सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 292, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 292

ततोरथमारुह्य—
“आस्थाता ते जयतुजेत्वानी”—त्यातिष्ठति ॥ ३२ ॥
“आस्थाता ते” इतिमन्त्रचतुर्थपादेन र थमातिष्ठति-आरोहति(१) ॥३२॥
प्राङ्वोदङ्वा अभिप्रयाय प्रदक्षिणमावृत्योपयाति ॥ ३३ ॥
ततः प्राङ्-मुख-उदङ्मुखोवा । अभिप्रयाय-सर्वतोभावेन प्रकर्षेण गत्वा
प्रदक्षिणं दक्षिणेन प्रगतं यथास्यात्तथा आवृत्य-आवर्तनङ्कृत्वा । उपयाति-
उपयायादाचार्यसमीपमागच्छेत् ॥ ३३ ॥
उपयातायार्घ्यमिति कौहलीयाः ॥ ३४ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रस्यतृ० प्र० के चतुर्थी कण्डिका ॥३॥४॥ॐ॥
कौहलीयाः । शाखाविशेषाध्यायिनस्तु-रथादवरुह्याचार्यसमीपमुपयातायो-
पागताय स्नातकाय अर्घ्यमर्हण-माचार्येण पित्रा वा कर्त्तव्यन्न तु पूर्वमिति
मन्यन्ते ॥ ३४ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्मुदुलाख्यायां मुकुन्दशर्म्मसङ्क-
लितायां तृतीयस्य प्रपाठकस्य चतुर्थी कण्डिका ॥ ३ ॥ ४ ॥*॥
( इति समावर्त्तनम् )
अथार्हणाविधिप्रदर्शनाय चतुर्थप्रपाठकस्य दशमी कण्डिका
उत्तरतोगां बध्वोपतिष्ठेरन्—“अर्हणात्पुत्रवाससे”—ति ॥१॥
( मं० ब्रा० १।८।१ )
अथ क्रमप्राप्तानामर्हणामन्त्राणां विनियोगं वक्तुमुपक्रमते-उत्तरत इति ।
उत्तरतः । उत्तरस्यान्दिशि । सार्वविभक्तिकस्तसिः (पा० ५।४।४४ वा०) अर्थात्
अर्हणाप्रदेशस्य । “यत्रैनमर्हयिष्यन्तः स्युः” ( ४।१०।२ ) इत्युत्तरसूत्रात् ।
गां स्त्रीगवीम् । धेनुरित्यादिमन्त्रलिङ्गात् । उपतिष्ठेरन् । आराधयेयुः । उपात्ति-
ष्ठतेर्देवपूजायामात्मनेपदविधानात् । ( पा० १।३।२५ वा० ) अत्रदेवेत्युपलक्षणं
पूज्यमात्रस्येति गामेव । के ? येऽर्हयिष्यन्तः स्युः । तथा च सर्वैरेव गृहस्थितै-
रर्हणीयार्हणार्थमप्रमत्तैर्भवितव्यमिति तात्पर्यार्थः । मुरारिमिश्रास्तु—
अर्हणीयपरित्राणार्थमुपतिष्ठेरन्नित्युक्त्वा वाजसनेयश्रुतिन्दर्शयाम्बभूवुः-
“यत्रचार्हन्नागच्छति सर्वे गृह्या इतरे तत्रतथेह परित्रातोभवति”—ति ।
गृह्या यजमानदायादाः । उपस्थानञ्चेदमूर्ध्वस्थितेनैव कार्यम् । आचारात् ।
न्यायाच्च । नह्यर्हणीये ऊर्ध्वस्थिते स्वयमुपविश्यत इति युज्यते । इति ॥ उप-
( १ ) रथे सम्यक्स्थितिः । आङत्र मर्यादायाम् ।