सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 279, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 279

२४८ समावर्त्तनविधिः । [ २ प्रपाठके-
इति । दारानिति(१) । स्नानात्प्रागेव कन्यां प्रार्थयेदित्यर्थः । तेन नाश्रम-
क्रम(२)विरोधस्सम्भवति । तथाच कात्यायनः—
“यदि दत्ता भवेत्कन्या वाचा सत्येन केन चित् ।
सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥”
इति । अन्यथा—कन्यामप्राप्य । समावर्त्तने कृते तदुत्तरं कन्यालाभविल-
म्बेऽनाश्रमित्वं स्यात्तच्चानिष्टम् । तथाच मनुः—
“अनाश्रमी न तिष्ठेत दिनमात्रमपि द्विजः ।
आश्रमेण विना तिष्ठन्प्रायश्चित्तीयते हि सः ॥” इति ।
तस्माद्व्रतस्थ एव कुतश्चित्कन्यां प्राप्य पुण्यदिने स्नात्वा तदुत्तरदिने
विवाहं कुर्यादिति वर्त्तुलार्थः । कात्यायनः-
“अनूढे^व तु सा कन्या पञ्चत्वं यदि गच्छति ।
न तदा व्रतलोपः स्यात्तेनैवान्यां समुद्वहेत् ॥”
अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् ।
तमग्निमात्मसात्कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥”
इति । तेनैव-कृतान्तिमसमिदाग्निनैव ॥ ३ ॥
कीदृशान्दारान्कुर्वीत ? इत्युच्यते—
असगोत्रान् ॥ ४ ॥
गोत्रं-प्रसिद्धम् । (३)समानं गोत्रं येषान्ते सगोत्रास्तद्भिन्नान् असगोत्रान् ।
दारान्कुर्वीतेति गतेन सम्बन्धः । एवमग्रेऽपि ॥ ४४ ॥
मातुरसपिण्डान् ॥ ५ ॥
मातुः सपिण्डा ये न भवन्ति तान् । सापिण्ड्यमुक्तपूर्वमनुसन्धेयम् ॥ ५ ॥
नाग्निकातु श्रेष्ठा ॥ ६ ॥
नाग्निकेत्यनागतार्त्तवोच्यते । “नाग्निकाऽनागतार्त्तवे”त्यमरात् । सा तु
श्रेष्ठेति तादृशान्दारानुद्वहेदिति केचिद्व्याचक्षते । नैतत्सुन्दरम् । दारानित्युपात्त-
( १ ) उक्तमपि ( २।३।१ सू० ) दारकरणमिहाज्ञातत्वाद्विरूपगुणविधानार्थम्पुनरु-
च्यते । दारार्थं वा । अथवा दारान् कुर्वीत । कर्तुं प्रयतेतेत्यर्थः । तदनेन दारकरणाय
प्रयत्नोविधीयते न तु दारकरणम् । तस्य दानोत्तरभावित्वात् । इत्युक्तमनुवचनादव-
सीयते ॥
( २ ) ब्रह्मचारी-गृही भूत्वा वनी भवेद्वनीभूत्वा प्रव्रजेत् इति श्रुतेः । “आश्रमा-
दाश्रमं गच्छेद्”ति स्मृतेश्च ॥
( ३ ) समानता वरगोत्रेण । “समभिव्याहृतपदेनोत्थिताकाङ्क्षा प्रधानक्रियाकर्त्रा
शाम्यती”ति नियमात् । तेन “समावरं पितरं नमस्करोती”-त्यत्र नमस्कर्तृनिरूपितमेव
मातृत्वमिति सिद्धम् ॥