दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 77, कुल 168 में से
संदर्भ में पढ़ें६६ दशरूपकम् [ प्रकाशः ३
अथावलगितम्—
यत्रैकत्र समावेशात् कार्यमन्यत्प्रसाध्यते ॥ १४ ॥
प्रस्तुतेऽन्यत्र वान्यत्स्यात्तच्चावलगितं द्विधा ।
तत्रायं यथोत्तरचरिते समुत्पन्नवनविहारगर्भदोहदायाः सीताया दोहदकार्येऽनु-
प्रविश्य जनापवादादरण्ये त्यागः । द्वितीयं यथा छलतरामे—‘रामः—लक्ष्मण,
तातवियुक्तामयोध्यां विमानस्थो नाहं प्रवेष्टुं शक्नोमि । तदवतीर्य गच्छामि ।
कोऽपि सिंहासनस्याधः स्थितः पादुकयोः पुरः ।
जटावानक्षमाली च चामरी च विराजते ॥’
इति भरतदर्शनकार्यसिद्धिः ।
अथ प्रपञ्चः—
असद्भूतं मिथः स्तोत्रं प्रपञ्चो हास्यकृन्मतः ॥ १५ ॥
असद्भूतेनार्थेन पारदार्यादिनैपुण्यादिना याऽन्योन्यस्तुतिः स प्रपञ्चः । यथा
कर्पूरमञ्जर्याम्—‘भैरवानन्दः—
२रंडा चंडा दिक्खिदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ ।
भिक्खा भोजं चम्मखंडं च सेज्जा कोलो धम्मो कस्स णो होइ रम्मो ॥’
अथ त्रिगतम्—
श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह ।
नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ॥ १६ ॥
यथा विक्रमोर्वश्याम् ( १।३ )—
‘मत्तानां कुसुमरसेन षट्पदानां शब्दोऽयं परभृतनाद एष धीरः ।
कैलासे सुरगणसेविते समन्तात्किन्नर्यः कलमधुराक्षरं प्रगीताः ॥’
अथ छलनम्—
प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य ३छलनाच्छलम् ।
यथा वेणीसंहारे ( ५।२६ )—‘भीमार्जुनौ—
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः
क्वास्ते दुर्योधनोऽसौ कथयत पुरुषा द्रष्टुमभ्यागतौ स्वः ॥’
१ 'असद्भूतमिथःस्तोत्रं' इति पाठः.
२ 'रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पीयते खाद्यते च ।
भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य न भवति रम्यः ॥'
इति च्छाया. ३ 'छलना' इति पाठः.