द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 87, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ७८
नादेयं वातलं रूक्षं दीपनं लघु लेखनम् ॥ ६ ॥
नादेऽभिष्यन्दि मधुरं सान्द्रं गुरु कफापहम् ॥७॥
सारसं तुवरं बल्यं तृष्णाघ्नं मधुरं लघु ॥ ८ ॥
ताड़ागं वातलं स्वादु कषायं कटु पाकि च ॥ ६ ॥
वाप्यं सक्षारकटुकं पित्तलं कफवातनुत् ॥१०॥
कौपं कफघ्नं सक्षारं पित्तलं लघु दीपनम् ॥ ११ ॥
चौण्डमग्निकरं रूक्षं मधुरं कफकारि च ॥ १२ ॥
नैर्भरं लघु पथ्यञ्च दीपनं कफनाशनम् ॥ १३ ॥
औद्भिदं पित्तशमनं मधुरं न विदाहि च ॥ १४ ॥
अवश्यायसंहतीभूतं हिमम् । सक्थिस्तम्भ ऊरुस्तम्भः । तद्ध-
न्तृत्वञ्च श्लेष्ममेदोहरत्वात् । तदुक्तं मेदः श्लेष्मसुपूजितमिति ॥ ५ ॥
नादेयादिभेदभिन्नानां भौमजलानां गुणमाह नादेयमिति ।
नादेयं गङ्गादिनदीभवम् । लेखनं कर्षणम् ॥ ६ ॥
नदः शोणभद्रादिः तत्र यज्जलं तत् एवंगुणमित्यर्थः । कफा-
पहं कफहारम् ॥ ७ ॥
सरो दिव्यखातं पुरुषव्यापारं विना ॥ ८ ॥
तट उच्चप्रदेशस्तस्मादागो गतिर्यस्य स तड़ागः । स पुन-
रुच्चप्रदेशादागच्छज्जलस्य निम्नप्रदेशे बन्धनाद्भवति ॥ ६ ॥
वापी इष्टकादिबद्धसोपाना दीर्घिका ॥ १० ॥
कूपो मृत्पट्टेष्टकादिबद्धसोपानः ॥ ११ ॥
चुण्डो नवकूपः प्रत्यासन्नजलः स पुनर्नाद्यादिसमीपे
तत्कालकृता लघुकूपिका ॥ १२ ॥
नैर्भरम् उच्चप्रदेशात् प्रस्रवज्जलम् ॥ १३ ॥