गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 133, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । ११५
लाक्षां रसाञ्जनं मांसीत्रिफलारोध्रवालुकम् ।
रजन्यौ फलिनीमेलां समङ्गां कट्फलं वटम् ॥ १४० ॥
यवासागरुपत्तङ्गैरैकाञ्जनमावपेत् ।
लवङ्गजातीकङ्कोलजातीकोशान् पलोन्मितान् ॥१४१॥
कर्पूरकुडवं चापि पुनः शीतेऽवतारयेत् ।
ततस्तु गुटिकाः कार्याः शुष्कास्त्वास्ये निधापयेत् १४२
तैलमेतेन कल्केन कषायेण समावपेत् ।
शूलप्रबलविभ्रंशशौषिर्यकृमिदन्तनुत् ॥ १४३ ॥
जाड्यदौर्गन्ध्यतिक्तत्वमुखप्रक्लेदपाकजित् ।
गलशोषपरीदाहसादसंदोहलेपहृत् ॥ १४४ ॥
दन्तास्यगलपाकेषु सर्वेष्वेवतत्परायणम् ।
मुखरोगे द्वितीयखदिरगुटिका ।
खदिरस्य तुलां शुद्धां जलद्रोणे विपाचयेत् ॥ १४५ ॥
शेषेऽष्टभागे तस्यैव पुनः कल्कं प्रदापयेत् ।
जातीकर्पूरपूगानि सकङ्कोलपलानि च ॥ १४६ ॥
इत्येषां गुटिका कार्या मुखसौभाग्यवर्धनी ।
दन्तोष्ठमुखरोगेषु जिह्वाताल्वामयेषु च ॥ १४७ ॥
मुखरोगे तृतीया खादिरगुटिका ।
कुङ्कुमलवङ्गपत्रत्वक्त्रुटिशङ्खाम्बुजानि तुल्यानि ।
कङ्कोलजातिमृगमदभागैस्त्रिगुणीकृतैः सम्यक् ॥१४८॥
पञ्चाशत्खदिरस्य भागाः सप्तैव शशधरस्यापि ।
सहकारतैलयुक्ताः खदिरगुटिकाश्च रोगघ्न्यः ॥ १४९ ॥
गलरोगे मरिचाद्या गुटिका ।
मरिचं पिप्पली पाठा यवक्षारं सनागरम् ।
एलापत्रत्वचं पथ्या सैन्धवं चाम्लवेतसम् ॥ १५० ॥
मधुना गुटिका ह्येषा कण्ठरोगविनाशिनी ।