सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 64, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 64

श्लो० ३४-३६ ] अवलोकसमेतम् । ५३
अथ कान्तिः—
१मन्मथामापितच्छाया सैव कान्तिरिति स्मृता ॥ ३५ ॥
शोभैव रागावतारघनीकृता कान्तिः । यथा—
‘उन्मीलद्वदनेन्दुदीधितिविसरैर्दूरे समुत्सारितं
भिन्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम् ।
एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुका-
दप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लग्नं तमः ॥’
यथा हि महाश्वेतावर्णनावसरे भट्टबाणस्य ।
अथ माधुर्यम्—
अनुल्बणत्वं माधुर्यं
यथा शाकुन्तले ( १।१७ )—
‘सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥’
अथ दीप्तिः—
दीप्तिः कान्तेस्तु विस्तरः ।
यथा—
२देओ पसिअ णिअंतसुमुहससिजोण्हाविलुत्ततमणिवहे ।
अहिसारिआण विघ्घं करेसि अण्णाण विहआसे ॥’
अथ प्रागल्भ्यम्—
निःसाध्वसत्वं प्रागल्भ्यं
मनःक्षोभपूर्वोकोऽङ्गसादः=साध्वसम्, तदभावः प्रागल्भ्यम् । यथा ममैव—
‘तथा व्रीडाविधेयापि तथा मुग्धापि सुन्दरी ।
कलाप्रयोगचातुर्यं सभास्वाचार्यकं गता ॥’
अथौदार्यम्—
औदार्यं प्रश्रयः सदा ॥ ३६ ॥
यथा ( गाथा० ३।२६ )—
३दिअहं खु दुखिआए सअलं काऊण गेहवावारं ।
गरुएवि मण्णुदुक्खे भरिमो पाअंतसुत्तस्स ॥’
यथा वा—‘भ्रूभङ्गे सहसोद्गता’ ( रत्ना० २।२१ ) इत्यादि ।
१ ‘मन्मथाध्यासित’ इति पाठः.
२ ‘दैवादृष्ट्वा नितान्तसुमुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।
अभिसारिकाणां विघ्नं करोष्यन्यासां विहताशे ॥’ इति च्छाया.
३ ‘दिवसं खलु दुःखितायाः सकलं कृत्वा गृहव्यापारम् ।
गुरुण्यपि मन्युदुःखे भरिमा पादान्ते सुप्तस्य ॥’ इति च्छाया.