोदनार्थंम्लानमुच्यते । नत्वेतत्प्रधानङ्कर्म । न हि भुक्ताप्र-
धानङ्कर्म्मक्रियते । न वा प्रधानं स्नानममन्त्रकं तदङ्गत्वेनभिषेकोमन्त्रवानितिसाम्प्रतं
तस्मात्प्रधानकर्मणः पश्चादाभ्युदयिकं श्राद्धमितिवर्णनं भाष्यकृतोऽनुपपन्नमेव । तत्त-
ल्पुपुरस्तादेवकर्मणो यथाप्राक्कलृप्तंसुचितम् । "यच्छ्राद्धं कर्मणामादौ अन्वाहार्यन्तदु-
च्यत" इति वृद्धिश्रमधिकृत्यकर्म्मप्रदीपवचनात् । अतएकस्मिन्दिनेऽनेककर्म्मानुष्ठिता-
वेकदैवतदनुष्ठानं व्यवस्थापितमधस्तात् ।
( २ ) "सम्भोज्यविप्रान्भुञ्जीते"-ति प्रतिविशिष्टभोजनस्मःमेवात्रमूलम् ।
( ३ ) अत्रापि "सर्वेषु गात्रेषु शिरःप्रधानम्" इति न्यायोऽनुसृतः ।
३३ गो० गृ० सू
३५८ समावर्त्तनविधिः । [ ३ प्रपाठके
“नेत्र्यौस्थ” इति मन्त्रेण । उपानहौ आवध्नीतेत्यनुषज्यते । अत्राऽङ्गोद्देश्ये
योग्यतावशात्तेनपाद्योः । “नानार्थाह्यव्ययाः परे” इत्याग्नेयमभिधानम् ।
मन्त्रार्थस्तु—
हे उपानहौ ! यतो युवां ‘नेत्र्यौ’ नयन-(गमन-) शक्तिप्रदे ‘स्थः’ भवथः ।
अतो ‘माम्’ इष्टं देशान्तरम् ‘नयतम्’ प्रापयतम् । प्रार्थनायां लोट् ॥ २६ ॥
“गन्धर्वोऽसी”-ति वैणवदण्डं गृह्णाति ॥ २७ ॥
( मं० ब्रा० १।७।१३ )
वैणवम् । वेणुर्वंशस्तन्मयम् । दण्डादिधारणे स्मृत्यन्तरोक्तकर्म्मानन्तर-
माहुर्मुरारिमिश्राः—
“वैणवीन्धारयेद्यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम् ॥
छत्रञ्चोष्णीषममलं पादयोश्चाप्युपानहौ ।
रौक्मे च कुण्डले चैवं कृत्तकेशनखोद्विजः ॥” इति ॥ २७ ॥
आचार्य्यꣳसपरिषदकमभ्येत्याचार्य्यपरिषदमीक्षते—
“यक्षमिव चक्षुषः प्रियोवोभूयासमि”ति ॥ २८ ॥
( मं० ब्रा० १।७।१४ )
सपरिषदकम् । परिषदा सभया सहितम् । “समज्यापरिषदगोष्ठीसभासमिति
संसदः” इत्यमरः । सा च शिष्यादेः । अभ्येत्य-आभिमुख्येन गत्वा पुनराचार्य्य-
वचनमाचार्यसहितायाः परिषद ईक्षणार्थम् । मन्त्रार्थस्तु-हे सपरिषदकाचा-
र्य्याः ! गुरुत्वादत्र बहुवचनम्(१) । ‘चक्षुष’ इति जात्येकवचनम् । ‘यक्ष इव’
यक्षो यथा दर्शनीयतया प्रियो भवति तथाहं ‘वः’ युष्माकं ‘प्रियः’ ‘भूयासम्’
भवेयमिति ॥ १४ ॥ २८ ॥
उपोपविश्य मुख्यान्प्राणान्संमृशन् “ओष्ठापिधाना नकुली-”ति॥२९॥
( मं० ब्रा० १ । ७ । १५ )
उप-आचार्य्यसमीपे । मुख्यान्-मुखेभवान् । प्राणान्-वायून् । तेषाम-
मूर्त्तत्वात् तदायतनानि संमृशन्-स्पृशन् । “ओष्ठापिधाना” इत्येतदादिकं
मन्त्रं “जपेद्”-ति शेषः सर्वत्र । मन्त्रो यथा—
“ओष्ठापिधाना नकुली दन्तपरिमितः पविः ।
जिह्वे मा विह्वलो वाचं चारु माद्येह वादय ॥ १५ ॥” इति ।
अस्यार्थः-स्नातकेन जिह्वा स्वा प्रार्थ्यते-हे ‘जिह्वे’ ‘इह’ प्रस्तुते कर्म्मणि ।
( १ ) तथाच स्मर्य्यते-“एकत्वं न प्रयुञ्जीतगुरावात्मनि चेश्वरे” इति । एकत्व-
मेकवचनम् ।
४ कण्डिका ] गोभिलगृह्यसूत्रे- २५६
'अद्य' त्वं 'मा विह्रुष' विश्लथसञ्चलनं मा विधेहि । उः (१)पादपूरणे । किन्तु
'मा' माम् । 'चारु' शोभनं यथा स्यात्तथा 'वाचं' (२) 'वादय' । यतस्त्वम् 'ओ-
ष्ठापिधाना' ओष्ठावपिधान(३)नावरणं यस्याः सा । तथा 'नकुली' कुक्कुटीव ।
नकुलपत्नीव वा चञ्चलस्वभावा(४) । अत्र सादृश्यमूलकस्तत्त्वारोपः । एवम-
ग्रेऽपि । तथा 'दन्तपरिमितः पविः' (५)दन्तावरणभूता वज्रवत्त्वं भवसि ॥१५॥
अत्रैनमाचार्योऽर्हयेत् ॥ ३० ॥
अत्र-एतस्मिन्नवसरे । एनं-स्नातकम् । अचार्य्य "उत्तरतोगम्" ( ४।१०।
१ सू० ) इत्यादिना वक्ष्यमाणेन विधिना अर्हयेत्-पूजयेत् । तथाच मनुः-
“तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणन्तल्प आसीनमर्हयेत्प्रथमं गवा ॥”
इति । तं स्नातकम् । स्वधर्मेण स्वधर्म्मानुष्ठानेन प्रतीतं-ब्रह्मचर्य्यमारभ्य-
(६)ख्यातम् । पितुः-पितुतः । दीयत इति दायः । ब्रह्म एव दायो ब्रह्मदायस्तस्य
हरम् । पितृतो(७)गृहीतवेदमित्यर्थः । स्रग्विणं-मालयाऽलङ्कृतं तल्पे-उत्कृष्ट-
शय्यायाम्(८) । आसीनमुपविष्टम् कृत्वा प्रथमं विवाहात्प्राक् । गवा-गोसाध-
नमधुपर्केण । पिता अन्यो वा वरयिता अर्हयेन्-पूजयेत् । इत्यर्थः । अत्र केचित्
"कर्मणःकरणसंज्ञासम्प्रदानस्य च कर्म्मसंज्ञा" ( पा० ।३।१।३ वा० ) इति
विभक्तित्र्यत्ययदर्शनेन गान्तस्मैद(९)द्यादित्यप्यर्थमाहुः ॥ ३० ॥
गोयुक्तꣳरथमुपसङ्क्रम्य पक्षसी कूबरं बाहुं(१०)वाऽभिमृशेत् ।
“वनस्पते वीड्वङ्गोहिभूया” इति ॥३१॥
(.सं० ब्रा० १।७।१६ )
( १ ) तथा च निरुक्तम् । “अथापि पदपूरणः । इदमु तदु” ( २-३-९) इति ।
( २ ) ब्रूविणा समानार्थकत्वाद्विकर्म्मकता ( पा० १।४।५१ ) ।
( ३ ) “तथाचामरः अपिधानतिरोधानपिधानाच्छादनानि चे”ति ।
( ४ ) “नकुली कुक्कुटीमांस्योः पशुपाण्डवयोः पुमान्” इति मेदिनी । अत्र पशुश्च-
तुष्पाज्जन्तुविशेषएव ।
( ५ ) “ह्लादिनी वज्रमस्त्रीस्यात्कुलिशम्भिदुरं पविः” इत्यमरः ।
( ६ ) “प्रतीते निपुणख्यातविच्छविज्ञातविश्रुताः” इत्यमरः ।
( ७ ) उपलक्षणमेतदाचार्य्यादेः । “पितैवापनयेत्पुत्रम्” इत्यादिना पितुरेवोपनयने
मुख्यः अधिकारः । “उपनीयगुरुःशिष्यं शिक्षयेच्छौचमादितः । आचाय्यमग्निकार्य्यञ्च स-
न्ध्योपासनमेव चे”ति च मनुःस्मरति । पितुरभावेऽन्योऽपि तत्स्थानीयः सगोत्रः ।
( ८ ) “तल्पन्तु शयनीये स्यादि”ति विश्वः ।
( ९ ) गोदानमत्रगार्हस्थ्यधर्म्मप्रतिपालनार्थम् तां विनाऽग्निकार्य्याद्यसम्भ्रवतीति ।
( १० ) अत्र कूबरबाहु वेति चन्द्रकान्तभाष्यकृद्भिर्धृतः 'पाठः । कूबरो युगन्धरः ।
३६० समावर्त्तनविधिः । [ ३ प्रपाठके
गोभिर्युक्तं रथम् । उपसङ्क्रम्य-सम्यगुपेत्य । पक्षसी(१)-चक्रे । कूबरं-
रथिस्यानम् । बाहुं-चक्रालम्बिकीलकं वा । अभिमृशेत्-स्पृशेत् । "वनस्पते"
इति मन्त्रेण पादत्रयेण ।
मन्त्रोयथा-
"वनस्पते वीड्वङ्गोहि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धो असि वीडयस्वास्थाते जयतु जेत्वानि ॥" १६ ॥
इति । अस्यार्थः । हे 'वनस्पते' ! वनस्पति-( वृक्ष- ) (१)विकाररथ !
त्वं 'वीड्वङ्गः' संस्तब्धाङ्गोदृढावयवः । वीडयतिः संस्तम्भनकम्मो नैरूक्तो-
धातुः । ततो "भृमृशी"त्यादिना ( उ० १।७। ) उप्रत्ययो बाहुलकात् । संस्त-
ब्धोदृढाभवत्यनेनेति । संस्तभ्यन्ते शत्रवोऽनेनेति वा वीडु-बलिष्ठम् ( निघं०
३।९।१५ ) वीडूनि-दृढानि महाभारसहानि अङ्गानि चक्रकूबर(२)प्रभृतीनि य-
स्यसः । तथा 'अस्मत्सखा' वयंसखायोयस्य तादृशश्च 'भूयाः' भव । किञ्च
'प्रतरणः' प्रकर्षण तर(३)न्ति दुर्गाणि येन सः । 'सुवीरः' शोभनाः वीराः
शूरभटाः पुत्रादयोवा यस्मा(४)त्सः । एवम्भूतोभव । त्वं 'गोभिः' वृषभौः
'सन्नद्धः' संयुक्तः (५)'असि' भवसि । अतस्त्व(६)मस्मानपि 'वीड-
यस्व' दृढीकुरु(७) । किञ्च 'ते' तव 'आस्थाता' आरोढा ( त्वय्यवस्थि-
तोरथी ) 'जेत्वानि' जेतव्यानि द्विषद्बृन्द्वानि(८) 'जयतु' अभिभव-
तु(९) ॥ १६ ॥ इति ॥ ३१ ॥
( यत्र रथस्याश्वा बध्यन्ते तत्काष्ठम् । युगकाष्ठवन्धनस्थानम् वा ) युगं वोढुर्वन्धनकाष्ठ-
न्धारयतीति युगन्धरः । तस्य बाहू इव बाहू । कूबरबाहू-कूबरपार्श्वौ । तौ वा । कूबरोर-
थिस्थानं, तस्य बाहू कूबरबाहू-रथस्येषे इतिकेचिदित्येवं तद्व्याख्यानञ्च तत्रैव भाष्ये ।
( १ ) अमरकोशे वृक्षपर्याये "वानस्पत्यः फलैः पुष्पैस्तैरपुष्पाद्वनस्पतिरि-"त्युक्तम् ।
तदत्र तद्विकारेऽपि तच्छब्दप्रयोगः फलवत् ॥
( १ ) "पक्षसी च स्मृतौ पक्षौ" इति अमरटीकायां व्याख्यासुधायां शुभाङ्कः ।
( २ ) "कूबरस्तु युगन्धरः" इत्यमरः ।
( ३ ) प्रवर्द्धयितेतिसायणः । करणे ल्युट् । (पा० ३।३।११७) योरनः (पा० ७।१।१ ) ।
( ४ ) एतद्विशेषणेनास्य शुभावहत्वमाशास्यते । अत्र-सुसारथिरिति गुणविष्णुः ।
( ५ ) सायणस्तु-गोभिर्गोविकारैश्चर्मभिः । सन्नद्धः सम्यग्बद्धः । तथाच निरुक्तम् ।
"अथापि चर्म च श्लेष्मा च गोशब्देनोच्यते । पृथगाभिः सम्बद्ध इति" इति । (२।६)
( ६ ) यतस्त्वं वीड्वङ्गः । ( ७ ) दृढावयवान्कुरु ।
( ८ ) शत्रुसैन्यानि । "जिजये" ( भ्वा० प० ) "कृत्यार्थे तवैकेन्केन्यत्वनः" ( पा०
३।४।१४ ) इति तव्यार्थे त्वन्प्रत्ययः ।
( ९ ) "जिजि अभिभवे" ( भ्वा०प० ) आंभभवोन्यूनीकरणं न्यूनीभवनञ्च । आद्ये-
सकर्मकोद्वितीयेऽकर्मकः ।
ततोरथमारुह्य—
“आस्थाता ते जयतुजेत्वानी”—त्यातिष्ठति ॥ ३२ ॥
“आस्थाता ते” इतिमन्त्रचतुर्थपादेन र थमातिष्ठति-आरोहति(१) ॥३२॥
प्राङ्वोदङ्वा अभिप्रयाय प्रदक्षिणमावृत्योपयाति ॥ ३३ ॥
ततः प्राङ्-मुख-उदङ्मुखोवा । अभिप्रयाय-सर्वतोभावेन प्रकर्षेण गत्वा
प्रदक्षिणं दक्षिणेन प्रगतं यथास्यात्तथा आवृत्य-आवर्तनङ्कृत्वा । उपयाति-
उपयायादाचार्यसमीपमागच्छेत् ॥ ३३ ॥
उपयातायार्घ्यमिति कौहलीयाः ॥ ३४ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रस्यतृ० प्र० के चतुर्थी कण्डिका ॥३॥४॥ॐ॥
कौहलीयाः । शाखाविशेषाध्यायिनस्तु-रथादवरुह्याचार्यसमीपमुपयातायो-
पागताय स्नातकाय अर्घ्यमर्हण-माचार्येण पित्रा वा कर्त्तव्यन्न तु पूर्वमिति
मन्यन्ते ॥ ३४ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्मुदुलाख्यायां मुकुन्दशर्म्मसङ्क-
लितायां तृतीयस्य प्रपाठकस्य चतुर्थी कण्डिका ॥ ३ ॥ ४ ॥*॥
( इति समावर्त्तनम् )
अथार्हणाविधिप्रदर्शनाय चतुर्थप्रपाठकस्य दशमी कण्डिका
उत्तरतोगां बध्वोपतिष्ठेरन्—“अर्हणात्पुत्रवाससे”—ति ॥१॥
( मं० ब्रा० १।८।१ )
अथ क्रमप्राप्तानामर्हणामन्त्राणां विनियोगं वक्तुमुपक्रमते-उत्तरत इति ।
उत्तरतः । उत्तरस्यान्दिशि । सार्वविभक्तिकस्तसिः (पा० ५।४।४४ वा०) अर्थात्
अर्हणाप्रदेशस्य । “यत्रैनमर्हयिष्यन्तः स्युः” ( ४।१०।२ ) इत्युत्तरसूत्रात् ।
गां स्त्रीगवीम् । धेनुरित्यादिमन्त्रलिङ्गात् । उपतिष्ठेरन् । आराधयेयुः । उपात्ति-
ष्ठतेर्देवपूजायामात्मनेपदविधानात् । ( पा० १।३।२५ वा० ) अत्रदेवेत्युपलक्षणं
पूज्यमात्रस्येति गामेव । के ? येऽर्हयिष्यन्तः स्युः । तथा च सर्वैरेव गृहस्थितै-
रर्हणीयार्हणार्थमप्रमत्तैर्भवितव्यमिति तात्पर्यार्थः । मुरारिमिश्रास्तु—
अर्हणीयपरित्राणार्थमुपतिष्ठेरन्नित्युक्त्वा वाजसनेयश्रुतिन्दर्शयाम्बभूवुः-
“यत्रचार्हन्नागच्छति सर्वे गृह्या इतरे तत्रतथेह परित्रातोभवति”—ति ।
गृह्या यजमानदायादाः । उपस्थानञ्चेदमूर्ध्वस्थितेनैव कार्यम् । आचारात् ।
न्यायाच्च । नह्यर्हणीये ऊर्ध्वस्थिते स्वयमुपविश्यत इति युज्यते । इति ॥ उप-
( १ ) रथे सम्यक्स्थितिः । आङत्र मर्यादायाम् ।