सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 86, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 86

७८ द्रव्यवर्गः ।
सामुद्रं तन्न पातव्यं मासादाश्वयुजाद् विना ॥३॥
खाम्बु गाङ्गाभवं हृद्यं ह्लादि बुद्धिप्रबोधनम् ।
तन्व्यव्यक्तरसं सृष्टं शीतं लघ्वमृतोपमम् ॥
जीवनं तर्पणञ्चैव तदन्नाभसभूमिगम् ॥ ४ ॥
कारकं तोयममृतं नैहारं सर्वदोषकृत् ।
अवश्य्यायभवं रूक्षं वातलं लघु शीतलम् ॥
दाहासृक्पित्ततृट्छर्द्दि सक्थिस्तम्भादिपूजितम्॥५
क्षणविपर्य्ययेण सामुद्रमिति ज्ञात्वा तन्न पातव्यम् । अथ किं
सदैव तन्न पातव्यमित्यत आह मासादाश्वयुजाद्विनेति । एतच्च
आन्तरिक्षजलग्रहणादिकालप्रदर्शनपरम् । तेन कार्त्तिकेऽपि
शरद्रूपे हेमन्ते चान्तरिक्षजलग्रहणमविरुद्धं भवति । यदाह
हारीतः
प्रवृत्तायां शरदद्यस्मात् पश्चाद्वाते प्रवाति च ।
हेमन्ते चापि गृह्णीयात्तज्जलं मृण्मयैर्घटैरिति ॥ ३ ॥
तत्र प्रशस्तस्य धाराख्यान्तरिक्षजलस्य गुणमाह खाम्बु इति ।
हृद्यमिति मनःप्रसादकत्वात् । तनु स्वच्छम् । सृष्टमित्यास्वाद-
सुखम् । जीवनं जीवनहेतुत्वात् ओजोवृद्धिकरमित्यरुणः ।
सौम्यधातुवर्धनमित्यन्ये । तर्पणं क्लमहृत् । भौमजलेऽपि
क्वचिदान्तरिक्षजलगुणानतिदिशति तद्वन्नाभसभूमिगमिति ।
नाभसी नभोगुणभूयिष्ठा भूमिः तद्गतं जलमपि तद्वदान्तरिक्ष-
गाङ्गजलवदित्यर्थः । सुश्रुतेऽप्युक्तम् आकाशगुणभूयिष्ठायामव्यक्त-
रसं तत् पेयमान्तरीक्षालाभ इति ॥ ४ ॥
कारतौषारहैमानापि क्रमेण गुणानह कारकमित्यादि ।