सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 135, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 135

४.] गदनिग्रहः । ११७
मोदकं भक्षयित्वा तु पिबेच्चोष्णं जलं पुनः ।
पार्श्वशूलेऽरुचौ कासे ज्वरे चानिलसंभवे ॥ १६१ ॥
ज्वरे सप्तलाद्यो मोदकः ।
सप्तला पिप्पलीमूलं श्यामा दन्ती पृथक् पृथक् ।
समं दशपलैर्भागैर्दशमूली तुलासमा ॥ १६२ ॥
हरीतक्यक्षधात्रीणां प्रस्थं प्रस्थं समावपेत् ।
जलद्रोणद्वये पक्वं पूतं पादावशेषितम् ॥ १६३ ॥
विडङ्गं मुस्तकं श्यामां शङ्खिनीं मालतीमपि ।
त्रिवृत्योषणयुतं ह्येतत्कृत्वा चूर्णं रसे क्षिपेत् ॥ १६४ ॥
वटकानक्षमात्रांस्तु वातश्लेष्मकृते ज्वरे ।
शूले पक्वाशयस्थे च शुद्ध्यर्थे भक्षयेदिमान् ॥ १६५ ॥
आमे कृष्णाद्या गुटिका ।
कृष्णाशताह्वाशुण्ठीनामभयानां पलं पलम् ।
गुडस्य षट्पलान्येषां गुटिका अमनाशिनी ॥ १६६ ॥
ज्वरातिसारे कट्फलाद्या वटकाः ।
कट्फलबिल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम् ।
लाक्षा हरिद्रे ह्रीबेरं कट्फलं शुकनासिकाम् ॥ १६७ ॥
रोध्रं मोचरसं शङ्खं धातकीवटशुङ्गकान् ।
पिष्ट्वा तण्डुलतोयेन वटकानक्षसंमितान् ॥ १६८ ॥
छायाशुष्कान्पिबेत्क्षिप्रं ज्वरातीसारशान्तये ।
रक्तपित्तप्रशमनान् शूलातीसारनाशनान् ॥ १६९ ॥
प्लीहोदरे रोहितकवटकाः ।
भागा पञ्चदशार्धकोलिकभवा रोहीतकस्य त्रयः
पथ्यायास्त्रय एव तद्द्विगुणितं संयोज्य सिद्धं गुडम् ।
चातुर्जातकभागसंगसुरभीनश्नन्नरो मोदकान्
प्लीहार्शःश्वयथूदरज्वरवमीन् गुल्माग्निसादाञ्जयेत् १७०