सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 75, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 75

६४ दशरूपकं [ प्रकाशः ३
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे
संरोहत्पुलका हरेण हसताश्लिष्टा शिवा पातु वः ॥’ (रत्ना० १।२)
इत्यादिभिरेव भारतीं वृत्तिमाश्रयेत् ।
सा तु,—
भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ।
भेदैः प्ररोचनायुक्तैर्वीथीप्रहसनामुखैः ॥ ५ ॥
पुरुषविशेषप्रयोज्यः संस्कृतबहुलो वाक्प्रधानो नटाश्रयो व्यापारः=भारती ।
प्ररोचनावीथीप्रहसंनामुखानि चास्यामङ्गानि ।
यथोद्देशं लक्षणमाह—
उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना ।
प्रस्तुतार्थप्रशंसनेन श्रोतॄणां प्रवृत्त्युन्मुखीकरणं=प्ररोचना । यथा रत्नाव-
ल्याम् (१।५)—
‘श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी
लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् ।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन-
र्मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥’
वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते ॥ ६ ॥
वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तत्पुनः ।
सूत्रधारो नटीं ब्रूते मारुषं वाथ विदूषकम् ॥ ७ ॥
स्वकार्ये प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ।
प्रस्तावना वा तत्र स्युः कथोद्घातः प्रवृत्तकम् ॥ ८ ॥
प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ।
तत्र कथोद्घातः—
१स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ॥ ९ ॥
गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधैव सः ।
वाक्यं यथा रत्नावल्याम् (१।६)—‘यौगन्धरायणः—द्वीपादन्यस्मादपि-’
इति ।
वाक्यार्थे यथा वेणीसंहारे (१।७)—‘भीमः—
निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह केशवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥’
ततोऽर्थेनाह (वे० सं० १।८)—‘भीमः—
लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥’
१ ‘वाक्यं वाक्यार्थमथवा प्रस्तुतं यत्र सूत्रिणः’ इति पाठः.