दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 78, कुल 168 में से
संदर्भ में पढ़ेंश्लो० १४–१८ ] अवलोकसमेतम् । ६७
अथ वाकेली—
विनिवृत्त्यास्य वाकेली द्वित्रिः प्रत्युक्तितोऽपि वा ॥ १७ ॥
अस्येतिवाक्यस्य प्रक्रान्तस्य साकाङ्क्षस्य विनिवर्तनं=वाकेली । द्वित्रिर्वा उक्ति-
प्रत्युक्तयः । तत्राद्या यथोत्तरचरिते ( ३।२६ )—'वासन्ती—
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ॥'
उक्तिप्रत्युक्तितो यथा रत्नावल्याम् (पृ० ३०)—'विदूषकः—^१भोदि मअणिए,
मं पि एदं चच्चरिं सिक्खावेहि ।' '^२मदनिका—हेदास, ण क्खु एसा
चच्चरी । दुवदिखंडअं क्खु एदं । विदूषकः—^३भोदि, किं एदिणा
खंडेण मोदआ करीअंति । मदनिका—^४णहि । पढीअदि क्खु एदं ।' इत्यादि ।
अथाधिवलम्—
अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाऽधिवलं भवेत् ।
यथा वेणीसंहारे ( ५।२७ )—'अर्जुनः—
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः ।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डुपुत्रः ॥'
इत्युपक्रमे 'राजा—अरे, नाहं भवानिव विकत्थनाप्रगल्भः । किंतु,—
द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम् ॥' ( वे० सं० ५।३४ )
इत्यन्तेन भीमदुर्योधनयोरन्योन्यवाक्यस्याधिक्योक्तिरधिवलम् ।
अथ गण्डः—
गण्डः प्रस्तुतसंबन्धिभिन्नार्थं सहसोदितम् ॥ १८ ॥
यथोत्तरचरिते ( १।३८ )—'रामः—
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो-
रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥
( प्रविश्य ) प्रतीहारी—देव^५, उअत्थिदो । रामः—अयि, कः ? प्रतीहारी—
देव^६स्स आसण्णपरिचारओ दुम्मुहो ।' इति ।
१ 'भवति मदनिके, मामप्येतां चर्चरीं शिक्षय ।' इति च्छाया. २ 'हताश,
न खल्वेषा चर्चरी । द्विपदीखण्डकं खल्वेतत् ।' इति च्छाया. ३ 'भवति,
किमेतेन खण्डेन मोदकाः क्रियन्ते ।' इति च्छाया. ४ 'नहि । पठ्यते खल्वेतत् ।'
इति च्छाया. ५ 'देव, उपस्थितः ।' इति च्छाया. ६ 'देवस्यासन्नपरिचारको
दुर्मुखः ।' इति च्छाया.