सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 109, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 109

[Page Header]
११८° दत्तकमीमांसा ।

[Main Text]
कान्तत्वनियमात् ततश्च पिण्डनिवृत्त्या अशौचनिवृत्तिरर्थसिद्धैव ।
अमगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि
यो दद्यात् स दशाहं समापयेत् । प्रत्याद्दिष्टान्तु नैव स्यात् कर्तुः
खस्ति तथापि च । यावदशौचमुदकं पिण्डमेकञ्च दद्युरित्यादि-
वाक्यपर्य्यालोचनया पिण्डाशौचयोः समव्याप्तिसिद्धेः । तस्मात्
दत्तकजनकादीनाञ्च परस्परं नाशौचादि । यत्तु वैजिकादपि
सम्बन्धादनुरुन्ध्यादघं त्र्यहमिति तदपि व्यपैति ददतः स्वधेत्ये-
नेनापोदितम् दत्तकातिरिक्तस्थले तस्य सावकाशत्वात् । किञ्च
अशौचोदकदानादौ गोत्रसापिण्ड्ययोर्मिलितयोर्निमित्तत्वावगमात्
अन्यतरापाये न तन्निमित्तमशौचादि ।


[Commentary]
पूर्व्वक्रान्तत्वनियमादित्यर्थः । यावदशौचं तावत् . प्रेतोदकं
पिण्डमेकञ्च दद्युरिति विष्णुसूत्रात् तथाच प्रेतपिण्डादिदानांशौचयोः
समव्याप्तिनियमात् गोत्ररिक्थे जनयितुरित्यनेन पिण्डनिवृत्तेर्दर्शनात्
एकपायेनान्यतरनिवृत्तेरर्थसिद्धत्वादिति भावः । एतदभिप्रेत्याह तत-
श्चेति । प्रत्यादिष्टान्त्विति ।—दाहकवाहकादीनामित्यर्थः । उपसंहरति
तस्मादिति । नाशौचादीति ।—आदिपदेन नीरक्षीरदानप्रेततर्पणादीनां
परिग्रहः । वैजिकादपि सम्बन्धादिति ।—तथाच दत्तके जनकस्य बीज-
सम्बन्धात् त्र्यहमशौचं स्यादित्यभिप्रायः । तदपीति ।—तथाच वैजि-
कादपि सम्बन्धादिति सामान्यवचनस्य गोत्ररिक्थे जनयितुरित्य-
नेनापवादादित्यभिप्रायः । दत्तकातिरिक्तस्थले इति ।—तथाच तद्वचन-
स्यान्यपूर्व्वाजातापत्यविषयत्वमवतिष्ठते । अतएव कुल्लूकभट्टः वैजिके तु
परपूर्व्वाभार्य्यायामपत्यवतो त्र्यहमशौचं भवतीति तद्वचनं व्याख्यात-
वान् । तन्निमित्तमिति ।—गोत्रपिण्डनिमित्तं । ‘यदानुगं’ पिण्डा-