गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 211, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १९१
एकैकं षोडशपलं कोलानामाढकं तथा ।
दन्तीचित्रकमूलानां पञ्चविंशत्पलं पृथक् ॥ ३०५ ॥
चतुर्गुणे जले पक्त्वा ग्राहमर्धावशेषितम् ।
शीते समावपेद्भाण्डे प्रलिप्ते मधुसर्पिषा ॥ ३०६ ॥
खण्डस्य द्विशतं शुद्धं तद्वल्लोहस्य दापयेत् ।
पत्रीकृतं तिलोत्सेधं सूक्ष्मचूर्णान्यमूनि च ।
प्रियंगुं पिप्पलीं लोध्रं मृद्वीकां चेलवालुकम् ॥ ३०७ ॥
क्रमुकं शतपुष्पां च निम्बं तेजोवतीमपि ।
पलिकं देवदारोश्च खदिराच्च चतुष्पलम् ॥ ३०८ ॥
क्षौद्रप्रस्थद्वयं चापि समावाप्य घटे शुभे ।
सौम्ये पुष्ये तथा हस्ते रोहिण्यामुत्तरासु च ॥ ३०९ ॥
दशरात्रस्थितः पेयोऽरिष्टश्चात्रेयपूजितः ।
अश्विभ्यां कथितः पूर्वं रसायनवरो ह्ययम् ॥ ३१० ॥
मात्रामग्निवलापेक्षी पिबेदस्य हिताशनः ।
धन्यः पुष्टिकरो बल्यो वलीपलितनाशनः ॥ ३११ ॥
ज्वरे धान्यकाद्यरिष्टः ।
धान्यकोशीरमुस्तानां पलमेकत्र कारयेत् ।
द्विपलं पद्मकं कुष्ठं कुर्यान्निम्बं तदर्धकम् ॥ ३१२ ॥
सर्वांशेन ततो दद्याच्छिन्नाङ्गां च फलत्रिकम् ।
जलद्रोणद्वयं दत्त्वा षोडशांशेन संहरेत् ॥ ३१३ ॥
पलं दार्व्यास्ततस्तस्मिन् शीतपूते भिषग्वरः ।
मधुनः षोडशपलं दत्त्वा सर्वं विमन्थयेत् ॥ ३१४ ॥
स्थापयेद्धृतभाण्डे तु मासादूर्ध्वं प्रयोजयेत् ।
धान्यकादिररिष्टोऽयं सर्वज्वरविनाशनः ॥ ३१५ ॥
धातुक्षये लवङ्गासवः ।
देवपुष्पं वराङ्गं च केशरं पृथुका तथा ।
कलौञ्जी मर्कटीबीजं मूशलीद्वयगोक्षुरम् ॥ ३१६ ॥