दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 76, कुल 168 में से
संदर्भ में पढ़ेंश्लो० ५-१४ ] अवलोकसमेतम् । ६५
अथ प्रवृत्तकम्—
कालसाम्यसमाश्रित्यप्रवेशः स्यात् प्रवृत्तकम् ॥ १० ॥
प्रवृत्तकालसमानगुणवर्णनया सूचितपात्रप्रवेशः=प्रवृत्तकम् । यथा—
‘आसादितप्रकटनर्मिलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः ।
उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥
( ततः प्रविशति यथानिर्दिष्टो रामः । )’
अथ प्रयोगातिशयः—
एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ।
पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः ॥ ११ ॥
यथा—‘एष राजेव दुष्यन्तः’ इति ।
अथ वीथ्यङ्गानि—
उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् ।
वाक्केल्यधिवले गण्डमवस्यन्दितनालिके ॥ १२ ॥
असत्प्रलापव्याहारमृदवानि त्रयोदश ।
तत्र—
गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा ॥ १३ ॥
यत्रान्योऽन्यं समालापो द्वेधोद्घात्यं तदुच्यते ।
गूढार्थं पदं तत्पर्यायश्लेषेयं