दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 154, कुल 191 में से
संदर्भ में पढ़ेंसुताः । विधिना गोत्रतां यान्ति न सापिण्ड्यं विधीयते ।
स्वगोत्रेषु मध्ये कृता अपि दत्तकादयो विधिनेव गोत्रं भजन्ते
परन्तु तेषु सापिण्ड्यं नोत्पद्यते स्वगोत्रेष्वपि सापिण्ड्यानुत्पत्तौ
परगोत्रेषु सुतरां सापिण्ड्यानुत्पत्तिरिति । तन्न पुत्त्रान्तरवत्
साप्तपौरुषसापिण्ड्यप्रसक्तौ निषेधकं सापिण्ड्यप्रयुक्तदशाहाशौचा-
दिप्रतिषेधकं वा नतु सामान्यत सापिण्ड्यनिषेधकं उक्तवचन-
त्रासात् ।
अथ दत्तकाशौचनिर्णय ।
तत्र शुद्धदत्तकस्य तु जनककुले परस्परमशौचं नास्त्येव
गोत्रपिण्डनिवृत्त्या अशौचनिवृत्तेरर्थसिद्धत्वात् । द्व्यामुष्यायणस्य तु
उभयचैवाशौचमिति । ब्रह्मपुराणे । दत्तकश्च स्वयन्दत्त कृत्रिमः
क्रीत एव च । अपविद्धाश्च ये पुत्रा भरणीया सदैव ते । भिन्न-
गोत्राः पृथक्पिण्डाः पृथग्वंशकराः स्मृताः । जनने मरणे चैव
त्र्यहाशौचस्य भागिन ॥ पराशरः । भिन्नगोत्रं सगोत्रो वा क्रीतं
संस्कुत्य चेच्छया । जनने मरणे तस्य त्र्यहाशौचं विधीयते । तथा
औरसं वर्ज्जयित्वा च सर्व्ववर्णेषु सर्व्वदा । क्षेत्रजादिषु पुत्रेषु जातेषु
दत्तकादीनां जननमरणे त्रिपुरुषसपिण्डानां त्र्यहाशौचमाह
ब्रह्मपुराण इति । यत्तु त्र्यहाशौचं यद्यपि शुद्धदत्तकस्य जननमरण-
योर्धर्म्यं ब्रह्मपुराणे भिन्नगोत्रा पृथक्पिण्डा पृथक्पिण्डा अप-
विद्धा इत्यनेन तदर्थलाभात् सपिण्डदत्तकेषु चाकाङ्क्षानुदयेन
सामान्यसापिण्ड्यप्रयुक्तदशाहाशौचादि हेत्वभावात् । एवमेव चामरु-