गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 134, कुल 286 में से
संदर्भ में पढ़ें११६ आयुर्वेदग्रन्थमाला । [गुटिकाधिकारः
गलरोगे पिप्पल्यादिक्षारगुटिका ।
पिप्पलीनामेक कर्षं मरिचानां तथैव च ।
दाडिमस्य पलार्धं च गुडस्य च पलद्वयम् ॥ १५१ ॥
यवक्षारार्धकर्षं च गुटिकां कारयेद्भिषक् ।
मुखेन धारिता हन्ति कासश्वासगलामयान् ॥ १५२ ॥
कफरोगे वत्सनाभाद्या गुटिका ।
वत्सनाभवल्लयुगं वल्लषट्कं त्रिकटुकचूर्णस्य ।
चित्रकवल्लद्वितयं पिप्पलीमूलस्य वल्लयुगम् ॥ १५३ ॥
अभयावल्ला द्वादश द्वादशद्विगुणा च गुग्गुलोर्वल्लाः ।
गुटिका धार्या वदने क्षणदायां कफविनाशार्थम् ॥१५४॥
त्रिकटुकाद्या गुटिका ।
त्रिकटुत्रिफलादुरालभाद्विनिशेदारुवचाः सचित्रकाः ।
रसगन्धककर्कटाह्वया रुचककट्फलहिङ्गुपत्रिकाः ॥ १५५ ॥
इति दर्शितभेषजैर्गुटी मधुना कर्षमिता कृता नृणाम् ।
प्रणिहन्ति निषेविता नरैः पवनासृक्कफकोपजान्विकारान् १५६
भार्ग्यादिगुटिका ।
मार्गी सकृष्णा द्विनिशेन्दुकान्तापथ्याबिभीत्वचकुष्ठविश्वाः ।
कन्यारसेनापि गुटिर्विधेया सश्वासकासामरुचिं निहन्ति १५७
ज्वरे त्रिवृताद्यो मोदकः ।
त्रिवृतापिप्पलीयुक्तो गुडसर्पिर्विभावितः ।
मण्डानुपानो दातव्यो मोदकः सन्निपातहा ॥ १५८ ॥
कम्पिल्लकाद्यो मोदकः ।
कम्पिल्लकत्रिवृत्कृष्णापथ्यानागरकैरपि ।
सितागुडयुतो ह्येष मोदको ज्वरिणां हितः ॥ १५९ ॥
शीतानुपानस्तृट्छर्दिनाशनः पित्तरोगजित् ।
त्रिफलाद्यो मोदकः ।
समुद्भवोषत्रिफलं शर्करात्रिवृतार्धकम् ॥ १६० ॥