दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 110, कुल 191 में से
संदर्भ में पढ़ेंदत्तकमीमांसा । ११६
तथा च शङ्खलिखितौ । सपिण्डता तु विज्ञेया गोत्रतः साप्त-
पौरुषी । पिण्डोदकदानञ्च शौचाशौचं तदानुगमिति । प्रति-
ग्रहीतृपित्रादीनान्तु दत्तकादिमरणे त्रिरात्रमशौचम् । तदाह
बृहस्पतिः । अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । मृतेष्वाप्लुत्य
शुद्ध्यन्ति त्रिरात्रेण द्विजोत्तमाः ॥ इदञ्च त्रिरात्राशौचविधानं
यत्प्रतियोगिकं भार्य्यात्वं पुत्रत्वञ्च तस्यैव ।
त्रिपुरुषाभ्यन्तरवर्त्तिनां पितृसपिण्डानान्तु पृथगाह मरीचिः ।
सूतके मृतके चैव त्रिरात्रं परपूर्व्वयोः । एकाहस्तु सपिण्डानां
त्रिरात्रं यत्र वै पितुरिति । यद्यपि दत्तकादीनामुत्पन्नानामेव
स्वीकारात् परिग्रहीतुरानुत्पत्त्याशौचं न घटते तथापि तदप-
नुगम् । प्रतिग्रहीत्रिति ।—प्रतिग्रहीतृरूपपित्रादीनां त्रयाणामित्यर्थः ।
दत्तकादीति ।—आदिपदेन क्षेत्रजादेर्ग्रहणम् । 'अन्याश्रितेषु दारेषु'
पुनर्भूष्वित्यर्थः । 'परपत्नीसुतेषु' दत्तकादिष्वित्यर्थः । मृतेषु सर्वेषु
त्रिरात्रेणाप्लुत्य स्नात्वा शुद्ध्यन्तीत्यन्वयः । द्विजोत्तमा इति प्राधान्य-
ज्ञापनार्थं, तेन शूद्रा अप्येति ज्ञेयम् । यत्प्रतियोगीति ।—यः प्रति-
योगी सम्बन्धी यस्य भार्य्यात्वस्य पुत्रत्वस्य च सत् । एतेनेदमुक्तं
भवति दत्तकमरणे ग्रहीतुः पुनर्भूमरणे तद्भार्य्यस्य एवाशौचं
नतु जनकस्य पूर्व्वपतेर्वा ।
त्रिपुरुषाभ्यन्तरवर्त्तिनामिति । पितृसपिण्डाना