सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 212, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 212

१९२ आयुर्वेदौयग्रन्थमाला । [आसवाधिकारः
बलाबीजानि पोस्तत्वक् बीजं च करहाटकम् ।
पृथक् पृथक् प्रकुर्वीत पलानां पञ्चकं तथा ॥ ३१७ ॥
चतुर्द्रोणेऽम्भसः पक्त्वा कुर्यात्पादावशेषितम् ।
शठी च पिप्पलीमूलं मरिचं साश्वगन्धकम् ॥ ३१८ ॥
शुण्ठी जातीफलं चापि कुङ्कुमं जातिपत्रिका ।
आकल्लुकं कबाबं च एला कृष्णाऽगुरुस्तथा ॥ ३१९ ॥
तालीसं चन्दनं चैव विजया क्षीरकन्दका ।
वृद्धदारुभवं बीजं क्रमुकं वंशरोचना ॥ ३२० ॥
धत्तूरस्य च बीजानि पलमात्राणि कारयेत् ।
सर्वमेकत्र संचूर्ण्य पूते शीते विनिक्षिपेत् ॥ ३२१ ॥
द्वात्रिंशत्पलिकं क्षौद्रं धातक्याश्च पलाष्टकम् ।
तुलार्थं तु गुडाज्जीर्णाद्घृतभाण्डे विनिक्षिपेत् ॥ ३२२ ॥
मासादूर्ध्वं पिबेदेनं प्रमेहं हन्ति दुर्जयम् ।
धातुक्षयं जयेच्छीघ्रं लवङ्गाद्यासवस्त्वयम् ॥ ३२३ ॥
विद्रधौ वरुणासवः ।
शतं पलानां वरुणस्य मूलं त्वक् शिंशपायाश्च तदर्धमात्रा ।
तावत्तथा पुष्करमूलमुक्तं तदर्धममिश्र तदर्धमात्रः ॥ ३२४ ॥
कुरण्टको रोहीतकत्वचश्च तावच्च शिग्रुर्दशमूलकं च ।
पलानि विंशत्खलु देवदारोः क्षुद्रा च तुल्या सुरदारुणा च ३२५
दर्भस्य मूलानि पलानि पञ्च हिंस्रातरोस्त्रीणि च कण्टकार्याः ।
राजादनस्यापि पलानि सप्त शतावरीमूलपलत्रयं च ॥ ३२६ ॥
तत्तुल्यकाश्मर्यकमर्जुनश्च शृङ्गी शताह्वा गजपिप्पली च ।
बलाशठीनागबलाकरञ्जत्रायन्तिकाकेबुकमेषशृङ्ग्यः ॥ .३२७ ॥
कुष्ठं च वासासितकर्बुकं च विडङ्गकृष्णातिविषाश्च जीरकम् ।
चव्यं च रास्नोत्पलसारिवा च स्यात्कौटजश्चाऽप्यथ दीप्यकं च॥