दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 63, कुल 168 में से
संदर्भ में पढ़ें| ५२ | दशरूपकं | [ प्रकाशः २ |
|---|
यथा वा कुमारसंभवे ( ३।६७ )—
‘हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥’
यथा वा ममैव—
‘तं १ चिअ वअणं ते चेअ लोअणे जोव्वणं पि तं चेअ ।
अण्णा अंगंगलच्छी अण्णं चिअ किं पि साहेइ ॥’
अथ हावः—
हेवाक²सस्तु शृङ्गारो हावोऽक्षिभ्रूविकारकृत् ।
प्रतिनियताङ्गविकारकारी शृङ्गारः, स्वभावविशेषो हावः । यथा ममैव—
‘३ जं किं पि पेच्छमाणं भणमाणं रे जहा तह चेअ ।
णिज्झाअ णेहमुद्धं वअस्स मुद्धं णिअच्छेहि ॥’
अथ हेला—
स एव हेला सुव्यक्तशृङ्गाररससूचिका ॥ ३४ ॥
हाव एव स्पष्टभूयोविकारत्वात् सुव्यक्तशृङ्गाररससूचको हेला । यथा ममैव—
‘४ तह झत्ति से पअत्ता सव्वंगं विब्भमा थणुब्भेए ।
संसइअबालभावा होइ चिरं जह सहीणं पि ॥’
अथायत्नजाः सप्त । तत्र शोभा—
रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ।
यथा कुमारसंभवे ( ७।१३ )—
‘तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः ।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥’
इत्यादि । यथा च शाकुन्तले ( २।१० )—
‘अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥’
१ ‘तदेव वचनं ते चैव लोचने यौवनमपि तदेव ।
अन्यानङ्गलक्ष्मीरन्यदेव किमपि साधयति ॥’ इति छाया.
२ ‘अल्पालापः’ इति पाठः.
३ ‘यत्किमपि प्रेक्षमाणां भणमानां रे यथा तथैव ।
निध्याय स्नेहमुग्धां वयस्य मुग्धां पश्य ॥’ इति छाया.
४ ‘तया झटित्यस्याः प्रवृत्ताः सर्वाङ्गं विभ्रमाः स्तनोद्भेदे ।
संशयितबालभावा भवति चिरं यथा सखीनामपि ॥’ इति छाया.