सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 111, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 111

त्योत्पत्त्याशौचं घटत एवेति सूतकनिर्णयः। इदमपि समान-
जातीयानामेव पुत्राणाम्। तथाच ब्रह्मपुराणम्। औरसं
वर्जयित्वा तु सर्ववर्णेषु सर्वदा। क्षेत्रजादिषु पुत्रेषु जातेषु च
मृतेषु च। अशौचन्तु त्रिरात्रं स्यात् समान इति निश्चय इति।
सर्व्वदा सर्व्वकालं उपनयनानन्तरमपि। अन्याश्रितेषु दारेषु
परपत्नीसुतेषु च। गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्प-
विदिति। यद्यपि प्रतिग्रहीतुमरणे दत्तकस्य दशाहाशौचं न घटते
सपिण्डसगोत्रतयोर्मिलितयोरभावात् अशौचविशेषाद्दृत्य नोप-
लभ्यते तथापि गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन्। प्रेता-
हारैः समं तत्र दशरात्रेण शुद्ध्यतीति मरीचिवचनेन शिष्यस्य
गुरुप्रेतकार्य्यकरणनिमित्तदशाहाशौचमुक्तम्भवति। अत्र गुरुशब्द
आचार्य्यादिरूपः। गुरुत्वमत्राप्यस्ति उपनयनादिकर्त्तृत्वात्।
ततश्च दत्तकस्य प्रतीग्रहीतृक्रियाकरण एव दशरात्राशौचं सिध्यति

रूपस्येत्यर्थः। इदं त्रिरात्राशौचमित्यर्थः। सर्व्वदेति।—सर्व्ववर्णेषु
सर्व्वदा इति पूर्वेणाहवचनस्यमित्यर्थः। तथाचात्र 'आचान्तजननात्
सद्य चाचूड़ादेकरात्रकम्। त्रिरात्रमाव्रता देशाद्दशरात्रमतःपरं'
इत्यादिवचनानामनवकाशः। 'गोत्रिणः' सोदकसगोत्रा इत्यर्थः।
तत्पवित् प्रतिग्रहीता। गुरोरिति। गुरोराचार्यादेरसपिण्डस्य मृतस्य
शिष्योऽन्त्येष्टिं कृत्वा प्रेतनिर्हारकैर्मुख्यसपिण्डैस्तुल्यः दशरात्रेण शुद्धो
भवतीत्यर्थः। क्रियाकरण एव औरसाभावे सतीतिशेषः तथाच
तस्यैव सत्राधिकारात् पिण्डदोऽप्यंशहरश्चैषां पूर्वाभावे परःपर