सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 85, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 85

द्रव्यगुणाः। ७०
येनाभिवृष्टममलं शाल्यन्नं राजतस्थितम् ।
अक्लिन्नमविवर्णं वा तत् पेयं गाङ्गमन्यथा ।
तत् पतत् पतितञ्चैव देशकालावपेक्षते ॥
इति। सत्यं तत्राप्यान्तरिक्षजलस्य धूलोमलविषलूतादि-
सम्बन्धात् सदोषत्वे तदसम्बन्धाच्च निर्दोषत्वमिति द्वैविध्यमुक्त-
युक्तरेव। अतोऽत्रापि सामुद्रगाङ्गशब्दयोः सदोषनिर्दोष-
त्वमात्रमर्थः। न पुनः समुद्रादुद्धृतं सामुद्रम् गङ्गाया उद्धृतं
मेघैर्गाङ्गमित्यर्थः। तथा सति गङ्गावदपरनदीप्रभृतिभेदादपि
भेदकल्पनापत्तेः। अत्र गङ्गाशब्दो नदोप्रभृतीनां समुद्र-
व्यतिरिक्तजलाशयानामुपलक्षक इत्युच्यते। तथापि चरकेण
समं विरोधो दुष्परिहर एव। किञ्च यदि समुद्रादुद्धृतं सामु-
द्रमित्येवार्थः तदा तस्य त्रिदोषकारित्वात् सामुद्रं तन्न
पातव्यं मासादाश्वयुजादिनेत्यनेनाश्वयुजेऽपि ग्रहणं वक्ष्यमाणं
नोपपद्यते। न च कालविशेषो जलान्तरवत् समुद्रजल-
मपि निर्दोषीकर्त्तुं प्रभवति तस्मात् प्रथमैव व्याख्या युक्ता।
यत् पुनः सामुद्रमप्याश्वयुजे गाङ्गवद्भवतीति सुश्रुतवचनम् तदा-
श्वयुजे आन्तरिक्षस्य निर्दोषतापरम् तदा हि सतोऽपि लूतादि-
दोषसम्बन्धस्य अगस्त्येन हननात्। कालमहिम्ना च बाधित-
त्वात्। तदुक्तं जतूकर्णे
वर्षासु चरन्ति घनैः सहोरगा वियति कीटलूताश्च ।
तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वमिति ॥ २ ॥
गाङ्गसामुद्रयोर्भेदेन ज्ञानोपायमाह येनेति। येनाम्बुना
अभिवृष्टमाभिमुख्यतः सिक्तं शाल्यन्नं रजतपात्रस्थितमक्लिन्न-
मविवर्णञ्च भवति तद्गाङ्गं जलमिति ज्ञात्वा पेयंम् उपयोज्य-
मित्यर्थः। तेन स्नानावगाहयोरपि ग्रहणम्। अन्यथा एतल्ल-